________________
प्राभृतं १०, प्राभृतप्राभृतं - २२
२०३ वृ. 'ताएएसिण'मित्यादि सुगम, भगवानाह-'ताअसिलेसाहि'इत्यादि, ताइति पूर्ववत्, अश्लेषाभिसह युक्तश्चन्द्रः प्रथमाममावास्यांपरिसमापयति, अश्लेषानक्षत्रस्यषट्तारत्वात्तदपेक्षया बहुवचनं,तदानीं च-प्रथमामावास्यापरिसमाप्तिवेलायामश्लेषानक्षत्रस्य एको मुहूर्तश्चत्वारिंशच्च द्वापष्टिभागा मुहूर्तस्यद्वाषष्टिभागंच सपतषष्टिधा छित्वाषट्षष्टिश्चूर्णिकाभागाःशेषाः, तथाहि-स एवध्रुवराशि प्रथमामावास्या किल सम्प्रति चिन्त्यमाना वर्तते इत्येकेन गुण्यते, एकेन च गुणितं तदेव भवतीति तावानेव जातः, तत एतस्मात् । ॥१॥ 'बावीसंच मुहुत्ता छायालीसं बिसट्ठिभागाय।
एयं पुनव्वसुस्स य सोहेयव्वं हवइ पुण्णं ॥' इति वचनात्द्वाविंशतिर्मुहूर्ता एकस्यचमुहूर्तस्य षट्चत्वारिंशत्द्वाषष्टिभागा इत्येवंप्रमाणं पुनर्वसुशोधनकं शोध्यते, तत्र षट्षष्टेर्मुहूर्तेभ्यो द्वाविंशतिर्मुहूर्ताः शुद्धाः, स्थिताः पश्चाच्चतुश्चत्वारिंशत्, तेभ्य एकमुहूर्तमपेक्ष्य तस्य द्वाषष्टिभागाः कृताः,तेद्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाताः सप्तषष्टि, तेभ्यः षट्चत्वारिंशत् शुद्धाः, शेषास्तिष्ठन्ति एकविंशति, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रशता पुष्यः शुद्धः, स्थिताः पश्चात्रयोदश मुहूर्ता, अश्लेषानक्षत्रं चार्द्धक्षेत्रमिति पञ्चदशमुहूर्तप्रमाणं, तत इदमागतं-अश्लेषानक्षत्रस्य एकस्मिन् मुहूर्ते चत्वारिंशति मुहूर्तस्य द्वाषष्टिभागेषु एकस्यच द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य षट्षष्टिभागेषुशेषेषुप्रथमामावास्या समाप्तिमुपगच्छति । सम्प्रत्यस्यामेव प्रथमायाममावास्यायां सूर्यनक्षत्रं पृच्छति-'तं समयं च न'मित्यादि, सुगम, भगवानाह-‘ता असिलेसाहिं चेवे'त्यादि, इह य एवास्याममावास्यायां चन्द्रनक्षत्रयोगे ध्रुवराशिर्यदेव शोधनकं स एव सूर्यनक्षत्रयोगविषयेऽपि ध्रुवराशिस्तदेव च शोधनकमिति तदेव सूर्यनक्षत्रयोगेऽपि नक्षत्रं तावदेव च तस्य नक्षत्रस्य शेषमिति, तदेवाह-अश्लेषाभिर्युक्तः सूर्य प्रथमाममावास्यां परिसमापयति, तस्यां च परिसमाप्तिवेलायामश्लेषाणामेको मुहूर्त एकस्य च मुहूर्तस्य चत्वारिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागाः शेषाः।
द्वितीयामावास्याविषयं प्रश्नसूत्रमाह-'ता एएसि ण'मित्यादि सुगम, भगवानाह-'ता उत्तराहिं' इत्यादि, उत्तराभ्यां फाल्गुनीभ्यांयुक्तःचन्द्रो द्वितीयाममावास्यापरिसमापयति, तदानीं च-अमावास्यापरिसमाप्तिवेलायामुत्तरायाः फाल्गुन्याश्चत्वारिंशन्मुहूर्ताः पञ्चत्रिंशद्वाषष्टिभागाः मुहूर्तस्य द्वाषष्टिभागंचसप्तषष्टिधा छित्वा तस्य सत्काः पञ्चषष्टिश्चूर्णिका भागाः शेषाः, तथाहि-स एवध्रुवराशि द्वाभ्यांगुण्यते, जातंद्वात्रिंशदधिकं मुहूर्तानांशतं, एकस्यचमुहूर्त-स्य द्वाषष्टिभागा दश एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य द्वौ चूर्णिकाभागौ तत्र प्रथमं पुनर्वसुशोधनकं शोध्यते, द्वात्रिंशदधिकमुहूर्तशतात्द्वाविंशतिर्मुहूर्ताः शुद्धाः स्थितं पश्चाद्दशोत्तरंशतं, तेभ्योऽप्येको मुहूर्तो गृहीत्वा द्वाषष्टिभागीक्रयते, कृत्वा च ते द्वाषष्टिभागा द्वाषष्टिभागराशौ प्रक्षिप्यन्ते, जाता द्विसप्ततिषष्टिभागास्तेभ्यः षट्चत्वारिंशत् शुद्धाः स्थिताः पश्चात् षड्विंशति, नवोत्तराच्च मुहूर्तशतात् त्रिंशता पुष्यःशुद्धः, स्थिताः पश्चादे-कोनाशीति, ततोऽपि पञ्चदशभिर्मुहूर्तेरश्लेषा शुद्धा, स्थिता पश्चाच्चतुःषष्टि, ततोऽपि त्रिंशता मघाः शुद्धाः, स्थिता चतुस्त्रिंशत्, ततोऽपि त्रिंशता पूर्वफाल्गुनी शुद्धा, स्थिताः पश्चात् चत्वारः, उत्तरफाल्गुनीनक्षत्रं द्वयर्द्धक्षेत्रमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org