SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ २०० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९४ मुहूर्तस्याष्टाविंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्त्रिंशत् सप्तषष्टिभागाः ततः पञ्चदशभिर्मुहूर्तेरश्लेषात्रिंशतामघात्रिंशतापूर्वफाल्गुनी शुद्धा,स्थिताः पश्चान्मुहूर्ताः सप्तत्रिंशच्छेषं तथैव, तत आगतं सूर्येण युक्तमुत्तरफाल्गुनीनक्षत्रंसप्तसुमुहूर्तेषु एकस्यचमुहूर्तस्य त्रयस्त्रशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु शेषेषु द्वितीयां पौर्णमासी परिसमापयति, अधुना तृतीयपौर्णमासीविषयं चन्द्रनक्षत्रयोगं पृच्छति 'ता एएसिणं०,सुगम, भगवानाह-'अस्सिणीहिं'इत्यादि, अश्विनीनक्षत्रं त्रितार-मिति पदपेक्षया बहुवचनं, तदानीं च-तृतीयपौर्णमासीपरिसमाप्तिवेलायां अश्विनीनक्षत्रस्य एकविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य नव द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कस्त्रिषष्टिश्चूर्णिकाभागाः शेषाः, तथाहि-स एव ध्रुवराशितृतीयपौर्णमासी चिन्त्यमाना वर्तत इति त्रिभिर्गुण्यते, जातमष्टानत्यधिकंशतं मुहूर्तानामेकस्य च मुहूर्तस्य पञ्चदश द्वाषष्टिभागा एकस्यचद्वाषष्टिभागस्य त्रयःसप्तषष्टिभागाःतत उगुणटुंपोट्टवया' इतिवचनात्एकोनषष्ट्यधिकेन मुहूर्तशतेन चतुर्विंशत्या द्वाषष्टिभागैरेकस्यचद्वाषष्टिभाग-स्यषट्षष्ट्या सप्तषष्टिभागैरभिजिदादीन्यत्तरभद्रपदापर्यन्तानिषट्नक्षत्राणिशुद्धानि, पश्चादव-तिष्ठन्ते अष्टात्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य द्विपञ्चाशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चत्वारः सप्तषष्टिभागाः, ततस्त्रिंशता मुहूर्त रेवतीनक्षत्रंशुद्धं तिष्ठत्यष्टौ मुहूर्तास्ततआगतंचन्द्रयुक्तमश्विनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य चमुहूत्तस्य नवसुद्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु शेषेषुपरिसमापयति । सम्प्रत्यस्यामेव तृतीयस्यां पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छत 'तंसमयंचण० सुगम, भगवानाह-'ता चित्ताहिं०, चित्रयायुक्तः सूर्यपरिसमापयति, तदानीं च-तृतीय पौर्णमासीपरिसमाप्तिवेलायां चित्रायामेको मुहूर्तस्य अष्टाविंश-तिषिष्टिभागा एकंच द्वाषटिभागं सप्तषष्टिधा छित्वा तस्य सत्का त्रिंशत् चूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशि सम्प्रति तृतीयपौर्णमासी चिन्तितेति त्रिभिर्गुण्यते, जातमष्टानवत्यधिकंशतंमुहूर्तानामेकस्य च मुहूर्तस्य पञ्चदश द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः तत एतस्मापुष्यशोधनकं पूर्वोक्तप्रकारेणशोध्यते स्थितं पश्चादष्टसप्तत्यधकंमुहूर्तानां शतमेकस्य च मुहूर्तस्य त्रयस्त्रशद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशत्सप्तषष्टिभागाः ततः पञ्चाशदधिकेन मुहूर्तशतेनाश्लेषादीनि हस्तपर्यन्तानि पञ्च नक्षत्राणिशुद्धयन्ति, शेषास्तिष्ठन्ति अष्टाविंशतिर्मुहूर्ताः शेषं तथैव तत आगतं सूर्येण सह सम्प्रयुक्तंचित्रानक्षत्रमेकस्मिन् मुहूर्ते एकस्य चमुहूर्तस्याष्टाविंशतौ द्वाषष्टिभागेष्वेकस्यच द्वाषष्टिभागस्य त्रिंशति सप्तषष्टिभागेषुशेषेषुतृतीयांपौर्णमासींपरिसमापयति। सम्प्रति द्वादश्यां पौर्णमास्यां चन्द्रनक्षत्रयोगं पृच्छति ‘ता एएसि णमित्यादि सुगम, भगवानाह- ‘ता उत्तराहिं'इत्यादि, ता इति पूर्ववत्, उत्तराभ्यामाषाढाभ्यां द्वादशी पौर्णमासी चन्द्रः परिसमापयति, तदानीं च तयोरुत्तरयोराषाढयोः षडविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य षडविंश-तिषिष्टिभागा एकंच द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काश्चतुःपञ्चाशचूर्णिका भागाः सेषाः, तथाहि-स एव ध्रुवराशि द्वादशी किल पौर्णमासी चिन्त्यते इति द्वादशर्भिर्गुण्यते, जातानि सप्त शतानि तत एतस्मात् 'मूले सत्तेव बायाला' इत्यादिवचनात्, सप्तभिश्च द्विचत्वारिंशदधिकैर्मुहूर्तानांशतैरेकस्यच मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy