SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं - १२ १५५ इंदग्गी मित्तोवि य इंदे निरई य आउविस्सो य। नामाणि देवयाणं देवयाणं हवंति रिक्खाण जहकमसो॥ प्राभृतं-१०, प्राभृतप्राभृतं-१२ समाप्तम् प्राभृतप्राभृत-१३:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतं, सम्प्रति त्रयोदशमारभ्यते, तस्य चायमर्थाधिकारः-'मूहूर्तानां नामधेयानि वक्तव्यानि' ततस्तद्विषयं प्रश्नसूत्रमाह मू. (५७) ता कहं ते मुहूत्ताणंनामधेजा आहिताति वदेज्जा?, ता एगमेगस्सणं अहोरत्तस्स तीसं मुहुत्ता तं० वृ. ‘ता कहं ते मुहुत्ताण'मित्यादि, ता इति पूर्ववत्, कथं? -केन प्रकारेण भगवन् ! त्वया मुहूर्तानां नामधेयानि-नामान्येव नामधेयानि, 'नामरूपभागाद्धेय' इति स्वार्थे धेयप्रत्ययः, आख्यातानीति वदेत्, भगवानाह-‘ता एगमेगस्सण'मित्यादि, ताइतिपूर्ववत्, एकैकस्याहोरात्रस्य त्रिंशन्मुहूर्ता वक्ष्यमाणनामधेययुक्ता इति शेषः, तान्येव नामधेयान्याहमू. (५८) “रोहे सेते मित्ते, वायु सुगीए (पी) त अभिचंदे । महिंदबलवं बंभो, बहुसच्चे चेव ईसाणे॥ मू. (५९) तढे य भावियप्पा वेसमणे वरुणे य आणंदे । विजए (य) वीससेणे पयावई चेव उवसमे य ।। मू. (६०) गंधव्व अग्गिवेसे सयरिसहे आयवं च अममे य। अणवं च भोग रिसहे सव्वढे रक्खसे चेव ॥ वृ. 'तंजहा-रोद्दे'त्यादिगाथात्रयं,तत्रप्रथमोमुहूर्तो रुद्रोद्वितीयः श्रेयान् तृतीयो मित्रश्चतुर्थो वायुः पञ्चमः सुपीतः षष्ठोऽभिचन्द्रः सप्तमःमाहेन्द्रोऽष्टमः बलवान् नवमः ब्रह्मा दशमः बहुसत्यः एकादश ईशानो द्वादशः त्वष्टा त्रयोदशः भावितात्मा चतुर्दशः वैश्रमणः पञ्चदशः वारुणः षोडशः आनन्दः सप्तदशोविजयःअष्टादशो विश्वसेनः एकोनविंशतितमःप्राजापत्यः विंशतितमः उपशमः एकविंशतितमो गन्धर्व द्वाविंशतितमोऽग्निवेश्यःत्रयोविंशतितमः शतवृषभः चतुर्विशतितमः आतपवान् पञ्चविंशतितमोऽममः षड्विंशतितमःऋणवान् सप्तविंशतितमो भौमः अष्टाविंशतितमो वृषभः एकोनत्रिंशत्तमः सर्वार्थ त्रिंशत्तमो राक्षसः ।। प्राभृतं-१० प्राभृत प्राभृतं-१३ समाप्तम् प्राभृतप्राभृतं-१४:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य त्रयोदशं प्राभृतप्राभृतं, सम्प्रति चतुर्दशमारभ्यते, तस्य चायमाधिकारः-दिवसरात्रिप्ररूपणा कर्तव्या, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (६१) ता कहं ते दिवसा आहियत्तिवइज्जा ?, ता एगमेगस्स णं पक्खस्स पनरस दिवसा पं० तं०-पडिवादिवसे बितियदिवसे जाव पन्नरसे दिवसे, ता एतेसि णं पन्नरसण्हं दिवसाणं पन्नरस नामधेजा पं० २०-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy