________________
१६४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ तत्र द्वादशपूर्णमासीपरावर्तायावताकालेन परिसमाप्तिमुपयान्तितावान् कालविशेषश्चान्द्रः संवत्सरः, उक्तं च-'पुण्णिमपरियट्टापुण वारस संवच्छरोहवइचंदो।' एकश्च पूर्णमासीपरावर्त एकश्चान्द्रमासः, तस्मिंश्च चान्द्रमासे रात्रिन्दिवपरिमाणचिन्तायामेकोनत्रिंशदहोरात्रा द्वात्रिंशच्च द्वापष्टिभागा रात्रिन्दिवस्य, एतद्वादशभिर्गुण्यते, जातानि त्रीणि शतानिचतुष्पञ्चाशदधिकानि रात्रिन्दिवानां द्वादश च द्वाषष्टिभागा रात्रिन्दिवस्य, एवं परिमाणश्चान्द्रः संवत्सरः, तथा यस्मिन् संवत्सरेऽधिकमाससम्भवेन त्रयोदश चन्द्रमासा भवन्ति सोऽभिवर्द्धितसंवत्सरः, उक्तंच-"तेरस य चंदमासा एसो अभिवडिओ उ नायव्यो।
एकस्मिंश्चन्द्रमासे अहोरात्रा एकोनत्रिंशद्भवति द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतच्चानन्तरमेवोक्तं, तत एष राशिस्त्रयोदशभिर्गुण्यते, जातानित्रीण्यहोरात्रशतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतावदहोरात्रप्रमाणोऽभिवर्द्धितसंवत्सर उपजायते । कथमधिकमाससम्भवो येनाभिवर्द्धितरांवत्सर उपजायते ?, कियता वा कालेन सम्भवतीति उच्यते, इहयुगं चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपपञ्चसंवत्सरंसूर्यसंवत्सरापेक्षया परिभाव्यमानमन्यूनातिरिक्तानि पञ्च वर्षाणि भवन्ति, सूर्यमासश्च सार्द्धत्रिंशदहोरात्रप्रमाणश्चन्द्रमास एकोनत्रिंशद्दिनानि द्वात्रिंशच द्वाषष्टिभागा दिनस्य, ततो गणितसम्भावनया सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चन्द्रमासोऽधिकोलभ्यते, सच यथा लभ्यतेतथा (ज्ञापनाय) पूर्वाचार्यप्रदर्शितेयं करणगाथा॥१॥ 'चंदस्स जो विसेसो आइच्चस्स य हविज मासस्स ।
तीसइगुणिओ संतो हवइ हु अहिमासगो एक्को। अस्या अक्षरगमनिका आदित्यसंवत्सरसम्बन्धिनोमासस्यमध्यात्चन्द्रस्य-चन्द्रमासस्य यो भवति विश्लेष, इह विश्लेषे कृते सति यदवशिष्यते दप्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् सार्द्धत्रिंशदहोरात्ररूपाचन्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागादिनस्येत्येवंरूपं शोध्यते, ततः स्थितं पश्चाद्दिनमेकमेकेन द्वाषष्टिभागास्ते त्रिंशद्दिनेभ्यः शोध्यन्ते, ततः स्थितानि शेषाणि एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य, एतावत्परिमाणश्चान्द्रो मास इतिभवति सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकोऽधिकमासो, युगे च सूर्यमासाः षष्टिस्ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्तंच॥१॥ “सठ्ठीए अइयाए हवइ हु अहिमासगो जुगलुमि ।
बावीसे पव्वसए हवइ य वीओ जुगलुमि ।।" अस्याप्यक्षरगमनिका-एकस्मिन्युगेऽनन्तरोदितस्वरूपेपर्वणां-पक्षाणां षष्टी अतीतायां, षष्टिसङ्ख्येषु पक्षेष्वतिक्रान्तेषु इत्यर्थः, एतस्मिन्नवसरे युगाढेषु-युगार्द्धप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासो द्वाविंशे-द्वाविंशत्यधिके पर्वशते-पक्षशतेऽतिक्रान्ते युगस्यान्तेयुगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीयेवत्सरेऽधिकमासः पञ्चमे वेति द्वौ युगेऽभिवर्द्धितसंवत्सरौ । सम्प्रति युगे सर्वसङ्ख्यया यावन्ति पर्वाणि भवन्ति तावन्ति निर्दिदिक्षु प्रतिवर्ष पर्वसबयामाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org