SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/१/१४ मू. (१४) आवलिय १ मुहुत्तग्गे २, एवंभागाय ३ जोगस्सा ४ । कुलाई ५ पुन्नमासी ६ य, सन्निवाए ७ य संठिई ८॥ वृ.प्रथमेप्राभृतप्राभृतेनक्षत्राणामावलिकाक्रमोवक्तव्यो, यथाअभिजिदादीनि नक्षत्राणि भवन्तीति १, द्वितीये नक्षत्रयविषयं मुहूर्ताग्रं-मुहूर्तपरिमाणं वक्तव्यं २, तृतीये एवंभागा'इति 'पूर्वभागा'इतिपूर्वपश्चिमादिप्रकारेण भागा वक्तव्याः ३, चतुर्थे योगस्स'त्तियोगस्यादिर्वक्तव्यः, तथा च वक्ष्यति-'ता कहं तेजोगस्स आईआहियत्ति वइज्जा'इति४, पञ्चमे कुलानि चशब्दादुपकुलानि कुलोपकुलानि च वक्तव्यानि ५, षष्ठे पौर्णमासीति पौर्णमासीवक्तव्यता अभिधेया ६, सप्तमे 'सन्निपात इति अमावास्यापौर्णमासीसन्निपातो वक्तव्यः ७, अष्टमे नक्षत्राणां संस्थितिसंस्थानं वक्तव्यं ८। मू. (१५) तार(य)ग्गं च ९ नेता य १०, चंदमग्गत्ति ११ यावरे। देवताण य अज्झयणे १२, मुहुत्ताणं नामया इय १३॥ वृ. नवमेनक्षत्राणांताराग्रं-तारापरिमाणभिधेयं, दशमेनेता वक्तव्यो, यथा कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमाप्तया कं मासं नयन्तीति १०, अपरस्मिन्नेकादशे प्राभृतप्राभृते चन्द्रमार्गा-चन्द्रमण्डलानि नक्षत्राद्यधिकृत्य वक्तव्यानि ११, द्वादशेनक्षत्राधिपतीनां देवतनामध्ययनानि-अधीयते-ज्ञायते एभिरित्यध्ययनानि-नामानि वक्तव्यानि १२,त्रयोदशे मुहूर्तानां नामकानि वक्तव्यानि १३।। . मू. (१६) दिवसा राइ वुत्ता य १४, तिहि १५ गोत्ता १६ भोयणाणि १७ य । आइच्चवार १८ मासा १९ य, पंच संवच्छरा इय २०॥ वृ. चतुर्दशे दिवसा रात्रयश्चोक्ताः १४, पञ्चदशे तिथयः १५, षोडसे गोत्राणि नक्षत्राणां १६ सप्तदशे नक्षत्राणां भोजनानि वाच्यानि, यथेदं नक्षत्रमेवंरूपे भोजने कृते शुभाय भवतीति १७, अष्टादशे आदित्यानामुपलक्षणमेतच्चन्द्रमसां च चारा वक्तव्याः १८, एकोनविंशतितमे मासाः १९, विंशतितमे संवत्सराः २०, एकविसतितमे ज्योतिषां-नक्षत्र चक्रस्य द्वाराणि वक्तव्यानि, यथाऽमूनि नक्षत्राणि पूर्वद्वाराणि अमूनि च पश्चिमद्वाराणीत्यादि २१, द्वाविंशतितमे नक्षत्राणां विचयः-चन्द्रसूर्ययोगादिविषयो निर्णयो वक्तव्य इति। मू. (१७) जोइसस्स य दाराई २१, नक्खत्तविजए विय २२ । दसमे पाहुडे एए, बावीसं पाहुडपाहुडा ।। [से तं दसमे पाहुडे पाहुड पाहुड संखा) वृ.तदेवमुक्ताप्राभृतप्राभृतसङ्ख्या तेषामर्थाधिकाराश्च, सम्प्रतियदुक्तं प्रथमस्यप्राभृतस्य प्रथमे प्राभृतप्राभृते मुहूर्तानां वध्ध्ययपवृद्धी वक्तव्ये' इति तद्विवक्षुर्यता तद्विषये गौतमनामा प्रथमगणधरो भगवन्तं पृच्छति स्म यथा च भगवान तत्वमचकथत् तथोपर्शयन्नाह मू. (१८) ता कहं ते वद्धोवद्धीमुहुत्ताणं आहितेति वदेज्जा ? ता अट्ठएकूणवीसे मुहत्तसते सत्तावीसंच सट्ठिभागे मुहत्तस्स आहिते वि(ति)वदेजा ॥ __ वृ. ‘ता कहंतेवद्धोवद्धी मुहुत्ताण' मित्यादि, अत्रतावच्छब्दः,क्रमार्थ, क्रमश्चायमस्त्यन्यदपि चन्द्रसूर्यादिविषयं प्रभूतं प्रष्टव्यं, परं तदास्तां सम्प्रत्येतावदेव तात्पृच्छामि-'कथं' केन प्रकारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy