SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १९३ प्राभृतं १०, प्राभृतप्राभृतं - २२ चतुर्विंशत्यधिकेन शतेन छित्त्वा परतस्तदगतान् द्वात्रिंशतं २ भागानुपादाय तस्मिन् २ देशे चन्द्रः परिसमापयति, स चैवं परिसमापयन्तावद्वेदितव्यो यावद् भूयोऽपिचरमां द्वाषष्टिं पौर्णमासींप तस्मिन् देशे परिसमापयति यस्मिन् देशे पाश्चात्ये युगेचरमां द्वाषष्टिं पौर्णमासी रिसमापितवान्, कथमेतदवसीयते इति चेत्, उच्यते, गणितक्रमवशात्, तथाहि पाश्चात्ययुगचरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिस्थानात्परतोमण्डलस्य चतुर्विंशत्यधिकशतप्रविभक्तस्य सत्कानां द्वात्रिंशतो भागानामतिक्रमे तस्यास्तस्याः पौर्णमास्याः परिसमाप्ति, द्वाषष्टिश्च सर्वसङ्ख्यया युगे पौर्णमास्यः, ततो द्वात्रिंशत् द्वाषष्ट्या गुण्यते, जातान्येकोनविंशत्यधिकानि चतुरशीत्यधिकानि , तेषां चतुर्विंशत्यधिकेन शतेन भागो ह्रियते, लब्धाः षोडश सकलमण्डलपरावर्ताः, समस्तस्यापि च राशेनिलेपीभवनादागतं यस्मिन देशे पाश्चात्ययुगसम्बन्धिचरमद्वाषष्टितपौर्णमासीपरिसमाप्ति, चरमद्वाषष्टितमपरिसमाप्तिदेशं पृच्छति___ता एएसि णं०, ता इति-तत्र युगे एतेषामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये चरमांद्वाषष्टितमां पौर्णमासींचन्द्रः कस्मिन् देशेयुनक्ति-परिसमापयति?, भगवानाह– 'जंबुद्दीवस्स इत्यादि, ता इतिपूर्ववत्, जम्बूद्वीपस्य द्वीपस्योपरिप्राचीना-पाचीनायतया, इहप्राचीनग्रहणेनोत्तरपूर्वा गृह्यते, अपाचीनग्रहणेन दक्षिणापरा, ततोऽयमर्थ-पूर्वोत्तरदक्षिणापरायतया, एवमुदीचिदक्षिणायतया-पूर्वदक्षिणोत्तरापरायतया जीवया-प्रत्यञ्चया दवरिकया इत्यर्थः। मण्डलंचतुर्विंशेन-चतुर्विंशत्यधिकेनशतेन छित्वा-विभज्य भूयश्चतुर्भिर्विभज्यते, ततो दाक्षिणात्ये चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे सप्तविंशतिभागानुपादायाष्टाविंशतितमंच भागं विंशतिधा छित्वा तद्गतानष्टादश भागानुपादाय शेषैस्त्रभि गश्चतुर्थस् भागस्य द्वाभ्यां कलाभ्या पाश्चात्यं चतुर्भागमण्डलमसम्प्रातः, अस्मिन् प्रदेशे चन्द्रो द्वाषष्टितमां चरमां पौर्णमासी परिसमापयति तदेवं चन्द्रस्य पौर्ममासीपरिसमाप्तिदेश उक्तः, सम्प्रति सूर्यस्य पौर्णमासीपरिसमाप्तिदेशं प्रतिपिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह मू. (९१) ता एएसिणं पंचण्डं संवच्छराणं पढमं पुण्णिमासिणिं सूरे कंसि देसंसिजोएति ताजंसिणं देसंसि सूरे चरिमं बावडिं पुण्णिमासिणिं जोएति ताते पुण्णिमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता चउनवतिं भागे उवातिणावेत्ता एत्थ णं से सूरिए पढमं पुण्णिमासिणिं जोएइ । ता एएसिणं पंचण्हं संवच्छराणं दोच्चं पुण्णिमासिणिं सूरे कसि देसंसि जोएति? ताजंसि णं देसंसि सूरे पढमं पुण्णिमासिणिं जोएइ ताए पुण्णिमासिणीठाणाओ मंडलं चउवीसं सएण छेत्ता दो चउनवइभागे उवाइणावित्ता एत्थ णं से सूरे दोच्चं पुण्णमासिणिं जोएइ। ताएएसि णं पंचण्हं संवच्छराणं तच्चं पुण्णिमासिणिं सूरे कंसि देसंसि जोएइ?, ता जंसि णं देसंसि सूरे दोच्चं पुण्णिमासिणिं जोएति ताते पुण्णिमासिणिट्ठाणाते मंडलं चउव्वीसं सतेणं छेत्ता चउनउतिभागे उवातिणावेत्ता एत्थ णं से सूरे तच्च पुण्णिमासिणिं जोएति। ता एतेसि णं पंचण्हं संवच्छराणं दुवालसं पुण्णिमासिणिं० जोएति, ताते पुण्णिमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता अट्टछत्ताले भागसते उवाइणावेत्ता, एत्व णं से सूरे दुवालसमं पुण्णिमासिणिं जोएति, एवं खलु एतेणुवाएणं ताते २ पुण्णिमासिणिट्ठाणाते मंडलं |12|13 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy