SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १५० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/११/५५ विकम्पक्षेत्रकाष्ठादर्शनतोविकम्पपरिमाणं ज्ञातुमिच्छति तंप्रतीयंपूवाचार्योपदर्शिता करणगाथा॥१॥ “सगमंडलेहिं लद्धं सगकट्ठाओ हवंति सविकंपा। जे सगविक्खंभजुया हवंति सगमंडलंतरिया ॥" अस्या अक्षरमात्रगमनिका-ये चन्द्रमसः सूर्यस्य वा विकम्पाः, कथम्भूतास्ते इत्याह'स्वकविष्कम्भयुताः स्वकमण्डलान्तरिकाः स्वस्वमण्डलविष्कम्भपरिमाणसहितस्वस्वमण्ड-लान्तरिकारूपा इत्यर्थः, भवन्ति स्वकाष्ठातः-स्वस्वविकम्पयोग्यक्षेत्रपरिमाणस्य स्वकमण्डलैः-स्वस्वमण्डलसङ्ख्यया भागे हृते यल्लब्धं तावत्परिमाणास्ते स्वविकम्पाः-स्वस्वविकम्पा भवन्ति, तथाहि-सूर्यस्य विकम्पक्षत्रकाष्ठापञ्चयोजनशतानिदशोत्तराणि, तान्येकषष्टिभागकरणाथमेकषष्टया गुण्यन्ते, जातान्येकत्रिंशत्सहस्राणिशतमेकंदशोत्तरं,सूर्यस्य मण्डलानिविकम्पक्षेत्र त्र्यशीत्यधिकंशतं, ततो योजनानयनार्थंत्र्यशीत्यधिकंमण्डलशतमेकषष्टयागुण्यते, जातान्येकादश सहस्राणिशतमेकं त्रिषष्टयधिकं, एतेन पूर्वराशेर्भागो ह्रियते, लब्धेद्वे योजने, शेषमुपरिष्टादुद्धरति सप्ताशीतिशतानि चतुरशीत्यधिकानि, ततः सम्प्रत्येकषष्टिभागा आनेतव्या इत्यधस्तात्छेदराशि यशीत्यधिकंशतं, तेनभागेहृतेलब्धा अष्टाचत्वारिंशदेकषष्टिभागाः,एतावदेकैकस्यसूर्यविकम्पस्य परिमाणं, तथा चन्द्रस्य विकम्पक्षेत्रकाष्ठापञ्च योजनशतानि नवोत्तराणि त्रिपञ्चाशच्चैकषष्टिभागा योजनस्य, तत्र योजनान्येकषष्टिभागकरणार्थं एकषष्ट्या गुण्यन्ते, जातान्येकत्रिंशत्सहस्राणि एकोनपञ्चाशदधिकानि, तत उपरितनास्त्रिपञ्चाशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातान्येकत्रिंशत्सहनाणिशतमेकं द्वयुत्तरं, चन्द्रस्य तुविकम्पक्षेत्रमध्ये मण्डलानि चतुर्दश, ततोयोजनानयनार्थं चतुर्दश एकषष्ट्या गुण्यन्ते, जातान्यष्टौ शतानि चतुःपञ्चाशदधिकानि, तैः पूर्वराशेर्भागो ह्रियते, लब्धानि षटत्रिंशन योजनानि, शेषाणि तिष्ठन्ति त्रीणि शतान्यष्टापञ्चाशदधिकानि, अत ऊर्ध्वं एकषष्टिभागा आनेतव्याः, ततश्चतुर्दशरूपोऽधस्तात् छेदराशि, तेन भागेन हृते लब्धाः पञ्चविंशतिरेकषष्टिभागा, शेषास्तिष्ठन्ति अष्टौ, सप्तभागकरणार्थंसप्तभि-गुण्यन्तेजाताः षट्पञ्चाशत्, तस्याश्चतुर्दशभिर्भागे लब्धाश्चत्वारः सप्तभागाः, एतावत्परिमाण एकैकश्चन्द्रविकम्प इति । तदेवंचन्द्रस्य सूर्यस्य च विकम्पक्षेत्रकाष्ठा चन्द्रमण्डलानां सूर्यमण्डलानांच परस्परमन्तरमुक्तं, सम्प्रति प्रस्तुतमभिधीयते-तत्र सर्वाभ्यन्तरे चन्द्रमण्डले सर्वाभ्यन्तरं सूर्यमण्डलं सर्वात्मना प्रविष्टं, केवलमष्टावेकषष्टिभागाश्चन्द्रमण्डलस्य बहि शेषा वर्तन्ते, चन्द्रमण्डलात् सूर्यमण्डलस्याष्टाभिरेकषष्टिभागैर्हीनत्वात्, ततो द्वितीयाच्चन्द्रमण्डलादर्वागपान्तराले द्वादश सूर्यमार्गा, तथाहि-द्वयोश्चन्द्रमण्डलयोरन्तरं पञ्चत्रिंशत् योजनानि त्रिंशचैकषष्टिभागा योजनस्य एकस्य च एकपष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र योजनायेकषष्टिभागकरणार्थमेकषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनास्त्रशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातान्येकविंशति शतानि पञ्चषष्ट्यधिकानि सूर्यस्य विकम्पो द्वे योजने अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य, तत्र द्वे योजने एकषष्ट्या गुण्येते, जातं द्वाविंशं शतं , तत उपरितना अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य प्रक्षिप्यन्ते जातं सप्तत्यधिकं शतं, तेन पूर्वराशेर्भागो ह्रियते, लब्धा द्वादश, एतावन्तोऽपान्तराले सूर्यमार्गा भवन्ति, शेषं तिष्ठति पञ्चविंशं शतं , तत्र द्वाविंशेन शतेन द्वादशस्य सूर्यमार्गस्योपरि द्वे योजने लब्धे शेषास्तिष्ठन्ति त्रय एकषष्टिभागाः, येऽपि च प्रथमे चन्द्रमण्डले रविमण्डलात् शेषा Jain Education International onal For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy