________________
प्राभृतं १०, प्राभृतप्राभृतं - ११
१५३
ततः परं नवमं चन्द्रमण्डलं तस्माच्च नवमाच्चन्द्रमण्डलात् परत एकविंशत्या एकषष्टिभागैरेकस्य च एकषष्टिभागस्य त्रिभि सप्तभागैः सूर्यमण्डलं तत एकोनसप्ततिसङ्घयैरेक षष्टिभागैरेकस्य च एकषष्टिभागस्य त्रिभि सप्तभागैः परिहीणं यथोक्तप्रमाणं चन्द्रमण्डलान्तरं, तत्र चान्ये द्वादश सूर्यमार्गा, एवं चास्मिन्नप्यन्तरे सर्वसङ्कलनया त्रयोदश सूर्यमार्गा, तस्य च त्रयोदशस्य सूर्यमार्गस्योपरिदशमाच्चन्द्रमण्डलादर्वाक् अन्तरं षट्पञ्चाशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य एकः सप्तभागः, ततो दशमं चन्द्रमण्डलं, तस्माच्च दशमाञ्चन्द्रमण्डलात्परतो नवभिरेकषष्टिभागैरेकस् च एकषष्टिभागस्य सत्कैः षड्मि सप्तभागैः सूर्यमण्डलं ततः सप्तपञ्चाशता एकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैः षड्मिः सप्तभागैरूनं प्रागुक्तपरिमाणं चन्द्रमण्डलान्तरं ततो भूयोऽपि द्वादश सूर्यमार्गा लभ्यन्ते इति तस्मिन्नप्यन्तरे सर्वसङ्कलनया त्रयोदश सूर्यमार्गा, ततस्त्रयोदशस्य सूर्यमार्गस्योपरि एकादशाञ्चन्द्रमण्डलादर्वागन्तरं सप्तषष्टि एकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, तदेवं पञ्च चन्द्रमण्डलानि षष्ठादीनि दशमपर्यन्तानि सूर्यासम्मिश्राणि, षट्सु च चन्द्रमण्डलान्तरेषु त्रयोदश सूर्यमार्गा इति जातं ।
"
सम्प्रत्येतदनन्तरमुच्यते - तत्र एकादशे चन्द्रमण्डले चतुष्पञ्चदशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ इत्येतावत् सूर्यमण्डलादभ्यन्तरं प्रविष्टं एक एकषष्टिभाग एकस्य च एकषष्टिभागस्य पञ्च सप्तभागाः इत्येतावन्मात्रं सूर्यमण्डलसम्मिश्रं एकादशाच्चन्द्रमण्डलाद्बहिर्विनिर्गतं सूर्यमण्डलं, षट्चत्वारिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ तत् एतावता हीनं परतश्चन्द्रमण्डलान्तरमस्तीति द्वादश सूर्यमार्गा लभ्यन्ते, ततः परमेकोनाशीत्या एकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्काभ्यां द्वाभ्यां सप्तभागाभ्यां द्वादशं चन्द्रमण्डलं, तच्च द्वादशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टं द्वाचत्वारिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कान् पञ्च सप्तभागान्, शेषं च त्रयोदश एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ इत्येतावन्मात्रं सूर्यमण्डलसम्मिश्रं, तस्माच्च द्वादशाच्चन्द्रमण्डलाद्बहिर्विनिर्गतं सूर्यमण्डलं चतुस्त्रिंशतमेकषष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सत्कान् पञ्च सप्तभागान्, तत एतावन्मात्रेण हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशाच्च सूर्यमार्गात्परतो नवतिसङ्ख्यैरेकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैः षड्भिः सप्तभागैस्त्रयोदशं चन्द्रमण्डलं, तच्च त्रयोदशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टं, एकत्रिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागं ।
तत एतावता हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा, द्वादशाच्च सूर्यमार्गात् परत एकषष्टिभागानां द्वयुत्तरेण शतेन एकस्य च एकषष्टिभागस्य सत्कैस्त्रिभिः सप्तभागैश्चतुर्द्दशं चन्द्रमण्डलं, तच्च चतुर्द्दशं चन्द्रमण्डलं सूर्यमण्डदभ्यन्तरं प्रविष्टमेकोनविंशतिमेकषष्टिभागानेकस्य च एकषष्टिभागस्य सत्कान् चतुरः सप्तभागान्, शेषं षट्त्रिंशदेकषष्टिभागा एकस्यच एकषष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डलसम्मिश्रं तस्माच्चतुर्द्दशाच्चन्द्रमण्डलाद् बहिर्विनिर्गतं सूर्यमण्डलमेकादश एकषष्टिभागान् एकस्य च एकषष्टिभाग्य चतुरः सप्तभागान्, तत एतावता हीनं यथोक्तपरिमाणं चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा, द्वादशाच्च सूर्यमार्गात् परतः एकषष्टिभागानां चतुर्दशोत्तरेण शतेन पञ्चदशं चन्द्रमण्डलं, तच्च पञ्चदशं चन्द्रमण्डलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org