________________
१७१
प्राभृतं १०, प्राभृतप्राभृतं स्य आर्द्रा ६० एकषष्टितमस्य विष्वक्-विष्वग्देवा उत्तराषाढाः ६१ द्वाषष्टितमस्य पुष्यः ६२, एतदुपसंहारमाह- एतानि नक्षत्राणि युगस्य पूर्वार्द्ध यानि द्वाषष्टिसङ्ख्यानि पर्वाणि तेषु क्रमेण वेदितव्यानि, एवंप्रागुक्तकरणवशादुत्तरार्द्धपि द्वाषष्टिसङ्खयेषुपर्वस्ववगन्तव्यानि ।सम्प्रति कस्मिन् सूर्यमण्डले किं पर्व समाप्तिं यातीति चिन्तायां यत्पूर्वाचार्यैरुपदर्शितं करणं तदभिधीयते॥१॥ “सूरस्सवि नायव्वो समेण अयणेण मंडलविभागो।
अयणमि उजे दिवसा रूवहिए मंडले हवइ॥" अस्या व्याख्या-सूर्यस्यापि पर्वविषयो मण्डलविभागो ज्ञातव्यः स्वकीयेनायनेन, किमुक्तं भवति?-सूर्यस्य स्वकीयमयनमपेक्ष्य तस्मिन् तस्मिन् मण्डले तस्यनस्यपर्वणः परिसमाप्तिरवधारणीयेति, तत्र अयने शोधिते सति ये दिवसा उद्धरिता वर्तन्ते तत्सङ्खये रूपाधिके मण्डले तदीप्सितंपर्व परिसमाप्तं भवतीति वेदितव्यं, एषा करणगाथाऽक्षरघटना, भावार्थस्त्वयम्-इह यत्पर्व कस्मिन् मण्डले समाप्तमिति ज्ञातुमिष्यते तत्सङ्ख्या ध्रियते, धृत्वा च पञ्चदशभिर्गुण्यते, गुणयित्वा च रूपाधिका क्रियते, ततः सम्भवन्तोऽवमरात्राः पात्यन्ते, ततो यदि त्र्यशीत्यधिकेन शतेन भागः पतति तर्हि भागेहते यल्लब्धं तान्ययनानि ज्ञातव्यानि, केवलं यापश्चाद्दिवससङ्ख्याऽवतिष्ठते तदन्तिमे मण्डले विवक्षितं पर्व समाप्तमित्यवसेयं, उत्तरायणे वर्तमाने बाह्यमण्डलमादि कर्तव्यं दक्षिणायने च सर्वाभ्यन्तरमिति । सम्प्रति भावना क्रियते
ततः कोऽपि पृच्छति-कस्मिन् मण्डले स्थितः सूर्यो युगे प्रथमं पर्व समापयतीति, इह प्रथमं पर्व पृष्टमित्येकको ध्रियते, स पञ्चदशभिर्गुण्यते, जाताः पञ्चदश, अत्रैकोऽप्यवमरात्रो न सम्भवतीति न किमपि पात्यते, तेच पञ्चदशरूपाधिकाः क्रियन्ते, जाता षोडश, युगादौ च प्रथम पर्वदक्षिणायने, तत आगतं सर्वाभ्यन्तरमण्डलमादिं कृत्वा षोडशेमण्डले प्रथमपर्वपरिसमाप्तमिति तथाऽपरः पृच्छति-चतुर्थं पर्व कस्मिन् मण्डले परिसमाप्नोतीति?, तत्र चतुष्को ध्रियते, धृत्वा च पञ्चदशभिर्गुण्यते, जाता षष्टि, अत्रैकोऽवमरात्रः सम्भवतीत्येकः पात्यते, जाता एकोनषष्टि सा भूयोऽप्येकरूपयुता क्रियते, जाता षष्टि, आगतं सर्वाभ्यन्तर- मण्डलमादिं कृत्वा षष्टितमे मण्डले चतुर्थं पर्व समाप्तमिति । तथा पञ्चविंशतितमपर्वजिज्ञासायां पञ्चविंशति स्थाप्यते, सा पञ्चदशभिर्गुण्यते, जातानि त्रीणि शतानि पञ्चसप्तत्यधिकानि, अत्रषडवमरात्रा जाता इति षट् शोध्यन्ते, जातानि त्रीणि शतानि एकोनसप्तत्यधिकानि, तेषांत्र्यशीत्यधिकेन शतेन भागो ह्रियते. लब्धौ द्वौ, पश्चात्तिष्ठन्ति त्रीणि, तानि रूपयुतानि क्रियन्ते, जातानि चत्वारि, यौ च द्वौ लब्धौ ताभ्यां द्वे अयने दक्षिणायनोत्तरायणरूपे शुद्धे, तत आगतं ततीये दक्षिणायनरूपे सर्वाभ्यन्तरमण्डलमादिं कृत्वा चतुर्थे मण्डले पञ्चविंशतितमं पर्व परिसमाप्तमिति।
चतुर्विंशत्यधिकशततमपर्वजिज्ञासायांचतुर्विंशत्यधिकंशतंस्थाप्यते, तत्पञ्चदशभिर्गुण्यते, जातान्यष्टादश शतानि षष्ट्यधिकानि , चतुर्विंशत्यधिकपर्वशते च त्रिंशदमवरात्रा भूता इति त्रिंशत्पत्यते, जातानि पश्चादष्टादशशतानि त्रिंशदधिकानि, तानि रूपयुतानिक्रियन्ते, जातानि अष्टादश शतान्येकत्रिंशदधिकानि , तेषां त्र्यशीत्यधिकेन शतेन भागे हृते लब्धानि दशायनानि पश्चादवतिष्ठते एकः, दशमंचअयनं युगपर्यन्ते उत्तरायणं, तत आगतमुत्तरायणपर्यन्ते सर्वाभ्यन्तरे मण्डले चतुर्विंशत्यधिकं शततमं पर्व समाप्तमिति : सम्प्रति किं पर्व कस्मिन् सूर्यनक्षत्रे समाप्तिमधिगच्छति एतन्निरूपणार्थं यत्पूर्वाचार्ये करणमुक्तं तदुपदर्श्यते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org