________________
१८९
प्राभृतं १०, प्राभृतप्राभृत - २२
गशिरः पुष्यो मघा पूर्वफाल्गुनी हस्तः चित्राऽनुराधा मूलः पूर्वाषाढा इति, तथा यानि अहोरात्रप्रमितस्य क्षेत्रस्यार्द्ध चन्द्रेण सह योगमश्नुवते तान्यर्द्धक्षेत्रामि, तानि च षट्, तद्यथा-शतभिषक् भरणी आर्द्रा अश्लेषा स्वातिज्येषति, तथा द्वितीयम) यस्य तत् द्वयर्द्ध, सार्धमित्यर्थः।
द्वयर्द्धमर्दाधिकं क्षेत्रमहोरात्रप्रमितं चन्द्रयोगयोग्यं येषां तानि यर्द्धक्षेत्राणि, तान्यपि षट्, तद्यथा-उत्तरभद्रपदा उत्तरफाल्गुनी उत्तराषाढा रोहिणीपुनर्वसुविशाखा चेति, तत्रसीमापरिमाणचिन्तायामहोरात्रः सप्तषष्टिभागीक्रयते इति समक्षेत्राणां क्षेत्रं प्रत्येकंसप्तषष्टिभागाः परिकल्प्यन्ते, अर्द्धक्षेत्राणांत्र्यस्त्रिंशत् अर्द्धच, द्वयर्द्धक्षेत्राणांशतमेकमर्द्ध च, अभिजिन्नक्षत्रस्यएकविंशति सप्तषष्टिभागाः, समक्षेत्राणि च नक्षत्राणि पञ्चदशेति सप्तषष्टि पञ्चदशभिर्गुण्यते, जातं सहन पञ्चोत्तरं, अर्द्धक्षेत्राणि षडिति ततः सार्द्धा त्रयस्त्रिंशत् षड्भिर्गुण्यते, जाते द्वे शते एकोत्तरे, द्वयर्द्धक्षेत्राण्यपि षट्, ततः शतमेकमर्द्ध च षड्भिस्ताडयते, जातानि षट् शतानि त्र्युत्तराणि, अभिजिन्नक्षत्रस्य एकविंशति, सर्वसङ्ख्यया जातानि अष्टादश शतानि त्रिंशदधिकानि , एतावद्भागपरिमाणमेकमर्द्धमण्डलमेतावद्भागमेव द्वितीयमिति त्रिंशदधिकान्यष्टादश शतानि द्वाभ्यां गुण्यन्ते जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि , एकैकस्मिन्नहोरात्रे किल त्रिंशन्मुहूर्ता इति प्रत्येकमेतेषु षष्ट्यधिकषट्त्रिंशच्छतसङ्खयेषु भागेषु त्रिंशद्भागकल्पनायां त्रिंशता गुण्यन्ते, जातमेकं शतसहस्रमष्टानवति शतानि, तत इत्थं मण्डलस्य भागान् परिकल्प्य भगवान् प्रतिवचनं ददाति
'ता'इति तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्येऽस्तीति निपातत्वादार्षत्वाद्वा स्तस्ते नक्षत्रे ययोः प्रत्येकं षट् शतानि त्रिंशानि-त्रिंशदधिकानि सप्तषष्टित्रिंशदभागानां सीमाविष्कम्भः-सीमापरिमाणं, तथाऽस्तीति सन्ति तानि नक्षत्राणि येषां प्रत्येकंपञ्चोत्तरंसहस्रंसप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, सन्ति तानि नक्षत्राणि येषां प्रत्येकं द्वे सहनं दशोत्तरे सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, सन्ति तानि नक्षत्राणि येषां प्रत्येकं त्रीणि सहस्राणि पञ्चदशोत्तराणि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, एवं भगवता सामान्येनोक्ते भगवान् गौतमो विशेषावगमनिमित्तं भूयः प्रश्नयति_ 'ता एएसिण'मित्यादि, तत्रएतेषांषट्पञ्चाशतो नक्षत्राणांमध्ये कतराणि तानि नक्षत्राणि येषां षट्शतानि त्रिंशानि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, 'तंचेव उच्चारेयव्वं ति तदेवानन्तरोक्तमुक्तप्रकारेणोच्चारयितव्यं, तद्यथा-'कयरे नक्खत्ता जेसिं सहस्सं पंचोत्तरं सत्तट्ठिभागतीसइभागाणंसीमाविक्खंभो, कयरे नक्खत्ताजेसिंदो सहस्सा दसुत्तरा सत्तविभागा तीसइभागाणं सीमाविक्खंभो' इति, चरमंतु सूत्रं साक्षादाह ‘कयरे नक्खत्ता' इत्यादि, एतानि त्रीण्यपि सूत्राणि सुगमानि (च), भगवानाह-‘ता एएसि ण'मित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषांषट् शतानि त्रिंशानि सप्तषष्टिभागत्रिंशद्भागानां सीमाविष्कम्भः ते द्वे अभिजिन्नक्षत्रे, कथमेतदवसीयते इति चेत्, उच्यते, इह एकैकस्याभिजितो नक्षत्रस्य सप्तषष्टिखण्डीकृतस्याहोरात्रग्यस्य क्षेत्रस्य सत्का एकविंशतिर्भागाश्चन्द्रयोगयोग्याः, एकैकास्मिंश्च भागे त्रिंशद्भागपरिकल्पनादेकविंशतिस्त्रशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि , तथा
Jain Education International
For Pri
For Private & Personal Use Only
www.jainelibrary.org