SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/११/५५ सर्वान्तिमात्सूर्यमण्डलादर्वागभ्यन्तरं प्रविष्टमष्टावेकषष्टिभागानु, शेषा अष्टाचत्वारिंशदेकषष्टिभागाः सूर्यमण्डसम्मिश्राः, तदेवमेतान्येकादशादीनि पञ्चदशपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्यमण्डल - सम्मिश्राणि भवन्ति,चतुर्षु च चरमेषु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गा, एवं तु यदन्यत्र चन्द्रमण्डलान्तरेषु सूर्यमार्गप्रतिप्रादनमकारि यथा 119 11 'चंदंतरेसु अट्ठसु अभितर बाहिरेसु सूरस्स । बारस बारसमग्गा छसु तेरस तेरस भवंति ॥' तदपि संवादि द्रष्टव्यम् ॥ प्राभृतं - १०, प्राभृतप्राभृतं - ११ सम्पाप्तम् १५४ -: प्राभृतप्राभृतं - १२: वृ. तदेवमुक्तं दशमस्यप्राभृतस्य एकादशं प्राभृतप्राभृतं सम्प्रति द्वादशमारभ्यते, तस्य चायमर्थाधिकारः - 'देवतानामध्ययनानि वक्तव्यानि ' ततस्तद्विषयं प्रश्नसूत्रमाह --- मू. (५६) ता कहं ते देवताणं अज्झयणा आहिताति वदेज्जा ?, ता एएणं अट्ठावीसाए नक्खत्ताणं अभिई नक्खत्ते किंदेवताए पन्नत्ते ?, बंभदेवयाए पं०, सवणे नक्खत्ते किंदेवयाए पन्नत्ते ?, ता विण्हुदेवयाए पन्नत्ते, धनिट्ठानक्खत्ते किंदेवताए पं० ?, तावसुदेवयाए पन्नत्ते, सयभिसयानक्खत्ते किंदेवयाए पन्नत्ते ?, ता वरुणदेवयाए पन्नत्ते, (पुव्वपोट्ट० अजदे०) उत्तरापोट्ठवयानक्खत्ते किं देवयाए पन्नत्ते ?, ता अहिवड्ढिदैवताएपन्नत्ते, एवं सव्वेवि पुच्छिज्जति रेवती पुस्सदेवता अस्सिणी अस्सदेवता भरणी जमदेवता कत्तिया अग्गिदेवता रोहिणी पयावइदेव या सट्टाणा सोमदेवयाए अद्दा रुद्ददेवयाए पुनव्वसू अदितिदेवयाए पुंस्सो बहस्सइ देवयाए अस्सेसा सप्पदेवयाए महा पतिदेवताए पं० पुव्वाफग्गुणी भगदेवयाए उत्तराफग्गुणी अज्जमदेवताए हत्थे सवियादेवताए चित्ता तट्टदेवताए साती वायुदेवताए विसाहा इंदग्गीदेवयाए अनुराहा मित्तदेवताए जेट्ठा इंददेवताए मूले निरितिदेवताए पुव्वासाढा आउदेवताए उत्तरासाढा विस्सदेवयाए पन्नत्ते ॥ वृ. ‘ता कहं ते देवयाण’मित्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण भगवन् ! त्वया नक्षत्राधिपतीनां देवतानामध्ययनानि - अधीयन्ते ज्ञायन्ते यौस्तान्यध्ययनानि नामानीत्यर्थः, आख्यातानीति वदेत्, एवं प्रश्ने कृते भगवानाह - 'ता एएसि णं, ता इति पूर्ववत्, एतेषां - अनन्तरोदितानामष्टाविंशतेर्नक्षत्राणां मध्येऽभिजिन्नक्षत्रं किंदेवताकंकिंनामधेयदेवताकं प्रज्ञप्तम् ?, भगवानाह -‘ता' इत्यादि, ता इति प्राग्वत्, ब्रह्मदेवताकं - ब्रह्माभिधदेवताकं प्रज्ञप्तं, श्रवणनक्षत्रं किंदेवताकं प्रज्ञप्तं ?, भगवानाह - 'ता' इत्यादि, विष्णुनामदेवताकं प्रज्ञप्तं, एवं शेषाण्यपि भावनीयानि, देवताभिधान सङग्राहिकाश्चेमास्तिम्नः प्रवचनप्रसिद्धाः सङ्ग्राहणिगाथाः"बम्हा विण्हू य वसू वरुणो तह ऽजो अनंतरं होइ । अभिवड्ढि पूस गंधव्व चेव परतो जमो होइ ॥ अग्ग पयावइ सोमे रुद्दे अदिई बहस्सई चेव । नागे पिइ भग अजम सविया तट्ठा य वाऊ य ॥ 119 11 For Private & Personal Use Only ॥२॥ Jain Education International www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy