________________
प्राभृतं १०, प्राभृतप्राभृतं - २०
१६५
'ता पढमस्स ण’मित्यादि, 'ता' इति तत्र युगे प्रथमस्य णमिति वाक्यालङ्कृ तौ चान्द्रस्य संवत्सरस्य चतुर्विंशति पर्वाणि प्रज्ञप्तानि, द्वादशमासात्मको हि चान्द्रः संवत्सरः, एकैकस्मिंश्च मासे द्वे द्वे पर्वणी, ततः सर्वसङ्घयया चान्द्रे संवत्सरे चतुर्विंशति पर्वाणि भवन्ति, द्वितीयस्यापि चान्द्रसंवत्सरस्य चतुर्विंशति पर्वाणि भवन्ति, अभिवर्द्धितसंवत्सरस्य षडविंशति पर्वाणि, तस्य त्रयोदशमासात्मकत्वात्, चतुर्थस्य चान्द्रसंवत्सरस्य चतुर्विंशति पर्वाणि पञ्चमस्य अभिवर्द्धितसंवत्सरस्य षड्विंशति पर्वाणि, कारणमन्तरमेवोक्तं, तत एवमेव-उक्तेनैव प्रकारेण 'सपुव्वावरेणं' ति पूर्वापरगणितमीनेन पञ्चसांवत्सरिके युगे चतुर्विंशत्यधिकं पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकृद्भिर्मया च । इह कस्मिन्नयने कस्मिन् वा मण्डले किं पर्व समाप्तिमुपयातीति चिन्तायां पूर्वाचार्यै पर्वकरणगाथा अभिहिताः, ततस्ता विनेयजनानुग्रहार्थमुपदिश्यन्ते“इच्छापव्वेहि गुणिउं अयणं रूवाहिअं तु कायव्वं । सोज्झं च हवइ एत्तो अयणक्खेत्तं उडुवइस्स ।। जइ अयणा सुज्झंती तइपव्वजुया उरुवसंजुत्ता । तावइयं तं अयणं नत्थि निरंसंमि रूवजुयं ॥ कसिणंमि होइ रूवं पक्खेवो दो य होंति भिन्नंमि । जावया तावइया एते ससिमंडला होंति ।। ओयम्मि उ गुणकारे अब्भितरमंडले हवइ आई । जुग्गंमि य गुणकारे बाहिरगे मंडले आई ।।
119 11
॥२॥
॥३॥
॥ ४ ॥
एषां क्रमेण व्याख्या - यस्मिन् पर्वणि अयनमण्डलादिविषया ज्ञातुमिच्छा तेन ध्रुवुराशिर्गुण्यते, अथ कोऽसौ ध्रुवराशि ?, उच्यते, इह ध्रुवराशिप्रतिपादिकेयं पूर्वाचार्योपदर्शिता
गाथा
119 11
“एगं च मंडलं मंडलस्स सत्तट्ठभाग चत्तारि । नव चेव चुण्णियाओ इगतीसकएण छेएण ।।
अस्या अक्षरयोजना - एकं मण्डलमेकस्य च मण्डलस्य सप्तषष्टिभागाश्चत्वारः च नव चूर्णिकाभागा एकस्य च सप्तषष्टिभागस्य एकत्रिंशत्कृतेन छेदेन ये चूर्णिका भागास्तेन च, एतावप्रमाणो ध्रुवराशि, अयंच पर्वगतक्षेत्रादयनगतक्षेत्रापगमे शेषीभूतः, एतस्य चोत्पत्तिमात्रं भावयिष्यामः तत एवंभूतं ध्रुवराशिमीप्सितपर्वभिर्गुणयित्वा तदनन्तरमयनं रूपाधिकं कर्त्तव्यं, तथागुणितस्य मण्डलराशेः यदि चन्द्रमसोऽयनक्षेत्रं परिपूर्णमधिकं वा सम्भाव्यते तत एतस्मादीप्सितपर्वसमयागुणितात् मण्डलराशेरुडुपतेः - चन्द्रमसोऽयनक्षेत्रं भवति शोध्यं, यति च - यावत्सङ्ख्यानि चायनानि शुद्धयन्ति ततिभिर्युक्तानि पर्वाणि अयनानि क्रियन्ते, कृत्वा च भूयो रूपसंयुक्तानि विधेयानि, यदि पुनः परिपूर्णानि मण्डलानि शुद्धयन्ति राशिश्च पश्चान्निर्लेपो जयते तदा तदयनसङ्खयानैर्निरंशं सद्रूपयुक्तं नास्ति, न तत्रायनराशौ रूपं प्रक्षिप्यते इति भावः, तथा कृत्स्ने परिपूर्णे राशौ भवत्येकं रूपं मण्डरलाशौ प्रक्षेपणीयं, भिन्ने- खण्डे अंशसहिते राशावित्यर्थः, द्विरूपे मण्डलराशौ प्रक्षेपणीये प्रक्षेपे च कृते सति यावान् मण्डलराशिर्भवति तावन्ति मण्डलानि तावतिथे ईप्सिते पर्वणि भवन्ति तथा यदि ईप्सितेन पर्वणा ओजोरूपेण-विषमलक्षणेन गुणकारो भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org