________________
प्राभृतं १०, प्राभृतप्राभृतं - २२
१९९ त्रयस्त्रिंशत्सप्तषष्टिभागाः, एतद् ध्रुवराशेः शोध्यते, तद्यथा
षट्पटेर्मुहूर्तेभ्यः एकोनविंसतिर्मुहूर्ताः शुद्धाःस्थिताः पश्चात्सप्तचत्वारितेभ्य एको मुहूर्तो गृह्यतेस्थिताः षट्चत्वारिंशद्, गृहीतस्य चमुहूर्तस्य द्वाषष्टिभागाः कृत्वा द्वाषष्टिभागराशौपञ्चकरूपे प्रक्षिप्यन्ते, जाता द्वाषप्टिभागाःसप्तषष्टिस्तेभ्यस्त्रचत्वारिंशत्शोध्यन्तेस्थिताः पश्चाच्चतुर्विंशतिस्तेभ्यः एकरूपमुपादीयतेजाता त्रयोविंशतिगृहीतस्यचरूपस्य सप्तषष्टिभागाः क्रियन्ते कृत्वाच सप्तषष्टिमागैकमध्ये प्रक्षिप्यन्तेजाता अष्टषष्टि सप्तषष्टिभागास्तेभ्यस्त्रयस्त्रशत्शुद्धाः स्थिताः पञ्चत्रिंशत्, ततः पञ्चदशमुहूर्तेरश्लेषा त्रिंशताच मुहूर्तेर्मघाशुद्धा, स्थितः पश्चादेको मुहूर्तएकस्य च मुहूर्तस्य त्रयोविंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तष,ष्टिभागाः । तत आगतंपूर्वफाल्गुनीनक्षत्रस्याष्टाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्याष्टात्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वात्रिंशति सप्तषष्टिभागेषु शेषेषु सूर्य प्रथमां पौर्णमासी परिसमापयति, एतेच सूर्यमुहूर्ताः, एवंभूतैश्च सूर्यमुहूर्तेस्त्रशता त्रयोदश रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्य द्वादश व्यावहारिका मुहूर्ता भवन्ति, तत एतदनुसारेण गतैकदिवसभागगणना शेषस्थितदिवसगणना च पूर्वफाल्गुनीनक्षत्रस्य स्वं कर्त्तव्या, एवमुत्तरसत्रेष्वपि सूर्यनक्षत्रयोगे परिभावनीयं ।
‘ता एएसि ण'मित्यादि, प्रश्नसूत्रं सुगम, भगवानाह-'ता उत्तराहि'इत्यादि, ता इति पूर्ववत्, उत्तराभ्यां प्रोष्ठपदाभ्यामत्रापि द्विवचनं उत्तरप्रोष्ठपदानक्षत्रस्य द्वितारकत्वात्, बहुवचनं च सूत्रे प्राकृतत्वत्, तयोश्च प्रोष्ठपदयोः सप्तविंशतिर्मुहूर्ताश्चतुर्दश च द्वाषष्टिभागा मुहूर्तस्य एक च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काश्चतुःषष्टि चूर्णिकाभागाः शेषाः, तथाहि-स एव ध्रुवराशि द्वितीयपौर्णमासीचिन्तायां द्वाभ्यां गुण्यते, मुहूर्तानां जातं द्वात्रिंशतं शतं, एकस्य च मुहूर्तस्य दश द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ ततः पूर्वरीत्या अभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्काः षट्षष्टि सप्तषष्टिभागाः शोध्यन्ते नव मुहूर्ता एकस्य च मुहूर्तस्य सप्तचत्वा- रिंशद्दाषष्टिभागा एकस्य च द्वाषष्टिभागस्यत्रयः सप्तषष्टिभागाःततस्त्रिंशतामुहूत्तैःश्रवणस्त्रिंशताधनिष्ठा पञ्चदशभि शतभिषक् त्रिंशता पूर्वभद्रपदा शुद्धेति स्थिताः पश्चात् सप्तदश मुहूर्ताः शेषं तथैव तत आगतं उत्तरभद्रपदानक्षत्रस्य सप्तविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुर्दशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुःषष्टौ सप्तषष्टिभागेषुशेषेषु द्वितीया पौर्णमासी परिसमाप्तिमुपैति, सम्प्रत्यस्यामेव पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छति
'तं समयं च न मित्यादि, सुगमं, भगवानाह-'ता उत्तराहि'इत्यादि, ता इति पूर्ववत्, उत्तराभ्यां फाल्गुनीभ्यां, तयोश्च उत्तरयोः फाल्गुन्योस्तदानीं द्वितीयपौर्णमासीपरिसमाप्तिवेलायां सप्त मुहूर्तास्त्रयस्त्रिंशच्च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिभागंच एकं सप्तषष्टिधा छित्वा तस्य सत्का एकत्रिंशच्चूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिर्धयते धृत्वा च द्वितीयस्याः पौर्णमास्याः सम्प्रति चिन्तेति द्वाभ्यां गुण्यते जातं द्वात्रिंशं शतं मुहूर्तानामेकस्य च मुहूर्तस्य दश द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ तत एतस्मात् पुष्यशोधनकमेकोनविंशतिर्मुहूर्ता एकस्यचमुहूर्तस्य त्रिचत्वारिंशत्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः इत्येवंपरिमाणं पूर्वरीत्या शोध्यते, स्थितं पश्चाद् द्वादशोत्तरं शतं मुहूर्तानामेकस्य च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org