________________
१७२
119 11
'चउवीससयं काऊण पमाणं पज्जए य पंच फलं । इच्छापव्वेहिं गुणं काऊणं पज्जया लद्धा ॥ अठ्ठारस य सएहिं तीसेहिं सेसगंमि गुणियम्मि । सत्तावीससएस अट्ठावीसेसु पूसंमि ॥ सत्तट्ठबिसकीणं सव्वग्गेणं तओ उजं सेसं । तं रिक्खं सूरस्स उ जत्थ समत्तं हवइ पव्वं ॥
॥३॥
एतासं तिसृणां गाथानां क्रमेण व्याख्या- त्रैराशिकविधौ चतुर्विंशत्यधिकशतप्रमाणं प्रमाणराशिं कृत्वा पञ्च पर्यायान् फलं कुर्यात्, कृत्वा च ईप्सितैः पर्वभिर्गुणं-गुणकारं विदध्यात्, विधाय चाद्येन राशिना - चतुर्विंशत्यधिकशतरूपेण भागो हर्त्तव्यो, भागे हृते यल्लब्धं ते पर्यायाः शुद्धा ज्ञातव्याः, यत्पुनः शेषमवतिष्ठते तदष्टादशमि शतैः त्रिंशदधिकैर्गुण्यते, गुणिते च तस्मिन् सप्तविंशतिशतेषु अष्टाविंशत्यधिकेषु शुद्धेषु पुष्यः शुद्धयति, तस्मिन् शुद्धे सप्तषष्टिसङ्ख्या या द्वाषष्ट्यस्तासां सर्वाग्रेण यद्भवति, किमुक्तं भवति ? - सप्तषष्ट्या द्वाषष्टी गुणितायां यद् भवति तेन भागे हते यल्लब्धं तावन्ति नक्षत्राणि शुद्धानि द्रष्टव्यानि यत्पुनस्ततोऽपि - भागहरणादपि शेषमवतिष्ठते तद्दक्षं सूर्यस्य सम्बन्धि द्रष्टव्यं यत्र विवक्षितं पर्व समाप्तमिति, एष करणगाथात्रयाक्षरार्थः ।
भावना त्वियम् - यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एकेन पर्वणा किं लभामहे ? अत्रान्त्येन राशिना मध्यराशिर्गुण्ते, जातस्तावानेव पञ्चकरूपः, तस्याद्येन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, स च स्तोकत्वा द्भागं न प्रयच्छति, ततो नक्षत्रानयनार्थं अष्टादशभि शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुणकारच्छेदराश्योर्द्धेनापवर्त्तना, जातो गुणकारराशिर्नवशानि पञ्चदशोत्तराणि छेदराशिर्द्वाषष्टि, तत्र पञ्चनवभि शतैः पञ्चदशोत्तरैर्गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि, पुष्यस्य चतुश्चत्वारिंशद् भागा द्वाषष्ट्या गुण्यन्ते, जातानि सप्तविंशति शतानि अष्टाविंशत्यधिकानि, एतानि पूर्वराशेः शोध्यन्ते, स्थितानि पश्चादष्टादश शतानि सप्तचत्वारिंशदधिकानि । तत्र छेदराशिर्द्वाषष्टिरूपः सप्तषष्ट्या गुण्यते, जातानि एकचत्वारिंशत् शतानि चतुष्प - ञ्चाशदधिकानि, तैर्भागो ह्रियते, तत्र राशेः स्तोकत्वाद् भागो न लभ्यते, ततो दिवसा आनेतव्याः, तत्र च छेदराशिर्द्वाषष्टिरूपः, परिपूर्णनक्षत्रानयनार्थं हि द्वाषष्टि सप्तषष्ट्या गुणिताः, परिपूर्णं च नक्षत्रमिदानीं नायाति, ततो मूल एव द्वाषष्टिरूपश्छेदराशि, केवलं पञ्चभि सप्तषष्टि-भागैरहोरात्रो भवति, ततो दिवसानयनाय द्वाषष्टि पञ्चभिर्गुण्यते, जातानि त्रीणि शतानि दशोत्तराणि, तैर्भागो हियते, लब्धाः पञ्च दिवसाः, शेषं तिष्ठति द्वे शते सप्तनवत्यधिके, ते मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते ।
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७
॥ २ ॥
,
1
-तत्र गुकारच्छेदराश्योः शून्येनावपर्त्तना जातो गुणकारराशिस्त्रकरूपश्चेदराशिरेकत्रिंशत्, तत्र त्रिकेनोपरितनो राशिर्गुण्यते जातान्यष्टौ शतान्येकनवत्यधिकानि तेषामेकत्रिंशता भागो ह्रियते, लब्धा अष्टाविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य त्रयोविंशतिरेकत्रिंशदभागाः आगतं प्रथमं पर्व अश्लेषानक्षत्रस्य पञ्च दिवसानेकस्य च दिवसस्याष्टाविंशतिं मुहूर्त्तानेकस्य च मुहूर्तस्य त्रोयविंशतिमेकत्रिंशद्भागान् भूक्त्वा समाप्तं, अथवा पुष्ये शुद्धे यानि स्थितानि पश्चादष्टादश शतानि सप्तचत्वारिंशदधिकानि तानि सूर्यमुहूर्त्तानयनाय त्रिंशता गुण्यन्ते जातानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org