________________
१६६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७
तत आदिरभ्यन्तरे मण्डले द्रष्टव्यः, युग्मे तु-समे तु गुणकारे आदिर्वाह्ये मण्डलेऽवसेयः, एष करणगाथासमूहाक्षरार्थः, भावना त्वियम्-कोऽपिपृच्छति-युगादौ प्रथमपर्वकस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमुपयाति? तत्र प्रथमं पर्व पृष्टमिति वामपार्वे पर्वसूचक एककः स्थाप्यते, ततस्तस्यानुश्रेणि दक्षिणपार्वे एकमयनं, तस्य चानुश्रेणि एकं मण्डलं, तस्य च मण्डलस् याधस्ताच्चत्वारः सप्तषष्टिभागास्ते-षामद्यधस्तान्नव एकत्रिंशद्भागाः, एष सर्वोऽपि राशिध्रुवराशि, स च ईप्सितेन एकेन पर्वणा गुण्यते, 'एकेन च गुणितं ०'तिजातस्तावानेव राशि, ततः।
__ 'अयनं रूपाधिकं च कर्त्तव्य मिति वचनादेकं रूपमयने प्रक्षिप्यते, मण्डलराशौ चायनंन शुद्धयति, ततो 'दो यहोति भिन्नमि' इति वचनात्मण्डलराशौ द्वे रूपे प्रक्षिप्येते, तत आगतमिदं प्रथमं पर्व द्वितीयेऽयने तृतीयस्य मण्डलस्य ओयंमि य गुणकारे अभितरमंडले हवइआई' इति वचनात्, अभ्यन्तरवर्तिनश्चतुर्यु सप्तषष्टिभागेषुएकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तिमुपयातीति, अयनं चेह चन्द्रायणमवसेयं, चन्द्रायणं च युगस्यादौ प्रथममुत्तरायणं द्वितीयं दक्षिणायनमिति द्वितीयेऽयनेऽभ्यन्तरवर्तिनस्तृतीयस्य मण्डलस्येत्युक्तं, तथा कोऽपि पृच्छति-द्वितीयं पर्व कस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमधिगच्छतीति, तत्र द्वितीयं पर्व पृष्टमिति स एव प्रागुक्तो ध्रुवराशि समस्तोऽपि द्वाभ्यां गुम्यते, ततो जाते द्वे अयने द्वे मण्डले अष्टौ सप्तषष्टिभागा अष्टादश एकत्रिंशद्भागास्ततः ।
'अयनं रूपाधिकं कर्तव्य मिति वचनात् अयने रूपं प्रक्षिप्यते, मण्डलराशौ चायनं न शुद्धयति, ततो 'दो य होंति भिन्नंमि' इति वचनान्मण्डलराशौ द्वे प्रक्षिप्येते, तत आगतं द्वितीयं पर्वतृतीयेऽयने चतुर्थस्य मण्डलस्य 'जुग्गंमिव गुणकारेबाहिरगेमंडले हवइआई' इति वचनात् बाह्यमण्डलादग्विर्तिनः अष्टसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्याष्टादशस्वे-कत्रिंशभागेष्वतिक्रान्तेषु परिसमाप्तिमुपैति, तथा कोऽपि प्रश्नयति- ।
चतुर्दशंपर्व कतिसङ्खयेष्वयनेषु मण्डलेषु वा समाप्तिं गच्छतीति, स एव प्रागुक्तो ध्रुवराशि समस्तोऽपि चतुर्दशभिर्गुण्यते, जातानि अयनानिचतुर्दशमण्डलान्यपिचतुर्दश, चत्वारः सप्तषष्टिभागाश्चतुर्दशभिर्गुणिताः षट्पञ्चाशत् , नव एकत्रिंशद्भागाश्चतुर्दशभिर्गुणिता जातं षडविंशत्यधिकं शतं , तत्र षड्विशत्यधिकस्य शतस्य एकत्रिंशता भागो ह्रियते, लब्धाः चत्वारः सप्तषष्टिभागाः, द्वौचूर्णिकाभागौ तिष्ठतः, चत्वारश्च सप्तषष्टिभागाउपरितने सप्तषष्टिभागराशौप्रक्षिप्यन्ते, जाताःषष्टि सप्तषष्टिभागाः, चतुर्दशभ्यश्च मण्डलेभ्यस्त्रयोदशभिर्मण्डलैस्त्रयोदशभिश्च सप्तषष्टिभागैरयनं शुद्धं, तेन पूर्वाण्ययनापि चतुर्दशसङ्ख्यानि युतानि क्रियन्ते।
ततः 'अयनं रूपाधिकं कर्त्तव्य'मिति वचनाद्भूयोऽपि तत्रैकं रूपं प्रक्षिप्यते, जातानि षोडशअयनानि, सप्तषष्टिभागाश्च चतुष्पञ्चाशत्सङ्ख्या मण्डलराशावुद्धरितास्तिष्ठन्ति, ते सप्तषष्टिभागराशौ षष्टिरूपे प्रक्षत्रिप्यन्ते, जातंचतुर्दशोत्तरं शतं, तस्य सप्तषष्ट्या भागो ह्रियते, लब्धमेकं मण्डलं, पश्चादवतिष्ठन्ते सप्तचत्वारिंशत् सप्तषष्टिभागाः, ततो 'दो य होति भिन्नंमि' इति वचनान्मण्डलराशौ द्वे रूपे प्रक्षिप्येते, जातानि त्रीणि मण्डलानि, चतुर्दशभिश्चात्र गुणितं कृतं, चतुर्दशराशिश्च यद्यपि युग्मरूपस्तथाऽप्यत्र मण्डलराशेरेकमयनमधिकं प्रविष्टमिति त्रीणि मण्डलान्यभ्यन्तरमण्डलादारभ्य द्रष्टव्यानि, तत आगतं चतुर्दशं पर्व षोडशेऽयनेऽभ्यन्तर
Jain Education International
For Private & Personal Use Only
Fo
www.jainelibrary.org