________________
१८३
प्राभृतं १०, प्राभृतप्राभृतं-२० चन्द्रादिभिरित्यर्थः, पूर्वगणितैः-प्राक्प्रतिसङ्ख्यातस्वरूपैःप्रतिमीयमाने-प्रतिगण्यमानेमासैःसूर्यादिमासैः, शेषं सुगमम्। ॥१॥ "आइच्चेण उ सही मासा उउणो उ होंति एगट्ठी।
चंदेण उ वावट्ठी सत्तठ्ठी होति नक्खत्ते॥ ॥२॥ सत्तावण्णं मासा सत्त य राइंदियाइं अभिवड्ढे ।
इक्कारस यमुहुत्ता बिसट्ठिभागा य तेवीसं ॥
-सम्प्रति लक्षणसंवत्सरमाहमू. (७९) ता लक्खणसंवच्छरे पंचविहे पं०-नक्खत्ति चंदे उडु, आइच्चे अभिवुहिए। ता नक्खत्ते णं संवच्छरेणं पंचविहे पं०
वृ. 'लक्खणेसंवच्छरे त्यादि, लक्षणसंवत्सरः पञ्चविधः-पञ्चप्रकारः प्रज्ञप्तः, तच्च पञ्चविधत्वं प्रागुक्तमेव द्रष्टव्यं, तद्यथा-नक्षत्रसंवत्सरःचन्द्रसंवत्सरः ऋतुसंवत्सरः आदित्यसंवत्सरोऽभिवर्द्धितश्च, किमुक्तं भवति? -न केवलमेते नक्षत्रादिसंवत्सरा यथोक्तरात्रिन्दिवपरिमाणा भवन्ति किन्तु तेभ्यः पृथग्भूता अन्येऽपि वक्ष्यमाणलक्षणोपेताः, ततो लक्षणोपपन्नः संवत्सरः पृथक् पञ्चविधो भवतीति, तत्र प्रथमतो नक्षत्रसंवत्सरलक्षणमाह-'ता नक्खत्ते'त्यादि, 'ता' इति तत्र नक्षत्रसंवत्सरो लक्षणमधिकृत्य पञ्चविधः प्रज्ञप्तः, किमुक्तं भवति? -नक्षत्रसंवत्सरस्य पञ्चविधं लक्षणं प्रज्ञप्तमिति, तदेवाहमू. (८०) समगं नक्खत्ता जोयं जोएंति, समगं उदू परिणमंति।.
नच्चुण्हं नाइसीए बहुउदए होइ नक्खत्ते ॥ वृ. “समगं नक्खत्ता जोगंजोएंति समगंऊउ परिणमंति। नच्चुण्ह नातिसीतो बहुउदओ होउ नक्खत्तो॥यस्मिन् संवत्सरे समकं-समकमेव एककालमेव ऋतुभिसहेति गम्यतेनक्षत्राणिउत्तराषाढाप्रभृतीनि योगंयुञ्जन्ति-चन्द्रेण सह योगंयुञ्जन्ति सन्ति तांपौर्णमासी परिसमापयन्ति, तथा समकमेव-एककालमेवतया तया परिसमाप्यमानया पौर्णमास्या सहऋतवो निदाघधाद्याः परिणमन्ति-परिसमाप्तिमुपयन्ति, इयमत्र भावना-यस्मिन्संवत्सरे नक्षत्रैर्माससवेशनामकैस्तस्य तस्य ऋतोः पर्यन्तवर्ती मासः परिसमाप्यते, तेषु च तां तां पौर्णमासी परिसमापयत्सु तया तया पौर्णमास्या सह ऋतवोऽपि निदाघादिकाः परिसमाप्तिमुपयन्ति, यथा उत्तराषाढानक्षत्रंआषाढी पौर्णमासी परिसमापयति, तया आषाढपौर्णमास्या सह निदाघोऽपि ऋतुः परिसमाप्तिमुपैति, स नक्षत्रसंवत्सरः, नक्षत्रानुरोधेन तस्य तथा तथा परिणममानत्वात्, एतेन च लक्षणद्वयमभिहितं द्रष्टव्यं, तथा न विद्यतेऽतिशयेन उष्णं-उष्णरूपः परितापो यस्मिन्स नात्युष्णः तथा न विद्यतेऽतिशयेन शीतं यत्र स नातिशीतो बहु उदकं यत्र स बहूदकः एवंरूपैः पश्चिभि समग्रैर्लण्णैरुपेतो भवति नक्षत्रसंवत्सरः। मू. (८१) ससि समग पुनिमासिं जोइंता विसमचारिनक्खत्ता।
कडुओ बहुउदवओ य तमाहु संवच्छरं चंदं ।।
सम्प्रति चन्द्रसंवत्सरलक्षणमाह“ससिसमगपुण्णमासिंजोएंता विसमचारिनक्खत्ता कडुओबहुउदओया तमाहु संवच्छरचंदं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org