SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं-२० १७९ समाप्तिं गतमिति। द्वितीयपर्वजिज्ञासायां द्विको ध्रियते, स किल द्वापरयुग्मराशिरिति द्वाषष्टि पुरक्षिप्यत, जाता चतुःषष्टि, सा च चतुर्विंशत्यधिकस्यशतस्यभागंन प्रयच्छति ततस्तस्याई क्रियते, जाता द्वात्रिंशत्, सात्रिंशता गुण्यते, जातानि नव शतानि षष्ट्यधिकानि, तेषां द्वाषष्ट्या भागो हियते, लब्धाः पञ्चदश मुहूर्ताः, पश्चादवतिष्ठते त्रिंशत्, ततश्छेद्यच्छेदकराश्योरर्द्धनापवर्तना, लब्धाः पञ्चदश एकत्रिंशद्भागाः, आगतं द्वितीयं प्वचरमेऽहोरात्रे पञ्चदश मुहूर्तानेकस्य च मुहूर्तस्य पञ्चदश एकत्रिंशद्भागानतिक्रम्य द्वितीयं पर्व समाप्तमिति । तृतीयपर्वजिज्ञासायां त्रिको ध्रियते, स किल त्रेतौजोराशिरिति तत्रैकत्रिंशत् प्रक्षिप्यते, जाता चतुस्त्रिंशत्, सा चतुर्विंशत्यधिकस्यशतस्य भागंनप्रयच्छति ततस्तस्यार्द्धं क्रियते, जाताः सप्तदश, ते त्रिंशता गुण्यन्ते, जातानि पञ्च शतानि देशोत्तराणि, तेषां द्वाषष्ट्या भागो ह्रियते, लब्धा अष्टौ, शेषास्तिष्ठन्ति चतुर्दश, ततश्छेद्यच्छेदकराश्योरद्धेनापवर्तना, लब्धाः सप्त एकत्रिंशद्भागाः, आगतं तृतीयं पर्व चरमेऽहोरात्रे अष्टौ मुहूर्त्तानेकस्य सप्त एकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति। चतुर्थपर्वजिज्ञासायां चतुष्कोध्रियते, सकिल कृतयुग्मराशिरितिनकिमपितत्रप्रक्षिप्यते, चत्वारश्चतुर्विंशत्यधिकस्य शतस्य भागंन प्रयच्छति, ततस्तेऽर्द्ध क्रियन्ते, जातौ द्वौ, तौ त्रिंशता गुण्येते, जाताषष्टि६०, तस्याद्वाषष्ट्या भागो ह्रियते,भागश्च न लभ्यते इतिछेद्यच्छेदकराश्योर नापवर्तना, जातास्त्रशदेकत्रिंशद्भागाः, आगतं चतुर्थं पर्व चरमेऽहोरात्रे मुहूर्तस्य त्रिंशतमेकत्रिंशद्भागानतिक्रम्य समाप्तिं गच्छतीत्येवं शेषेष्वपि पर्वसुभावनीयं । चतुर्विंशत्यधिकशततमपर्वजिज्ञासायांचतुर्विंशत्यधिकंशतंध्रियते, तस्य किल चतुर्भिर्भागे हतेन किमपि शेषमवतिष्ठते इति कृतयुग्मोऽयं राशि, ततोऽत्र नकिमपिप्रक्षिप्यते, ततश्चतुर्विंशत्यधिकेन शतेन भागो हियते, जातो राशिर्निर्लेपः, आगतंपरिपूर्णचरममहोरात्रं भुक्त्वा चतुर्विंशतितमं पर्वसमाप्तिं गतमिति। ___ तदेवंयथापूर्वाचार्यैरिदमेव पर्वसूत्रमवलम्ब्यपर्वविषयं व्याख्यानं कृतं तथा मया विनेयजनानुग्रहया स्वमत्यनुसारेणोपदर्शितं, सम्प्रति प्रस्तुतमनुश्रियते-तत्र युगसंवत्सररोऽभिहितः, साम्प्रतं प्रमाणसंवत्सरमाह मू. (७८) ता पमाणसंवच्छरे पंचविहे पं०, तं०-नक्खत्ते चंदे उडू आइच्चे अभिवड्डिए। वृ. 'पमाणे त्यादि, प्रमाणसंवत्सरः पञ्चविधःप्रज्ञप्तः, तद्यथा-नक्षत्रसंवत्सर ऋतुसंवत्सरश्चन्द्रसंवत्सरः आदित्यसंवत्सरोऽभिवर्द्धितसंवत्सरश्च, तत्र नक्षत्रचन्द्राभिवर्द्धितसंवत्सराणां स्वरूपं प्रागेवोक्तमिदानीं ऋतुसंवत्सरादित्यसंवत्सरयोः स्वरूपमुच्यते-तत्र द्वे घटिके एको मुहूर्तस्त्रिंशन्मुहूर्ता अहोरात्रः पञ्चदश परिपूर्णा अहोरात्राः पक्षः द्वौ पक्षौ मासो द्वादश मासाः संवत्सरो, यस्मिंश्च संवत्सरे त्रीणिशतानिषष्ट्यधिकानि परिपूर्णान्यहोरात्राणां भवति एष ऋतुसंवत्सरः, ऋतवो लोकप्रसिद्धाः वसन्तादयः तत्प्रधानः संवत्सर ऋतुसंवत्सरः, अस्य चापरमपि नामद्वयमस्ति, तद्यथा कर्मसंवत्सरः सवनसंवत्सरः, तत्र कर्म-लौकिको व्यवहास्तप्रधानः संवत्सरः कर्मसंवत्सरः, लोको हि प्रायः सर्वोऽप्यनेनैव संवत्सरेण व्यवहरति, तथा चैतद्गतं मासमJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy