________________
१८१
प्राभृतं १०, प्राभृतप्राभृतं - २० ते द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यन्ते, जातानि त्रीणि शतानि द्विसप्तत्यधिकानि, येऽपि द्वादशद्वाषष्टिभागा उपरितनास्तेऽपितत्र प्रक्षिप्यन्तेजातानित्रीणिशतानिचतुरशीत्यधिकानि, तेषां द्वादशभिर्भागे हते लब्धा द्वात्रिंशत् द्वाषष्टिभागाः, एतावच्चन्द्रमासपरिमाणं।
तथा नक्षत्रसंवत्सरस्य परिमाणं त्रीणि शतानि सप्तविंशत्यधिकानि रात्रिन्दिवानामेकस्य चरात्रिन्दिवस्य एकपञ्चाशत्सप्तषष्टिभागाः, तत्रत्रयाणांशतानांसप्तविंशत्यधिकानां द्वादशभिभागो ह्रियते, लब्धाः सप्तविंशतिरहोरात्राः, शेषास्त्रयस्तिष्ठन्ति, ततस्तेऽपि सप्तषष्टिभागकरणार्थसप्तषष्ट्या गुण्यन्ते, जाते द्वेशते एकोत्तरे, येऽपिच उपरितनाएकपञ्चाशत्सप्तषष्टिभागास्तेऽपितत्रप्रक्षिप्यन्ते, जाते द्वे शते द्विपञ्चाशदधिके, तेषां द्वादशभिर्भागे हृते लब्धा एकविंशति सप्तषष्टिभागाः, एतवन्नक्षत्रमासपरिमाणं, तथा अभिवर्द्धितसंवत्सरस्य परिमाणं त्रीणि रात्रिन्दिव- शतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच द्वाषष्टिभागा रात्रिन्दिवस्य, तत्रत्रयाणांशतानांत्र्यशी-त्यधिकानां द्वादशभिर्भागो ह्रियते, लब्धा एकत्रिंशदहोरात्राः सेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च चतुर्विंशत्युत्तरशतभागकरणार्थं चतुर्विंशत्युत्तरशतेन गुण्यन्ते, जातानि त्रयोदश शतानि चतुःषष्ट्यधिकानि , येऽपि चोपरितनाश्चतुश्चत्वारिंशद् द्वाषष्टिभागास्तेऽपि चतुर्विंशत्युत्तरशतभागकरणार्थं द्वाभ्यां गुण्यन्ते, जाताऽष्टाशीति, साऽनन्तरराशौ प्रक्षिप्यते, जातानिचतुर्दश शतानि द्विपञ्चाशदधिकानि, तेषां द्वादशभिर्भागो ह्रियते, लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागानां, एतावदभिवर्द्धितमासपरिमाणं, तथा चोक्तम्॥१॥ “आइचो खलु मासो तीसं अद्धं च सावणो तीसं।
चंदो एगुणतीसं बिसठ्ठिभागा य बत्तीसं ।। ॥२॥ नक्खत्तो खलु मासो सत्तावीसं भवे अहोरत्ता।
__ अंसा य एकवीसा सत्तट्ठिकएण छेएण॥ ॥३॥ अभिवड्डिओ य मासो एक्कतीसं भवे अहोरत्ता।
____ भागसयमेगवीसं चउवीससएण छेएणं ।। सम्प्रति एतैरेव पञ्चभिः संवत्सरैः प्रागुक्तस्वरूपं युगं-पञ्चसंवत्सरात्मकंमासानधिकृत्य प्रमीयते, तत्र युगं-प्रागुदितस्वरूपं यदि सूर्यमासैर्विभज्यते ततःषष्टिसूर्यमासे सास्त्रिंशदहोरात्रा युगे चाहोरात्राणामष्टादशशतानि त्रिंशदधिकानि भवन्ति, कथमेतदवसीयते इति चेत्, उच्यते, इह युगे त्रयश्चन्द्रसंवत्सरा द्वौ चाभिवर्द्धितसंवत्सरौ, एकैकस्मिंश्च चन्द्रसंवत्सरेऽहोरात्राणां त्रीणि शतानि चतुष्पञ्चाशदधिकानि भवन्ति, द्वादशचद्वाषष्टिभागाअहोरात्रस्य, तत एतत्रिभिर्गुण्यते, जातान्यहोरात्राणां त्रीणि शतानि त्र्यशीत्यधिकानि चतुश्चवारिंशच्च द्वाषष्टिभागा अहोरात्रस्य । (तत एतद्वाभ्यांगुण्यतेजातानि सप्तषष्ट्यधिकानि सप्त शतान्यहोरात्राणांषड्विंशतिश्च द्विषष्टिभागा अहोरात्रस्य, तदेवं चन्द्रसंवत्सरत्र्याभिवर्द्धितसंवत्सरद्वयाहोरात्रमीलने त्रिंशदधिकान्यहोरात्राणामटादशशतानि, सूर्यमासस्य च पूर्वोक्तरीत्या सार्द्धत्रिंशदहोरात्रमानतेति तेन भागे कृते स्पष्टमेव षष्टेलाभः, तथाहि-अष्टादशशत्यास्त्रिंशदधिकाया अर्धीकरणाय द्वाभ्यां गुणने षष्ट्यधिका षट्त्रिंशच्छती त्रिंशतश्चार्धीकरणाय द्वाभ्यां गुणने षष्टि एकप्रक्षेपे एकषष्टिस्तेन पूर्वोक्तराशेः भागे कृते लभ्यते षष्टि, तथा च युगमध्ये सूर्यमासाः षष्टिरिति स्थितं । सावनस्य तु
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org