SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं - २० १७३ पञ्चपञ्चाशत्सहस्राणि चत्वारि शतानि दशोत्तराणि, तेषां प्रागुक्तेन छेदराशिना भागो ह्रियते, लब्धास्त्रयोदशमुहूर्ताः, शेषाणि तिष्ठन्ति चतुर्दशशतान्यष्टोत्तराणि, ततोऽमूनि द्वापष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यानीति गुणकारच्छेदराश्योषष्ट्याऽपवर्तना, तत्र गुणकारराशिरेककरूपश्छेदराशि सप्तषष्टिरूपस्तत्र एकेन गुणितो राशिस्तावानेव जातः, तस्य सप्तषष्ट्या भागो ह्रियते, लब्धा एकविंशतिः- द्वाषष्टिभागामुहूर्तस्य एकस्य च द्वापष्टिभागस्य एकः सप्तषष्टिभागः, तत आगतं युगस्यादौ प्रथमं पर्व अमावास्यालक्षण-मश्लेपानक्षत्रस्य त्रयोदश मुहूर्तानेकस्य च मुहूर्तस्य एकविंशतिं द्वाषष्टिभागानेकस्य चद्वाषष्टिभागस्य एकंसप्तषष्टिभागंभुक्त्वा सूर्य समापयति, तथा च वक्ष्यति-‘ता एएसिणंपंचण्हंसंवच्छराणं पढमं अमावासं चंदे केण नक्खत्तेणंजोएइ?, ता असिलेसाहि,असिलेसाणं एकमुहुत्ते चत्तालीसं वावट्ठिभागा मुहुत्तस्स वावट्ठिभागंच सत्तव्हिा छित्ता छावट्ठि चुण्णिआ सेसा । . तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ?, ता असिलेसाहिं चेव, असिलेसाणं एको मुहुत्तो चत्तालीसं वावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तहिहा छेत्ता छावट्ठी चुण्णिया सेसा' इति, तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्यावा लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशि पञ्चकरूपो गुण्यते, जाता दश, तेषामायेन राशिना भागहरणं, तेच स्तोकत्वाद्भागंन प्रय-च्छन्ति, ततोनक्षत्रानयनार्थमष्टादशभिः शतैस्त्रशदधिकैर्गुणयितव्या इति, गुणकारच्छेदराश्यो-ढेनापवर्त्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि छेदराशिौषष्टि, तत्र नवभिशतैः पञ्चदशोत्तरैः दश गुण्यन्ते, जातानि एकनवति शतानि पञ्चाशदुत्तराणि, तेभ्यः सप्तविंशति शतान्यष्टाविंशत्यधिकानि पुष्यसत्कानि शोध्यन्ते, स्थितानि पश्चाच्चतुःषष्टि शतानि द्वाविंशत्यधिकानि , छेदराशिषिष्टिरूपः सप्तषट्या गुण्यते, जातान्येकच-त्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, तैर्भागो ह्रियते, लब्धमेकं नक्षत्रं, तच्चाश्लेषा- रूपमश्लेषानक्षत्रं चार्द्धक्षेत्रं अत एतद्गताः पञ्चदश पञ्चदश सूर्यमुहूर्ता अधिका वेदितव्याः। शेषाणि तिष्ठन्ति द्वाविंशतिशतान्यषष्ट्यधिकानि, ततो मुहूर्तानयनार्थमेतानि त्रिंशता गुण्यन्ते, जातान्यटषष्टि सहस्राणि चत्वारिंशदधिकानि , तेपां छेदराशिना भागो ह्रियते, लब्धाः पोडशमुहूर्ताः, शेषाण्यवतिष्ठन्ते पञ्चदशशतानिषट्सप्तत्यधिकानि, तानि द्वापष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यानीतिगुणकारच्छेदराश्योषष्ट्या-ऽपवर्तना, जातो गुणकारराशिरेकरूपः छेदराशि सप्तषष्टि, तत्रोपरितनो राशिरेकेन गुणित-स्तावानेव जातः, तस्य सप्तषष्ट्या भागे हृते लब्धास्त्रयोविंशतिषष्टिभागाः २३ एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः, तत्र ये लब्धाः षोडश मुहूर्तायेचोद्धरिताः पाश्चात्याः पञ्चदश मुहूर्तास्ते एकत्र मील्यन्ते, जाता एकत्रिंशत्, तत्र त्रिंशता मघा शुद्धा, पश्चादुद्धरत्येकः सूर्यमुहूतः, तत आगतं द्वितीयं पर्व श्रावणमासभावि पौर्णमासीरूपंपूर्वफाल्गनीनक्षत्रस्यैकं मुहूर्तमेकस्यच मुहूर्तस्य त्रयोविंशतिं द्वापटिभागानेकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशतं सप्तषष्टि- भागान् भुक्त्वा सूर्य परिसमापयतीति, तथा च वक्ष्यति“ता एएसिणं पंचण्हं संवच्छराणं पढमं पुण्णमासिं चंदे केणं नक्खत्तेणं जोएइ?, ता धनिट्ठाहिं, धणिट्ठाणं तिन्नि मुहुत्ता एगूणवीसंच वावट्ठिभागा मुहुत्तस्स वावट्ठिभागंच सत्तहिहा छेत्ता पण्णट्ठी www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy