SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/११/५५ मण्डलात् परतो द्वादश सूर्यभागो द्वादशाच्च सूर्यभागोत्परतो योजनद्वयातिक्रमे सूर्यमण्डलं, तच्च पञ्चमाञ्चन्द्रमण्डलादक अभ्यन्तरं प्रविष्टं षट्चत्वारिंशतमकषष्टिभागान् द्वौ च एकस्यैकषष्टिभागस्य सत्कौ सप्तभागौ, शेषं सूर्यमण्डलस्य एक एकषष्टिभाग एकस्य च एकषष्टिभागस्य पञ्च सप्तभागा इत्येतावत्परिमाणं पञ्चमचन्द्रमण्डलसम्मिश्रं । तस्य पञ्चमस्य चन्द्रमण्डलस्य सूर्यमण्डलाबहिर्विनिर्गतं चतुःपञ्चाशदेकषष्टिभागा एकस्य चएकषष्टिभागस्य द्वौ सप्तभागौ, तदेवंपञ्चसर्वाभ्यन्तराणिचन्द्रमण्डलानि सूर्यमण्डलसम्मिश्राणि, चतुषुच चन्द्रमण्डलान्तरेषुद्वादश द्वादश सूर्यमार्गा इति जातं, सम्प्रति षष्ठादीनि दशमपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्यमण्डलासंस्पृष्टानि भाव्यन्ते तत्र पञ्चमाञ्चन्द्रमण्डलात्परतो भूयः षष्ठं चन्द्रमण्डलमधिकृत्यान्तरं तच्च पञ्चत्रिंशद् योजनानि त्रिंशच्चैकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारःस्तभागाः, तत्रच पञ्चत्रिंशद्योजनान्येकषष्टिभागकरणार्थमेकषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनास्त्रशदेकषष्टिभागाः प्रक्षिप्यन्ते, ततो जातान्येकविंति शतानि पञ्चषष्टयधिकानि, येऽपि च पञ्चमस्य चन्द्रमण्डलस्य सूर्यमण्डलाद् बहिर्विनिर्गताश्चतुःपञ्चाशदेकषष्टिभागा द्वौ च एकषष्टिभागस्य सत्कौ सप्तभागौ तेऽत्रप्रक्षिप्यन्ते, जातानि द्वाविंशति शतान्येकोनविंशत्यधिकानि, सूर्यस्य विकम्पो द्वे योजने अष्टाचत्वारिंशदेकषष्टिभागाधिके, तत्र द्वे योजने एकप्टयागुण्येतेजातं द्वाविंशंशतमेकषष्टिभागानां, तत उपरितनाअष्टाचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातं सप्तत्यधिकं शतं १७०, तेन पूर्वराशेर्भागो ह्रियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्ति नव एकस्य च एकषष्टिभागस्य सत्काः षट्सप्तभागास्तत इदमागतं-पञ्चमाञ्चन्द्रमण्डलात्परतस्त्रयोदश सूर्यमार्गास्त्रयोदशस्य च सूर्यमार्गस्योपरि षष्ठाचन्द्रमण्डलादर्वाक् अन्तरं नव एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काः षट् सप्तभागाः। ततः परतः षष्ठंचन्द्रमण्डलं, तच्च षट्पञ्चाशदेकषष्टिभागात्मकं, ततः परतः सूर्यमण्डलादर्वागन्तरं षट्पञ्चाशदेकषष्टिभागाएकस्यचएकषष्टिभागस्य एकः सप्तभागस्तदनन्तरंसूर्यमण्डलं तस्माच परत एकषष्टिभागानांचतुरुत्तरेण शतेन एकस्य च एकषष्टिभागस्यसत्केनैकेन सप्तभागेन हीनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं प्राप्यते इति तस्मात्सूर्यमण्डलात्परतोऽन्ये द्वादशसूर्यमार्गा लभ्यन्ते, ततः सर्वसङ्कलनया तस्मिन्नप्यन्तरेत्रयोदशसूर्यमार्गा, तस्य च त्रयोदशस्य सूर्यमार्गस्योपरि सप्तमाञ्चन्द्रमण्डलादर्वाक् अन्तरमेकविंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य त्रयः सप्तभागा, ततः सप्तमंचन्द्रमण्डलं, तस्माच्च सप्तमाञ्चन्द्रमण्डलात्परतः चतुश्चत्वारिंशता एकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैश्चतुर्भि सप्तभागैः सूर्यमण्डलं, ततो द्विनवतिसक्यैरेकषष्टिभागैश्चतुर्भिश्च एकस्य एकपष्टिभागस्य सत्कैः सप्तभागः न्यूनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं ततः परमस्तीत्यन्येऽपि द्वादश सूर्यमार्गालभ्यन्ते, ततस्तस्मिन्नप्यन्तरे सर्वसङ्कलनया त्रयोदश सूर्यमार्गास्त्रयोशस्य सूर्यमार्गस्य वहिरप्टमाञ्चन्द्रमण्डलादाक्अन्तरं त्रयस्त्रिंशदेकपटिभागाः, ततोऽष्टमंचन्द्रमण्डलं, तस्माच्चाटमाञ्चन्द्रमण्डलात्परतस्त्रयस्त्रिंशता एकपष्टिभागैः सूर्यमण्डलं, ततः एकाशीतिसङ्खचैरेकपष्टिभागैरूनं यथोदितप्रमाणंचन्द्रमण्डलान्तरंपुरतो विद्यते इति ततः पुरतोऽन्येऽपि द्वादश सूर्यमार्गास्ततस्तस्मिन्नप्यन्तरेसर्वसङ्कलनयात्रयोदशसूर्यमार्गास्त्रयोदशाच्च सूर्यमार्गात्पुरतो नवमाञ्चन्द्रमण्डलदर्वागन्तरं चतुश्चत्वारिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy