________________
प्राभृतं १, प्राभृतप्राभृतं - १
वृ. 'छप्पंचे' त्यादि, प्रथमस्य प्राभृतस्य चतुरादिषु प्राभृतप्राभृतेषु यथाक्रममेताः प्रतिपत्तयः-परमतरूपा भवन्ति, तद्यथा - चतुर्थे प्राभृतप्राभृते षट् प्रतिपत्तयः ४, पञ्चमे पञ्च ५, षष्ठे सप्त ७, सप्तमे अष्टौ ८, अष्टमे तिन ३ इति ।
मू. (99)
पडिवत्तीओ उदए, तह अत्थमणेसु य । भियवाए कण्णकला, मुहुत्ताण गतीति य ॥
वृ. सम्प्रति द्वितीये प्राभृते यदर्थाधिकारोपेतानि त्रीणि प्राभृतप्राभृतानि तान् प्रतिपादयति‘पडिवत्ती’त्यादि, द्वितीयस्य प्राभृतस्य प्रथमे प्राभृतप्राभृते सूर्यस्योदये अस्तमयनेषु च प्रतिपत्तयः - परमतरूपाः प्रतिपाद्याः स्वमतप्रतिपत्तिश्च, द्वितीये भेदघातः कर्मकला च वक्तव्या, किमुक्तं भवति ? - भेदो मण्डलस्यापान्तरालं तत्र घातो - गमनं, 'हन् हिंगत्यो' रिति वचनात्, स एकेषां मतेन प्रतिपाद्यः, यथा विवक्षिते मण्डले सूर्येणापूरिते सति तदनन्तरं सूर्योऽपरमनन्तरं मण्डलं संक्रामतीति, तथा कर्ण- कोटिभागः तमधिकृत्यापरेषां मतेन कला वक्तव्या, यथा विवक्षिते मण्डले द्वावपि सूर्यौ प्रथमक्षणे प्रविष्टौ सन्तौ पूर्वापरकोटिद्वयं लक्षीकृत्य बुद्धया परिपूर्ण यथावस्थितं मण्डलं विवक्षित्वा ततः परमण्डलस्य कर्णं-कोटिभागरूपमभिसमीक्ष्य ततः कलया २ - मात्रया २ इत्यर्थ: अपरमण्डलाभिमुखमभिसर्प्यन्तौ चारं चरत इति । तृतीये प्राभृतप्राभृते प्रतिमण्डलं मुहूर्तेषु गति - गतिपरमाणमभिधातव्यं, तत्र निष्क्रमति प्रविशति वा सूर्ये याशी गतिर्भवति ताशीमभिधित्सुराहमू. (१२)
१३
निक्खममाणे सिग्घगई पविसंते मंदगईइ य ।
चुलसीइसयं पुरिसाणं, तेसिं च पडिवत्तीओ ॥
वृ. 'निक्खमे' त्यादि निष्क्रमन् सर्वाभ्यन्तरान्मण्डलाद्ध हिर्निर्गच्छन् सूर्यो यथोत्तरं मण्डलं सङ्क्रामन् शीघ्रगति शीघ्रतरगतिर्भवति, प्रविशन्- सर्वबाह्यान्मण्डलादभ्यन्तरमागच्छन् प्रतिमण्डलं मन्दगति मन्दमन्दगति, तेषां च मण्डलान् चतुरशीतं - चतुरशीत्यधिकं शतं सूर्यस्य भवति, तेषां मण्डलानां च विषये प्रतिमुहूर्त्त सूर्यस्य गतिपरिमाणचिन्तया पुरुषाणां प्रतिपत्तो नाम-मतान्तररूपा भवन्ति । सम्प्रति कस्मिन् प्राभृतप्राभृते कति प्रतिपत्तय इत्येतयरूपयति-द्वितीये प्राभृते त्रिष्ववपि प्राभृतप्राभृतेषु यथाक्रममेवंसङ्ख्याः प्रतिपत्तयो भवन्ति, तद्यधामू. (१३) उदयम्मि अट्ठ भणिया भेदग्धाए दुवे य पडिवत्ती । चत्तारि मुहुत्तगईए हुति थइयंमि पडिवत्ती ॥
[ से तं दोच्चे पाहुडे पाहुड पाहुड पडिवत्ति संखा ]
बृ. -प्रथमे प्राभृतप्राभृते उदये-सूर्योदयवक्तव्यतोपलक्षिते अष्टौ भणितास्तीर्थकरगण धरैः प्रतिपत्तयो, द्वितीये प्राभृतप्राभृते भेदघाते - भेदघातरूपे परमवक्तव्यतोपलक्षिते द्वे एव प्रतिपत्ती भवतः, तृतीये प्राभृतप्राभृते मुहूर्त्तगतौ-मुहूर्त्तगतिवक्तव्यतोपलक्षिते चतनः प्रतिपत्तयो भवन्ति, 'चत्तारी' ति च सूत्रे नपुंसकत्वनिर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्गव्यभिचारि, यदाह पाणिनि स्वप्राकृतलक्षणे- 'लिङ्गं व्यभिचार्यपी'ति । सम्प्रति दशमप्राभृते यान्यपान्तरालवर्त्तीनि द्वाविंशतिसङ्ख्यानि प्राभृतप्राभृतानि तेषामर्थाधिकारमाह- दशमे प्राभृते एतानि - सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् एतदर्थाधिकारोपेतानि द्वाविंशति प्राभृतप्राभृतानि भवन्ति, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org