________________
प्राभृतं १, प्राभृतप्राभृतं - 9
भगवन्! 'ते' त्वया 'मुहूर्त्तानां' दिवसरात्रिविषयाणां वृद्धयपवृद्धी आख्याते इति भगवान् प्रसादमाधाय वदेत्' यथावस्थितं वस्तुस्वरूपं कथयेत् येन मे संशयापगमो भवति, अपगतसंशयश्च परेभ्यो निशङ्कमुपदिशामीति । अत्राह - ननु गौतमोऽपि चतुर्दशपूर्वधरः सर्वाक्षरसन्निपाती सम्मिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञाकुशलः सूत्रतश्च प्रवचनस्य प्रणेता सर्व्वज्ञदेशीय एव, उक्तं च"संखाईएवि भवे साहइ जं वा परो उ पुच्छेज्जा । नणं अणाइसेसी वियाणई एस छउमत्थो ||"
119 11
१५
ततः कथं संशयसम्भवस्तदभावाच्च किमर्थं पृच्छतीति ?, उच्यते, यद्यपि भगवान् गौतमो यथोक्तगुणविशिष्टस्तथापि तस्याद्यापि मतिज्ञानावरणीयाद्युदये वर्त्तमानत्वात् छद्मस्थता, छद्मस्थस्य च कदाचिदनाभोगोऽपि जायते, यत उक्तम्
119 11
" न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नेति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृतिकर्म्म ।।"
ततोऽनाभोगसम्भवादुपपद्यते भगवतोऽपि संशयः, न चैतदनार्थ, यत उक्तं उपासकश्रुते आनन्द श्रमणोपासकावधिनिर्णयविषये
'तेणं' भंते! किं आनंदेणं समणोवासाएणं तस्स ठाणस्स आलोइयव्वं जाव पडिक्कमियव्वं उयाहु मए ?, ततो णं गोयमादी समणे भगवं महावीरे गोयमं एवं वयासी- तुमं चेव णं तस्स ठाणस्स आलोएहि जाव पडिक्कमाहि, आनंदं च समणोवासयं एयमठ्ठे खामेहि, तए णं समणे भगवं गोयमे समणस्स भगवओ महावीरस्स अंतिए एयमहं विनएणं पडिसुणेइ, पडिसुणित्ता तरस ठाणस्स आलोएइ जाव पडिक्कमइ, आनंदं च समणोवासयं एयमहं खामेइ' इति, अथवा भगवान् अपगतसंशयोऽपि शिष्यसम्प्रत्ययार्थं पृच्छति, तथाहि - तमर्थं शिष्येभ्यः प्ररूप्य तेषां सम्प्रत्ययार्थं तत्समक्षं भूयोऽपि भगवन्तं पृच्छतीति यदिवा इत्यमेव सूत्ररचनाकल्प इति न कश्चिद्दोषः
एवं भगवता गौतमने प्रश्ने कृते सति भगवान् श्रीवर्द्धमानस्वामी प्रतिवचनमभिधातुकामः सविशेषबोधाधानाय प्रथमतो नक्षत्रमासे यावन्तो मुहूताः सम्भवन्ति तावतो निरूपयति- 'ता अट्ठे' त्यादि, तावदिति शिष्योक्तपदानुवादः सच न्यायमार्गप्रदर्शनार्थं, तथाहि - सर्वेणापि गुरुणा शिष्येण प्रश्ने कृते सति शिष्यपृष्टस्य पदस्य अन्यस्य वा शिष्योक्तस्य तथाविधस्य पदस्य अनुवादपुरस्सरं प्रतिवचनमभिधातव्यं येन गुरुषु शिष्याणां बहुमानो भवति - यथाऽहं गुरूणां सम्मत इति, अन्यच्च तावच्छब्दस्यायमर्थः- आस्तामन्यत्प्रतिवक्तव्यमिदानीं तावदेव तवाग्रे कथयामि, एतस्मिन्नक्षत्रमासे अष्टौ मुहूर्त्तशतानि एकोनविंशानि - एकोनविंशत्यधिकानि एकस्य च मुहूर्त्तस्य सप्तिविंशति सप्तषष्टिं भागानहमाख्याता इति स्वशिष्येभ्यो वदेत्, एतेन चैतदावेदयतिइह शिष्येण सम्यगधीत शास्त्रेणापि गुर्वनुज्ञातेन सता तत्वोपदेशोऽपरस्मै दातव्यो नान्यथेति, अथ कथमेकस्मिन्नक्षत्रमासे अष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य सप्तविंशति स्पतषष्टिभागा इति ?, उच्यते, इह युगे चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपसंवत्सरपञ्चकात्मके सप्तषष्टिर्नक्षत्रमासाः, युगे चोक्तस्वरूपे अहोरात्राणामष्टादश शतानि त्रिंशदधिकानि तत एतेषां सप्तषष्ट्या भागो हियते लब्धाः सप्तविंशतिरहोरात्राः, शेषा तिष्ठति एकविंशति, सा मुहूर्तांनयनार्थं त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि तेषां सप्तषष्ट्या भागे हते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org