SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १९५ पाश्चात्ययुगचरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् परतो मण्डलस्य चतुर्विंशत्यधिकशतप्रविभक्तस्य सत्कानां चतुर्नवतिचतुर्नवतिभागानामतिक्रमे तस्याः तस्याः पौर्णमास्याः परिसमाप्ति, ततश्चतुर्नवतिर्द्वाषष्ट्या गुण्यते, जातान्यष्टापञ्चाशच्छतानि अष्टाविंशत्यधिकानि, तेषां चतुर्विंशत्यधिकेन शतेन भागो हियते, लब्धाः सप्तचतवारिंशत्सकलमण्डलपरावर्त्ताः, न च तैः प्रयोजनं, केवलं राशेर्निर्लेपीभवनादागतं यस्मिन देशे स्थितः सन् पाश्चात्ययुगसम्बन्धिचरमद्वाषष्टितमपौर्णमासीपरिसमापकस्तस्मिन्नेव देशे विवक्षितस्यापि युगस्य चरमां द्वाषष्टितमां पौर्णमासीं परिसमापयतीति, सम्प्रति चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनं देशं पृच्छति - 'ता एएसि ण' मित्यादि, सुगमं, भगवानाह - 'ता जंबुद्दीवस्स ण' मित्यादि, ता इति पूर्ववत्, जम्बूद्वीपस्य द्वीपस्य प्राचीनापाचीनायतया अत्रापि प्राचीनग्रहणेनोत्तरपूर्वा दिक् गृह्यते अपाची- नग्रहणेन दक्षिणापरा, ततोऽयमर्थ - उत्तरपूर्वदक्षिणापरायतया एवमुदीच्यदक्षिणायतया - उत्तरा-परदक्षिणपूर्वायतया जीवया - दवरिकया मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वाविभज्य भूयश्चतुभिर्भक्त्वा । प्राभृतं १०, प्राभृतप्राभृतं - २२ 'पुरत्थिमिल्लंसि'त्ति पूर्वदिग्वर्त्तिनि चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे सप्तविंशतिभागानुपादायाष्टाविंशतितमं च भागं विंशतिधा छित्वा तद्गतानष्टादश भागानुपादाय शेषैस्त्रिभिर्भागैश्चतुर्थस्य च भागस्य द्वाभ्यां कलाभ्यां विंशतितमाभ्यामित्यर्थः दाक्षिणात्यं च चतुर्भागमण्डलमसंप्राप्तः सन् तत्र प्रदेशे स सूर्यश्चरमां द्वाषष्टिं - द्वाषष्टितमां पौर्णमासीं परिसमापयति । मू. (९२) ता एएसि णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे कंसि देसंसि जोएति ?, ताजंसि णं देसंसि चंदे चरिमबावट्ठि अमावासं जोएति ताते अमावासट्टाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवादिणावेत्ता एत्थ णं से चंदे पढमं अमावासं जोएति, एवं जेणेव अभिलावेणं चंद पूणिमासिणिओ तेणेव अभिलावेणं अमावासाओ भणितव्वाओ बीइया ततिया दुवालसमी। एवं खलु एतेणुवाएणं ताते २ अमावासाठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दुवीसं २ भागे उवादिणावेत्ता तंसि २ देसंसि तं तं अमावासं चंदेण जोएति । ता एतेसि णं पंचण्हं संवच्छराणं चरमं अमावासं चंदे कंसि देसंसि जोएति ? ता जंसि णं देसंसि चंदे चरिमं बावट्ठि पुण्णिमासिणि जोएति, ताते पुण्णिमासिणिट्ठाणाए मंडलं चउव्वीसेणं सतेणं छत्तीसोलसभागे उक्कोवइत्ता एत्थ णं से चंदे चरिमं बावट्ठि अमावासं जोएति । वृ. तदेवं सूर्याचन्द्रमसोः पौर्णमासीपरिसमाप्तिदेश उक्तः, सम्प्रति तयोरेवामावास्यापरिसमाप्तिदेशं प्रतिपिपादयिषुः प्रथमतः चन्द्रविषयं प्रश्नसूत्रमाह - 'ता एएसि ण 'मित्यादि, तत्र युगे एतेषमामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये प्रथमाममावास्यां चन्द्रः कस्मिन् देशे स्थितः परिसमापयति ?, भगवानाह - 'ता जंसि ण' मित्यादि, तत्र यस्मिन् देशे स्थितः सन् चन्द्रश्चरमांद्वाषष्टिं - द्वाषष्टितमामवास्यां परिसमापयति, ततोऽमावास्यास्थानाद् - अमावास्यापरिसमाप्तिस्थानात्परतो मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा तद्गतान् द्वात्रिंशतं भागान् उपादायात्र प्रदेशे स चन्द्रः प्रथमा - ममावास्यां परिसमापयति ‘एव’मित्यादि, एवमुक्तेन प्रकारेण येनैवाभिलापेन चन्द्रस्य पौर्णमास्यो भणितास्तेनैवाभिलापेनामावास्या अपि भणितव्याः, तद्यथा-द्वितीया तृतीया द्वादशी च, ताश्चैवम्- 'ता For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy