________________
प्राभृतं १०, प्राभृतप्राभृत - २०
१७७
स्थिताः पश्चात् चत्वारो मुहूर्ताः, आगतंतृतीयं पर्व भाद्रपदामावास्यारूपमुत्तरफाल्गुनीनक्षत्रस्य चतुरोमुहूतनिकस्य च मुहूर्तस्य षड्विंशति द्वाषष्टिभागान्एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ भुक्त्वा सूर्य परिसमापयति, एवं शेषपर्वस्वपि सूर्यनक्षत्राणि वेदितव्यानि ।
तत्र युगपूर्वार्द्धभाविद्वाषष्टिपर्वगतसूर्यनक्षत्रसूचिका इमाः पूर्वाचार्योपदर्शिता गाथाः॥१॥ “सप्पभग अजमदुगं हत्थो चित्ता विसाह मित्तो य।
जेठ्ठाइगंच छक्कं अजाभिवुड्डीदु पूसासा॥ ॥२॥ छक्कं च कत्तियाई पिइभग अज्जमदुगंच चित्ता य ।
वाउ विसाहा अणुराह जेट्ट आउंच वीसदुगं॥ ॥३॥ सवण धनिट्ठा अजदेव अभिवुड्डी दुअस्स जमबहुला ।
रोहिणि सोमदिइदुगं पुस्सो पिइ भगजमा हत्थो। ॥४॥ चित्ता य जिट्ठवज्जा अभिईअंताणि अट्ठ रिक्खाणि ।
____एए जुगपुव्वद्धे बिसट्ठिपव्वेसु रिक्खाणि ।। एतासां व्याख्या-प्रथमस्य पर्वणः समाप्तौ सूर्यनक्षत्रंसप्पः-सप्पदवतोपलक्षिता अश्लेषा १,द्वितीयस्य भगो-भमदेवतोपलक्षिताः पूर्वफाल्गुन्यः२ ततोऽर्यमद्विकमिति तृतीयस्यपर्वणोऽर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः ३ चतुर्थस्याप्युत्तरफाल्गुन्यः ४ पञ्चमस्य हस्तः ५ षष्ठस्य चित्रा ६ सप्तमस्य विशाखा७ अष्टमस्य मित्रो-मित्रदेवतोपलक्षिता अनुराधा ८ ततो ज्येष्ठादिकं षट्कं क्रमेण वक्तव्यम्, तद्यथा-नवमस्यज्येष्ठा ९ दशमस्य मूलं १० एकादशस्य पूर्वाषाढा ११ द्वादशस्योत्तराषाढा १२ त्रयोदशस्य श्रवणः १३ चतुर्दशस्य धनिष्ठा १४ पञ्चदस्य अजःअजदेवतोपलक्षिताः पूर्वाभद्रपदाः १५ षोडशस्याभिवृद्धिः-अभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा १६ सप्तदशस्योत्तरभद्रपदा १७ अष्टादशस्य पुष्यः-पुष्यदेवतोपलक्षिता रेवती १८ एकानविंशतितमस्याश्वः-अश्वदेवतोपलक्षिता अश्विनी १९ षट्कं च कृत्तिकादिकमिति, विंशतितमस्य कृत्तिकाः २० एकविंशतितमस्य रोहिणी २१ द्वाविंशतितमस्य मृगशिरः २२ त्रयोविंशतितमस्याा २३ चतुर्विंशतितमस्य पुनर्वसुः २४ पञ्चविंशतितमस्य पुष्यः २५ षड्विंशतितमस्य पितरः-पितृदेवतोपलक्षिता मघाः २६ सप्तविंश-तितमस्य भगो-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः २७ अष्टाविंशतितमस्यार्यया-अर्यमदेवा उत्तरफाल्गुन्यः २८एकोनत्रिंशत्त मस्याप्यत्तरफाल्गुन्यः २९ त्रिंशत्तमस्य चित्रा ३० एकत्रिंशत्तमस्य वायु:-वायुदेवतोपलक्षिता स्वाति ३१ द्वात्रिंशत्तमस्य विशाखा ३२ त्रयस्त्रशत्तमस्यानुराधा ३३ चतुस्त्रिंशत्तमस्य ज्येष्ठा ३४।।
पञ्चत्रिंशत्तमस्य पुनरायुः-आयुर्देवतोपलक्षिताः पूर्वाषाढाः ३५ षट्त्रिंशत्तमस्य विष्वग् देवा उत्तराषाढा ३६ सप्तत्रिंशतमस्याप्युत्तराषाढा ३७ अष्टात्रिंशत्तमस्य श्रवणः ३८ एकोनचत्वारिंशत्तमस्य धनिष्ठा ३९ चत्वारिंशत्तमस्याजः-अजदेवतोपलक्षिता पूर्वभद्रपदा ४० एकचत्वारिंशत्तम- स्याभिवृद्धि:-अभिवृद्धिदेवा उत्तरभाद्रपदाः ४१ द्वाचत्वारिंशत्तमस्याप्युत्तरभाद्रपदा ४२ त्रिचत्वारिंश- त्तमस्याश्वः-अश्वदेवा अश्विनी ४३ चतुश्चत्वारिंशत्तमस्य यमो-यमदेवा भरणी ४४ पञ्चचत्वारिं- शत्तमस्य बहुलाः-कृत्तिकाः ४५ षट्चत्वारिंशत्तमस्य 12/12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org