SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं-२० १७५ तेत्तीस चुण्णियाओ पूसस्स य सोहणं एवं ॥ ॥४॥ उगुयालसयं उत्तरफगुं उगुणट्ठ दो विसाहासु । चत्तारिनवोत्तर उत्तराण साढाण सोज्झाणि ॥ सव्वत्थ पुस्ससेसं सोझं अभिइस्स चउरउगवीसा। बावट्ठी छटभागा बत्तीसं चुणिया भागा ।। उगुणत्तरपंचसया उत्तरभद्दवय सत्त उगुवीसा । रोहिणि अट्ठनवोत्तर पुनव्वसंतम्मि सोज्झाणि ।। ॥७॥ अट्ठसया उगुवीसा विसट्ठिभागा य होंति चउवीसं । छावठ्ठी सत्तट्ठिभागा पुसस्स सोहणगं ।। एतेसां क्रमेण व्याख्या-त्रयस्त्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य द्वौ द्वाषष्टिभागावेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशञ्चूर्णिकाभागाः, एष सर्वेष्वपि पर्वसु पर्वीकृतःएकेन पर्वणा निष्पादित ऋक्षध्रुवराशि-सूर्यनक्षत्रविषयोध्रुवराशि, कथमेतस्योत्पत्तिरिति चेत्, उच्यते, त्रैराशिकात्, तच्चेदं त्रैराशिकं यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते, तत एकेन पर्वणा किं लभामहे ?, अत्रान्त्वेन राशिना मध्य- राशिगुण्यते, जातः स तावानेव, ‘एकेन गुणितं तदेव भवतीति वचनात्, ततः चतुर्विंशत्यधिकेन पर्वशतेन भागो ह्रियते, तत्रोपरितनराशेः स्तोकत्वाद् भागोन लभ्यते, लब्धा एकस्य सूर्यनक्षत्र-पर्यायस्य पञ्च चतुर्विंशत्यधिकशतभागाः, तत्र नक्षत्राणि कुर्म इत्यष्टादशभि शतैः त्रिंशदधिकैः सप्तषष्टिभागैः पञ्च गुणयिष्याम इति गुणकारच्छेदराश्योरर्द्धनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि , छेदराशिषिष्टि, तत्र नवभि शतैः पञ्चदशोत्तरैः पञ्च गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि, एतानि मुहूर्तानयनार्थं त्रिंशता गुण्यन्ते, जातमेकं लक्षं सप्तत्रिंशत्सहस्राणि द्वे शते पञ्चाशदधिके ,छेदराशिश्च द्वाषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, तैर्भागो ह्रियते लब्धास्त्रियस्त्रशन्मुहूर्ताः, शेषं तिष्ठत्यष्टषष्ट्यधिकंशतं, एतद् वाषष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यमिति गुणकारच्छेदराश्योषिष्ट्याऽपवर्तना, जातो गुणकारराशिरेकरूपश्छेदराशि सप्तषष्टिरूपः, एकेन च गुणितं तदेव भवति, ततोऽष्टषठ्यधिकमेव शतं जातं, तस्य सप्तषट्या भागो ह्रियते, लब्धौ द्वौ द्वाषष्टिभागौ, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागा इति। ___'इच्छापव्वे' त्यादि, इच्छाविषयं यत्पर्व-पर्वसङ्ख्ययानं इच्छापर्वतदगुणो–गुणकारो यस्य ध्रुवराशेस्तस्मात्, किमुक्तं भवति?-ईप्सितं यत्पर्व तत्सङ्ख्यया गुणितात् ध्रुवराशेः पुष्यादीनां नक्षत्राणां क्रमशः-क्रमेण सोधनं कुर्याद्यथा दिष्टं-यथा कथितमनन्तज्ञानिभि, कथं कथितमित्याह-'उगवीसं चे' त्यादि गाथा, एकोनविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्य त्रयस्त्रिंशचूर्णिकाभागाः एतद्-एतावप्रमाणं पुष्यशोधनकं, कथमेतावतः पुष्यशोधनकस्योत्पत्तिरिति चेत्, उच्यते, इह पाश्चात्ययुगपरिसमाप्तौ पुष्यस्य त्रयोविंशति सप्तषष्टिभागागताश्चतुश्चत्वारिंशदवतिष्ठन्ते, ततस्तेमुहूर्तानयनार्थं त्रिंशता गुण्यन्ते, जातानित्रयोदशशतानि विंशत्यधिकानि,तेषांसप्तषष्ट्या भागोह्रियते, लब्धाएकोनविंशतिर्मुहूर्ताः, शेषास्तिष्ठति सप्तचत्वारिंशत्, सा द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुण्यते, जातान्येकोनत्रिंशत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy