________________
१८२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७८ मासा एकषष्टि, त्रिंशद्दिनमानत्वाद्तस्य त्रिंशदधिकायाअष्टादशशत्यास्त्रिंशता भागेएकषष्टेाभात् चन्द्रमासा द्विषष्टिर्यत एकोनविंशत्या अहोरात्रैरेकोनत्रिंशता द्विषष्टिभागैरधिकैर्मासः, युगदिनानां तैर्भागे च द्वाषष्टे भात्, कथं ? त्रिंशदधिकाया अष्टादशशत्या द्विषटिभागकरणार्थं गुणकारे एकंलक्षं त्रयोदश सहस्राणिषष्ट्यधिकमेकंशतं ,चन्द्रमासस्यापिभाकरणायद्विषष्ट्याएकोनविंशति गुणितेप्रक्षिप्तेचद्वात्रिंशतित्रिंशदधिकाया अष्टादशशत्याभावः तयाभक्तेपूर्वोक्तराशौद्वाषर्भावात् चन्द्रमासा द्वाषष्टिरिति । नक्षत्रमासाः सप्त,टि, कथमिति चेत्, नक्षत्र-मासस्तावत् सप्तविंशत्या अहोरात्रैरेकविंशत्या च सप्तषष्टिभागैः)।
तत्र सप्तविंशतिरहोरात्राः सप्तषष्टिभागकरणार्थसप्तषष्ट्यागुण्यन्ते,जातान्यष्टादशशतानि नवोत्तराणि , तत उपरितना एकविंशति सप्तप्टिभागास्तत्र प्रक्षिप्यन्ते, जातान्यष्टादश शतानि त्रिंशदधिकानि, युगस्यापि सम्बन्धिनस्त्रशदधिकाष्टादशशतप्रमाणा अहोरात्राः सप्तषष्ट्या गुण्यन्ते, जातएको लक्षःद्वाविंशतिसहस्राणिषट् शतानिदशोत्तराणि, एतेषामष्टादशशतैस्त्रशदधिकैनक्षत्र माससत्कसप्तषष्टिभागरूपैर्भागो ह्रियते, लब्धाः सप्तषष्टिर्भागाः।।
तथा यदियुगमभिवर्द्धितमासैः परिभज्यतेतदाअभिवर्द्धितमासा युगेभवन्तिसप्तपञ्चाशत् सप्त रात्रिन्दिवानिएकादश मुहूर्ता एकस्यचमुहूर्तस्य द्वाषष्टिभागास्त्रयोविंशति, तथाहि-अभिवर्द्धितमासपरिमाणमेकत्रिंशदहोरात्रा एकविंशत्युत्तरंशतं चतुर्विंशत्यधिकतभागानामहोरात्रस्य, तत एकत्रिंशदहोरात्राश्चतुर्विंशत्त्तरशतभागकरणार्थं चतुर्विंशत्युत्तरेणशतेन गुण्यन्ते, जातान्ययात्रिंशच्छतानिचतुश्चत्वारिंशदधिकानि,तत उपरितनमेकविंशत्युत्तरं शतंभागानांतत्रप्रक्षिप्यते, जातान्येकोनचत्वारिंशच्छतानि पञ्चषष्ट्यधिकानि, यानि च युगेअहोरात्रा- णामष्टादश शतानि त्रिंशदधिकानि तानि चतुर्विंशत्युत्तरेण शतेन गुण्यन्ते, जाते द्वे लक्षे षड्विंशति सहस्राणि नव शतानि विंशत्यधिकानि, तत एतेषामेकोनचत्वारिंशच्छतैः पञ्चषष्ट्यधिकैरभिवर्द्धितमाससत्कच तुर्विंशत्युत्तरशतभागरूपैर्भागो ह्रियते, लब्धाः सप्तपञ्चा-शन्मासाः, शेषाणि तिष्ठन्ति नवशतानि पञ्चदशोत्तराणि , तेषामहोरात्रानयनाय चतुर्विंशत्यधि-केन शतेन भागो ह्रियते, लब्धानि सप्त रात्रिन्दिवानि, शेषास्तिष्ठन्ति चतुर्विंशत्युत्तरशतभागाः सप्तचत्वारिंशत्, तत्र चतुर्भिागैरेकस्य च भागस्य चतुर्भिस्त्रिंशद्भागैर्मुहूर्तो भवति, तथाहि
___ एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्ता अहोरात्रे च चतुर्विंशत्युत्तरं शतं भागानां कल्पितमास्ते, ततस्तस्यचतुर्विंशत्युत्तरशतस्य त्रिंशता भागेहतेलब्धाश्चत्वारोभागाः एकस्यचभागस्य सत्काश्चत्वारस्त्रिंशदभागास्तत्र पञ्चचत्वारिंशद्भागैरेकस्यच भागस्य सत्कैश्चतुर्दशभिस्त्रिंशद्भागैरेकादश मुहूर्ता लब्धाः, शेषस्तिष्ठत्येको भाग एकस्य च भागस्य सत्काः षोडश त्रिंशद्भागाः, किमुक्तं भवति?-षट्चत्वारिंशत्रिंशद्भागा एकस्य भागस्य सत्काः शेषास्तिष्ठन्ति, तेच किल मुहूर्तस्य चतुर्विंशत्युत्तरशतभागरूपास्ततः षट्चत्वारिंशतश्चतुर्विंशत्युत्तरशतस्यचद्विकेनापवर्तना क्रियते, लब्धा मुहूर्तस्य द्वाषष्टिभागास्त्रयोविंशति, उक्तं चैतदन्यत्रापि॥१॥ “तत्थ पडिमिज्जमाणे पंचहिं माणेहिं सव्वगणिएहिं ।
मासेहिं विभज्जंता जइ मासा होति ते वोच्छं।" अत्र 'तत्थे तितत्र, पंचहिमाणेहि'त्तिपंचभिर्मानः-मानसंवत्सरैः-प्रमाणसंवत्सरैरादित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org