SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९४ मध्ये प्रथमां पौर्णमासी चन्द्र उपलक्षणमेतत् सूर्यो वा केन नक्षत्रेण सह योगमुपागतः सन् युनक्ति-परिसमापयति ?, भगवानाह- ता इति-तत्र तेषां पञ्चानां संवत्सराणां मध्ये प्रथमां पौर्णमासीं चन्द्रः परिसमापयति धनिष्ठाभि, धनिष्ठानक्षत्रस्य पञ्चतारत्वात्तदपेक्षया बहुवचनं अन्यथा त्वेकवचनं द्रष्टव्यं, तासांच धनिष्ठानांत्रयो मुहूर्ताः एकस्य च मुहूर्तस्य एकोनविंशतिाषष्टिभागा एकं द्वाषष्टिभागं सप्तषष्टिधा छित्वा पञ्चषष्टिश्चूर्णिका भागाः शेषाः, तथाहि पौर्णमासीविषयस्य चन्द्रनक्षत्रयोगस्य परिज्ञानार्थं करणं प्रागेवोक्तं, तत्र षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकः सप्तषष्टिभागः । इत्येवंरूपो ध्रुवराशियते, धृत्वाच प्रथमायां पौर्णमास्यां चन्द्रनक्षत्रयोगो ज्ञातुमिष्ट इत्येकेन गुण्यते, एकेनच गुणितंतदेव भवतीति तावानेव जातः, तस्मादभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य चद्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोध्यते, तत्र षट्षष्टेनव मुहूर्ताः शुद्धाः,स्थिताः पश्चात् सप्तपञ्चाशत्, तेभ्यएको मुहूर्तांगृहीत्वाद्वाषष्टिभागीकृतस्ते च द्वाषष्टिरपि भागा द्वाषष्टिभागराशौपञ्चकरूपे प्रक्षिप्यन्तेजाताः सप्तषष्टिषष्टिभागास्तेभ्यश्चतुर्विंशति शुद्धाः स्थिताः पश्चात्रिचत्वारिंशत्, एकरूपमादाय सप्तषष्टिभागीक्रयते, तेच सप्तषष्टिरपि भागाः सप्तषष्टिर्भागमध्ये प्रक्षिप्यन्ते, जाताःअष्टषष्टि सप्तषष्टिभागास्तेभ्यः षट्षष्टि शुद्धाःस्थितौ द्वौ पश्चात्सप्तषष्टिभागौ, ततस्त्रशता मुहूत्तैः श्रवणः शुद्धः स्थिताः पश्चान्मुहूर्ताः षड्विंशति, तत इदमागतंधनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतिसङ्खयेषु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चषष्टिसङ्खयेषु सप्तषष्टिभागेषु शेषेषु प्रथमा पौर्णमासी परिसमाप्तिमुपयाति, सम्प्रति सूर्यनक्षत्रयोगपृच्छन्नाह– 'तं समयंचण'मित्यादितं समयमित्यत्र 'कालाध्वनोाप्ता'वित्यधिकरणत्वेऽपि द्वितीया, ततोऽयमर्थः-तस्मिन् समये यस्मिन् समये धनिष्ठानक्षत्रचन्द्रेण युक्तं यथोक्तशेषं परिसमापयति तस्मिन् क्षणे इत्यर्थः, सूर्य केन नक्षत्रेण युक्तः सन् तां प्रथमां पौर्णमासी परिसमापयति, भगवानाह- 'तापुव्वाहि'इत्यादि, ता इति तदा पूर्वाभ्यांफाल्गुनीभ्यां, पूर्वफाल्गुनीनक्षत्रस्य द्वितारत्वात्तदपेक्षया द्विवचनं, द्विवचने च प्राप्ते प्राकृते बहुवचनं, तयोश्च पूर्वफाल्गुन्योस्तदानीमष्टाविंशतिर्मुहूर्ता अष्टात्रिंशच द्वाषप्टिभागा मुहूर्तस्य एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का द्वात्रिंशचूर्णिका भागाः शेषाः, तथाहि स एव षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंप्रमाणोध्रुवराशिध्रयते। धृत्वा च एकेन गुण्यते, एकेन च गुणितं तदेव भक्तति तावानेव जातः, ततस्तस्मात् पुष्यसोधनकं एकोनविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्र्यस्त्रिशत्सप्तषष्टिभागाः इत्येवंप्रमाणं शोध्यते, अथैतावप्रमाणस्य पुष्यशोधनकस्य कथमुत्पत्तिरिति, उच्यते,इहपूर्वयुगपरिसमाप्तिवेलायां पुष्यस्य त्रयोविंशति सप्तषष्टिभागाः परिसमाप्ताश्चत्वारिंशदवतिष्ठन्ति, ततस्तेचतुश्चत्वारिंशत्सप्तषष्टिभागा मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि , तेषां सप्तषष्ट्या भागो ह्रियते, लब्धा एकोनविंशतिर्मुहूर्ताः, शेषास्तिष्ठन्ति सप्तचत्वारिंशत् , ते (च) द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुण्यन्ते, जातानि एकोनत्रिंशच्छतानि चतुर्दशोत्तराणि , तेषां सप्तषष्ट्या भागो ह्रियते, लब्धास्त्रचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy