SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ · सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२ / ८८ तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां प्रत्येकं पञ्चोत्तरं सहस्रं सप्तषष्टित्रिंशद्भागानं सीमाविष्कम्भः तानि द्वादश, तद्यथा - द्वे शतभिषजी 'जाव दो जेट्ठाउ' त्ति यावच्छब्दकरणादेवं द्रष्टव्यं - 'दो भरणीओ दो अद्दाओ दो अस्सेसाओ दो साईओ दो जेट्ठाओ' इति । तथाहि - एतेषां द्वादशानामपि नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतसयाहोरात्रगम्यस्य क्षेत्रस्य सत्काः सार्द्धास्त्रयस्त्रिंशभागाश्चन्द्रयोगे योग्यास्ततस्त्रयस्त्रशत् त्रिंशता गुण्यते जातानि नव शताति नवत्यधिकानि, अर्द्धस्यापि च त्रिंशता गुणयित्वा द्वाभ्यां भागे हते लब्धाः पञ्चदस, सर्वसङ्ख्यया जातं पञ्चोत्तरं सहस्रं, तथा तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां द्वे सहस्रे दशोत्तरे सप्तषष्टिभागत्रिंशद्भागानां सीमाविष्कम्भस्तानि त्रिंशत्, तद्यथा - द्वौ श्रवणौ 'जाव दो पुव्वासाढा' इति यावच्छब्दादेवं पाठो द्रष्टव्यः - 'दो धणिठ्ठा दो पुव्वभद्दवया दो रेवई दो अस्सिणी दो कत्तिया दो मिगसिरा दो पुस्सा दो मघा दो पुव्वफग्गुणीओ दो हत्था दो चित्ता दो अणुराहा दो मूला दो पुव्वासाढा' इति । तथाहि - एतानि नक्षत्राणि समक्षेत्राणि, तत एतेषां सप्तषष्टिखण्डीकृस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काः परिपूर्णा सप्तषष्ट्रभागाः प्रत्येकं चन्द्रयोगयोग्याः, तेन सप्तषष्टिस्त्रिंशता गुण्यते, जाते द्वे सहस्रे दशोत्तरे इति, तथा तत्र - तेषा षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां प्रत्येकं त्रीणि सहस्राणि पञ्चदशोत्तराणि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भस्तानि द्वादश, तद्यथा - द्वे उत्तरे प्रोष्ठपदे 'जाव दो उत्तरासाढा' इति यावच्छब्दकरणादेवं द्रष्टव्यं 'दो रोहिणी दो पुनव्वसू दो उत्तरफग्गुणी दो विसाहा दो उत्तरासाढा' इति, एतानि हि नक्षत्राणि द्व्यर्द्धक्षेत्राणि ततः सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काश्चन्द्रयोगयोग्या भागाः शतमेकमर्द्धं च प्रतेयमवगन्तव्याः, तत्र शतं त्रिंशता गुण्यते, जातानि त्रीणि सहस्राणि, अर्द्धमपि त्रिंशता गुणयित्वा द्वाभ्यां विभज्यते लब्धाः पञ्चदशेति । १९० मू. (८९) एतेसि णं छप्पन्नाए नक्खत्ताणं किं सता पादो चंदेण सद्धिं जोयं जोएंति, ता एतेसि णं छप्पन्ना नक्खत्ताणं किं सया सायं चंदेण सद्धिं जोयं जोएंति ?, एतेसि णं छप्पन्नाए नक्खत्ताणं किं सया दुहा पविसिय २ चंदेण सद्धिं जोयं जोएंति ?, ता एएसि णं छप्पन्नाए नक्खत्ताणं न किंपि तं जं सया पादो चंदेण सद्धिं जोयं जोएंति, नो सया सागं चंदेण सद्धिं जोयं जोएंति, नो सया दुहओ पविसित्ता २ चंदेण सद्धिं जोयं जोएंति, नन्नत्थ दोहिं अभीयीहिं, ता एतेणं दो अभीयी पायंचिय २ चोत्तालीसं २ अमावासं जोएंति, नो चेव णं पुण्णिमासिणिं । वृ. 'ता एएसि ण' मित्यादि, ता इति तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये किं नक्षत्रं यत् सदा प्रातरेव चन्द्रेण सार्द्ध योगं युनक्ति ?, किं नक्षत्रं यत्सदा सायं-दिवसावसानसमये चन्द्रेण सार्द्ध योगं युनक्ति, किं तन्नक्षत्रं यत्सदा द्विधा - प्रातः सायं च समये प्रविश्य २ चन्द्रेण सार्द्ध योगं युनक्ति ?, भगवानाह - 'ता एएसि ण 'मित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये न किमपि तन्नक्षत्रमस्ति यत्सदा प्रातरेव चन्द्रेण सार्द्धयोगं युनक्ति, किं सर्वथा नेत्याह- 'नन्नत्थे'त्यादि, ति प्रतिषेधो ऽन्यत्र द्वाभ्यामभिजिद्भ्यामवसेयः, कस्मादित्याह - 'ता एएसि ण' मित्यादि ता इति तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये एते - अनन्तरोदिते द्वे अभिजितौ- अभिजिन्नक्षत्रे युगे युगे प्रातरेव प्रातरेव चतुश्चत्वारिंशत्तमाममावास्यां चन्द्रेण सह योगमुपगम्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy