________________
प्राभृतं १०, प्राभृतप्राभृतं - ११
१५१ अष्टावेकषष्टिभागास्तेऽप्यत्र प्रक्षिप्यन्ते इति जाता एकादश एकषष्टिभागाः, तत इदमागतं द्वादशात्सूर्यमार्गात्परतो द्वितीयाच्चन्द्रमण्डलादाक् द्वे योजने एकादशच एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र योजनद्वानन्तरं सूर्यमण्डलमतो द्वितीयाचन्द्रमण्डलादगिभ्यन्तरं प्रविष्टंसूर्यमण्ड एकादश एकषष्टिभागस्य सत्कान् चतुरःसप्तभागान्, ततःपरंषटशिंत्रदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डलं चन्द्रमण्लसम्मिश्रं, ततः सूर्यमण्डलात्परतोबहिर्विनिर्गतं चन्द्रमण्डलमेकोनविंशतिमेकषष्टिभागानेकस्य चएकषष्टिभागस्य चतुरः सप्तभागान्, ततः परं भूयस्तृतीयस्य चन्द्रमण्डलादर्वाग् यथोक्तपरिमणमन्तरं।
तद्यथा-पञ्चत्रिंशद् योजनानि त्रिंशदेकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, एतावतिचान्तरे द्वादशसूर्यभार्गालभ्यन्ते, उपरिचद्वेयोजनेत्रयश्चैकषष्टिभागा योजनस्य कस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्ततोऽत्र प्रागुक्ता द्वितीयस्य चन्द्रमण्डलस्य सत्काः सूर्यमण्डलाद बहिर्विनिर्गता एकोनविंशतिरेकषष्टिभागा एकस्यचएकषष्टिभागस्य चत्वारः सप्तभागाः प्रक्षिप्यते, ततो जातास्त्रयोविंशतिरेकषष्टिभागा एकस्यच एकषष्टिभागस्य सत्क एकः सप्तभागः, तत इदमायांत-द्वितीयाच्चन्द्रमण्डलात्परतो द्वादश सूर्यमार्गा, द्वादशाच्च सूर्यमार्गात्परतोयोजनद्वयातिक्रमेण सूर्यमण्डलं, तच्च तृतीयाच्चन्द्रमण्डलादगभ्यन्तरं प्रविष्टं त्रयोविंशतिमेकषष्टिभागान् एकं च एकषष्टिभागसत्कं सप्तभागं।
ततःशेषाश्चतुर्विंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्यषट्सप्तभागाः सूर्यमण्डलस्य तृतीयचन्द्रमण्डलसम्मिश्राः ततस्तृतीयं चन्द्रमण्डलं सूर्यमण्डलाबहिर्विनिर्गतमेकत्रिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागं, ततो भूयोऽपि यथोक्तं चन्द्रमण्डलान्तरं तस्मिंश्च द्वादशसूयमार्गालभ्यन्ते, द्वादशस्य सूर्यमार्गस्योपरि द्वेयोजनेत्रय एकषष्टिभागायोजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्ततो येऽत्र तृतीतमण्डलसत्काः सूर्यमण्डलाबहिर्विनिर्गता एकत्रिशदेकषष्टिभागायोजनस्य एकस्यच एकषष्टिभागस्य सत्कएकः सप्तभागस्तेऽत्र प्रक्षिप्यन्ते, ततो जाताश्चतुस्त्रिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागास्ततइदं वस्तुतत्वंजातं-तृतीयाच्चन्द्रमण्डलात्परतो द्वादश सूर्यमार्गा द्वादशाच्च सूर्यमार्गात् परतो योजनद्वयमतिक्रम्य सूर्यमण्डलं तच्चतुर्थाच्चन्द्रमण्डलादर्वाक् अभ्यन्तरं प्रविष्टं चतुस्त्रिंशतमेकषष्टिभागानेकस्य च एकषष्टिभागस्य सत्कान् पञ्च सप्तभागान् ।
ततः शेषं सूर्यमण्डलस्य त्रयोदश एकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कौ द्वौ भागौइति, एतावच्चतुर्थचन्द्रमण्डलसम्मिश्रं, चतुर्थस्य च चन्द्रमण्डलस्य सूर्यमण्डलाबहिर्विनिर्गतं द्विचत्वारिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, ततः पुनरपि यथोदितपरिमाणं चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशस्य च सूर्यमार्गस्योपरि द्वे योजने त्रय एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र चाद्यचतुर्थचन्द्रमण्डलस्य सूर्यमण्डलाद् बहिर्विनिर्गता द्वाचत्वारिंशदेकषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागास्ते अत्र राशौ प्रक्षिप्यन्ते, ततो जाताः षट्चत्वारिंशदेकषटिभागा द्वौ च एकषष्टिभागस्य सत्कौ सप्तभागा, तत एवं वस्तुस्वरूपमवगन्तव्यं-चतुर्थाच्चन्द्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org