________________
१७६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ शतानि चतुर्दशोत्तराणि, तत एतेषां सप्तषष्ट्या भागोह्रियते, लढ्यास्त्रचत्वारिंशत्द्वाषष्टिभागाःएकस्य च द्वाषष्टिभागसय त्रयस्त्रशत् सप्तषष्टिभागा इति।
'उगुयालसय'मित्यादि, एकोनचत्वारिंशं-एकोनचत्वारिंशदधिकं मुहूर्त्तशतमुत्ताफाल्गुनीनां-उत्तराफाल्गुनीपर्यन्तानां नक्षत्राणां शोध्यम्, द्वे शते एकोनषष्टे-एकोनषष्ट्यधिके विशाखासु-विशाखापर्यन्तेषुशोध्ये, चत्वारि मुहूर्तशतानि नवोत्तराणि उत्तराषाढानां-उत्तराषाढापर्यन्तानां नक्षत्राणांशोध्यानि, ‘सव्वत्थे'त्यादि, एतेषु सर्वेष्वपि शोधनेषु यत्पुष्यस्य मुहूर्तेभ्यः शेषं-त्रिचत्वारिंशन्मुहूर्तस्य द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागा ति तत्प्रत्येकं शोदनीयं, तथा अभिजितश्चत्वारि मुहूर्त्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि षट् द्वाषप्टिभागा मुहूर्तस्यैकस्य च द्वापष्टिभागस्य द्वात्रिंशचूर्णिकाभागाः-सप्तषष्टिभागा इति शोध्यम्, एतावता पुष्यादीन्यभिजिदन्तानिनक्षत्राणि शुद्धयन्तीतिभावार्थः । तथा 'उगुणत्तरे' त्यादि, एकोनसप्ततानि-एकोनसप्तत्यधिकानि पञ्च मुहूर्त्तशतानि उत्तर-भाद्रपदानां-उत्तरभाद्रपदान्तानां शोध्यानि, तथा सप्तशतान्येकोनविंशानि-एकोनविंशत्यधि-कानि रोहिणीपर्यन्तानां शोध्यानि, पुनर्वस्वन्ते-पुनर्वसुपर्यन्ते अष्टौ शतानि नवोत्तराणि शोध्यानि।
'अट्टसए'त्यादि, अष्टौ शतान्येकोनविंशानि-एकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस् षट्षष्टि सप्तषष्टिभागा इति पुष्यस्य शोधनकं, एतावता रिपूर्ण एको नक्षत्रपर्यायः शुद्धतीति तात्पर्यार्थः, एष करणगाथाक्षरार्थः ।
सम्प्रतिकरणभावना क्रियते-तत्र कोऽपि पृच्छति प्रथमं पर्व कस्मिन् सूर्यनक्षत्रे परिसमाप्तिमुपैति ?, तत्र ध्रुवराशिस्त्रयस्त्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य द्वौ द्विषष्टिभागावेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टिभागा इत्येवंरूपो ध्रियते धृत्वा चैकेन गुण्यते, एकेन गुणितं तदेव भवति, ततः पुष्यशोदनमेकोनविंशतिर्मुहूर्ताः एकस्य चमुहूर्तस्य त्रिचत्वारिंशद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागा इत्येवंप्रमाणं शोध्यते, तत स्थितास्त्रयोदश मुहूर्ताएकस्य च मुहूर्तस्य एकविंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः, तत आगतमेतावदश्लेषानक्षत्रस्य सूर्यो भूक्त्वा प्रथमं पर्व श्रावणमासभाव्यमावास्यालक्षणं परिसमापयतीति । द्वितीयपर्वतचिन्तायां स एव ध्रुवराशि द्वाभ्यां गुण्यते, जाता षट्षष्टिर्मुहूर्ताः एकस्य च मुहूर्तस्य पञ्च द्वाषप्टिभागाः एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः, एतस्माद् यथोदितप्रमाणं पुष्यशोधनकं शोध्यन्ते, स्थिताः पश्चात् षट्चत्वारिंशन्मुहूर्ताः त्रयोविंशतिषिष्टिभागाः मुहूर्तस्य एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः ततः पञ्चदशभिर्मुहूर्तरश्लेषाशुद्धा त्रिंशता मघा, स्थितः पश्चादेको मुहूर्त्तः तत आगतं द्वितीयंपर्वपूर्वफाल्गुनीनक्षत्रस्यैकं मुहूर्तमेकस्यच मुहूर्तस्य त्रयोविंशतिं द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशतंसप्तषष्टिभागन भुक्त्वा सूर्य परिसमाप्ति नयति।
___ तृतीय पर्वचिन्तायां स एव ध्रुवराशिः त्रिभिर्गुण्यते जाता नवनवतिर्मुहूर्ताः एकस्य च मुहूर्तस्य सप्त द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः, एतस्मात्पुष्यशोधनं शोध्यन्ते, स्थिताः पश्चादेकोनसप्ततिर्मुहूर्ताः एकस्य च मुहूर्तस्य षड्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्द्वौ सप्तषष्टिभागौ, ततः पञ्चदशभिर्मुहूर्तेरश्लेषा त्रिंशता मघात्रिंशता पूर्वफाल्गुनी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org