________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७
रोहिणी ४६ सप्तचत्वारिंशत्तमस्य सोमः - सोमदेवोपलक्षितं मृगशिरः ४७ अदितिद्विकमिति अष्टचत्वारिंशत्तमस्यादिति- अदितिदेवोपलक्षितं पुनर्वसुनक्षत्रं ४८ एकोनपञ्चाशत्तमस्यापि पुनर्वसुनक्षत्रं ४९ पञ्चाशत्तमस्य पुष्यः ५० ।
एकपञ्चाशत्तमस्य पिता- पितृदेवा मघाः ५१ द्वापञ्चाशत्तमस्य भगो-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः ५२ त्रिपञ्चाशत्तमस्यार्यमा - अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः ५३ चतुःपञ्चाशतमस्य हस्त ५४ अत ऊरर्ध्वं चित्रादीनि अभिजित्पर्यन्तानि ज्येष्ठावर्जान्यष्टौ नक्षत्राणि क्रमेण वक्तव्यानि, तद्यथा-पञ्चपञ्चाशत्तमस्य चित्रा ५५ षट्पञ्चाशत्तमस्य स्वाति ५६ सप्तपञ्चाशत्तमस्य विशाखा ५७ अष्टपञ्चाशत्तमस्य अनुराधा ५८ एकोनषष्टितमस्य मूलः ५९, षष्टितमस्य पूर्वाषाढाः ६० एक, षष्टितमस्योत्तराषाढा : ६१ द्वाषष्टितमस्याभिजिदिति ६२, एतानि नक्षत्राणि युगस्य पूर्वार्द्ध द्वाषष्टिसङ्घयेषु पर्वसु यथाक्रमं युक्तानि ।
१७८
एवं करणवशेन युगस्योत्तरार्द्धेऽपि द्वाषष्टिसङ्घयेषु पर्वसु ज्ञातव्यानि । किं पर्व चरमदिवसे कियत्सु मुहूर्त्तेषु गतेष समाप्तिमियर्त्तीत्येतद्विषयं यत्करणमभिहितं पूर्वाचार्यैस्तदभिधीयते'चउहिं हियम्मि पव्वे एक्क सेसंमि होइ कलिओगो । बेसु य दावरजुम्मो तिसु तेया चउसु कडजुम्मो ॥ कलिओगे तेनउई पक्खेवो दावरम्मि बावट्ठी ।
119 11
॥२॥
ऊए एक्कतीसा कडजुम्मे नत्थि पक्खेवो ॥ सेसद्धे तीसगुणे बावट्टी भाइयंमि जं लद्धं. जाणे तइसु मुहत्तेसु अहोरत्तस्स तं पव्वं ॥
॥३॥
एतासां क्रमेण व्याख्या-पर्वणि-पर्वराशौ चतुभिर्भक्ते सति यद्येकः शेषो भवति तदा स राशि कल्योजो भण्यते द्वयोः शेषयोर्द्वापरयुग्मस्त्रषु शेषेषु त्रेतौजश्चतुर्षु शेषेषु कृतयुग्मः, 'कलिओये' त्यादि, तत्र कल्योजोरूपराशौ त्रिनवति प्रक्षेपः- प्रक्षेपणीयो राशि, द्वापरयुग्ये द्वाषष्टि त्रेतौजसि एकत्रिंशत् कृतयुग्मे नास्ति प्रक्षेपः, एवं प्क्षिप्तप्रक्षेपाण पर्वराशीनां सतां चतुर्विंशत्यधिकेन पर्वशतेन भागो ह्रियते, हृते च भागे यच्छेषमवतिष्ठते तस्यायं विधि- 'सेसद्धे' इत्यादि, शेषश्चतुर्विंशत्यधिकेन शतेन भागे हृते अवशिष्टस्यार्द्ध क्रियते, कृत्वा च त्रिंशता गुण्यते, गुणयित्वा च द्वाषष्ट्या भज्यते, भक्ते सति यल्लब्धं तान् मुहूर्त्तान् जानीहि, लब्धशेषं मुहूर्त्तभागान्, तत एवं स्वशिष्येभ्यः प्ररूपय, तद्विवक्षितं पर्व चरमे अहोरात्रे सूर्योदयात्तावत्सु मुहूर्त्तेषु तावत्सु च मुहूर्त्तभागेषु अतिक्रान्तेषु परिसमाप्तमिति, एष करणगाथाक्षरार्थः ।
भावना त्वियम्-प्रथमं पर्वचरमेऽहोरात्रे कति मुहूर्त्तानतिक्रम्य समाप्तमिति जिज्ञासायामेको ध्रियते, अयं किल कल्योजो राशिरित्यत्र त्रिनवति प्रक्षिप्यते, जाता चतुर्नवति, अस्य चतुर्विंशत्यधिकेन शतेन भागो हर्त्तव्यः, सच भागो न लभ्यते राशेः स्तोकत्वात्, ततो यथासम्भवं करणलक्षणं कर्त्तव्यं, तत्र चतुर्नवतेरर्द्ध क्रियते, जाता सप्तचत्वारिंशत्, सा त्रिंशता गुण्यते, जातानि चतुर्दश शतानि दशोत्तराणि तेषां द्वाषष्ट्या भागो हियते, लब्धा द्वाविंशतिर्मुहूर्त्ता, शेषा तिष्ठति षटचत्वारिंशत्, ततश्छेद्यच्छेदकराश्योरर्द्धनापवर्त्तना, लब्धास्त्रयोविंश-तिरेकत्रिंशभागाः आगतं प्रथमं पर्व चरमे अहोरात्रे द्वाविंशतिं मुहूर्त्तान् एकस्य च मुहूर्त्तस्य त्रयोविंशतिमेकत्रिंशद्भागानतिक्रम्य
9
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org