SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/८७ परिभावनीयं, 'ता जंबुद्दीवे ण' मित्यादि, तत्र जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते, द्वौ सूर्यौ तापितवन्तौ तापयतस्तापयिष्यतः, षट्पञ्चाशन्नक्षत्राणि चन्द्रादिभिः सह योगमयुञ्जन् युञ्जन्ति योक्ष्यन्ति, तत्र तान्येव षट्पञ्चाशन्नक्षत्राणि दर्शयति १८८ 'तंजहे' त्यादि सुगमं, इह भरतक्षेत्रे प्रतिदिवसमष्टाविंशतिरेव नक्षत्राणि चारं चरन्ति, ततः पूर्वमस्य दशमस्य प्राभृतस्य द्वितीये प्राभृतप्राभृतेऽष्टाविंशतेर्नक्षत्राणां चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितं, सम्प्रति पूनः सकलमेव जम्बूद्वीपमधिकृत्य नक्षत्राणि चिन्त्यमानानि वर्तन्ते, तानि च सर्वसङ्खयया षट्पञ्चाशत्, ततस्तेषां सर्वेषामपि चन्द्रसूर्याभ्यां सह योगमधिकृत्य मुहूर्तपरिमाणं चिचिन्तयिषुरिदमाह - 'ता एएसि न मित्यादि, एतच्च प्रागुक्तद्वितीयप्राभृतप्राभृतवत्परिभावनीयम् । तदेवं कालमधिकृत्य चन्द्रमसा सूर्येण सह योगपरिमाणं चिन्तितं, सम्प्रति क्षेत्रमधिकृत्य तच्चिचिन्तयिषुः प्रथमतः सीमाविष्कम्भविषयं प्रश्नसूत्रमाह मू. (८८) ता कहं ते सीमाविक्खंभे आहितेते वदेज्जा ?, ता एतेसि णं छप्पन्नाए नक्खत्ताणं अत्थि नक्खत्ता जेसि णं छसया तीसा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो, अत्थि नक्खत्ता जेसि णं सहससं पंचोत्तरं सत्तसट्ठिभागतीसतिभागाणं सीमाविक्खंभो, अत्थि नक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तद्विभागतीसतिभागाणं सीमाविक्खंभो, अत्थि नक्खत्ता जेसिणं तिसहस्सं पंचदसुत्तरं सत्तसट्ठिभागतीसतीभागाणं सीमाविक्खंभो, ता एतेसि णं छप्पन्नाए नक्खत्ताणं कतरे नक्खत्ता जेसि णं छसया तीसा तं चैव उच्चारेतव्वं । ता एएसि णं छप्पन्नाए नक्खत्ताणं कयरे नक्खत्ता जेसि णं तिसहस्सं पंचदसुत्तरं सत्तसट्ठिभागतीसइभागाणं सीमाविक्खंभो ?, ता एतेसि णं छप्पन्नाए नक्खत्ता णं तत्थ जे ते नक्खत्ता जेसि णं छ सता तीसा सत्तट्ठिभागतीसतिभागेणं सीमाविक्खंभो ते णं दो अभीयी, तत्थ जे ते नक्खत्ता जेसि णंसहस्सं पंचुत्तरं सत्तसट्टिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तंजहा- दो सतभिसया जाव दो जेट्ठा, तत्थ जे ते नक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं तीसं, तं०--दो सवणा जाव दो पुव्वासाढा, तत्थ जे ते नक्खत्ता जेसि णं तिन्नि सहस्सा पन्नरसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तं० - दो उत्तरा पोट्ठवता जाव उत्तरासाढा वा । वृ. 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण कियत्या विभागसङ्ख्यया इत्यर्थः, भगवन्! त्वया सीमाविष्कम्भ आख्यात इति वदेत्, भगवानाह - 'ता एएसि ण' मित्यादि, इहाष्टाविंशत्या नक्षत्रैः स्वगत्या स्वस्वकालपरिमाणेन क्रमशो यावत् क्षेत्र बुद्धया व्याप्यमानं सम्भाव्यते तावदेकमर्द्धमण्डलमुपकल्प्यते, एतावठप्रमाणमेव द्वितीयमर्धमण्डलमित्येवंप्रमाणं बुद्धिपरिकल्पितमेकं परिपूर्णमण्डलं । तस्य मण्डलस्य 'मण्डलं सयसहस्सेण अट्ठानउए सएहिं छित्ता इच्चेस नक्खत्ते खेत्तपरिभागे नक्खत्तविजए पाहुडे आहियत्तिबेमि' इति वक्ष्यमाणवचनात् अष्टानवतिशताधिकशतसहस्रविभा- गैर्विभज्यते, किमेवंसङ्ख्यानां भागानां कल्पने निबन्धनमिति चेत्, उच्यते, इह त्रिविधानि नक्षत्राणि, तद्यथा-समक्षेत्राणि अर्द्धक्षेत्राणि द्वयर्द्धक्षेत्राणि च तत्र यावत्प्रमाणं क्षेत्रमहोरात्रेण गम्यते नक्षत्रैस्ता - वत्क्षेत्रप्रमाणं चन्द्रेण सह योगं यानि गच्छंति तानि समक्षेत्राणि, तानि च पञ्चदश, तद्यथा - श्रवणो धनिष्ठा पूर्वभद्रपदा रेवती अश्विनी कृत्तिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy