________________
प्राभृतं १०, प्राभृतप्राभृतं - ११
न्त्यराशिना गुण्यते, जातान्येकत्रिंशत् सहस्राणि शतमेकं दशोत्तरं, तत एतस्य राशेर्योजनानयनार्थमेकषष्टया भागो ह्रियते, लब्धानि पञ्च योजनशतानि दशोत्तराणि, एतावती सूर्यस्य विकम्प क्षेत्रकाष्ठा, चन्द्रमसः पुनर्विक-म्पक्षेत्रकाष्ठा पञ्च योजनशतानि नवोत्तराणि एकस्य च योजनस्य त्रिपञ्चाशकषष्टिभागाः ।
"
1
तथाहि-यदि चन्द्रमस एकेनाहोरात्रेण विकम्पः षट्त्रिंशद्योजनानि एकस्य च योजनस्य पञ्चविंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागा लभ्यन्ते ततश्चतुर्द्दशभिरहोरात्रेः किं लभामहे?, अत्र सवर्णनार्थं प्रथमतः षटत्रिंशतं एकषष्ट्या गुण्यते गुणयित्वा चोपरितनाः पञ्चविंशतिरेकषष्टिभागास्तत्र प्रक्षिप्यन्ते, जातानि द्वाविंशति शतानि एकविंशत्यधिकानि, एतानि सप्तभिर्गुण्यन्ते, गुणयित्वा चोपरितनाश्चत्वारः सप्तभागास्तत्र प्रक्षिप्यन्ते, ततो जातानि पञ्चदश सहस्राणि पञ्च शतान्येकपञ्चाशदधिकानि ततो योजनानयनार्थं छेदराशिरप्येकषष्टिलक्षणः सप्तभिर्गुण्यते, जातानि चत्वारि शतानि सप्तविंश- त्यधिकानि तत उपरितनो राशिश्चतुर्दशभिरन्त्यराशिरूपैर्गुण्यते, ततो जातो द्वे लक्षे सप्तदश सहस्राणि सप्तदशानि चतुर्द्दशाधिकानि, ततश्छेद्यच्छेदकराश्योः सप्तभिरपवर्त्तना, जात उपरितनो राशिरेकत्रिंशत्सहस्राणि शतमेकं द्वयुत्तरं छेदराशिरेकषष्टिस्ततस्तया भागे हते लब्धानि पञ्च योजनशतानि नवोत्तराणि एकस्य च योजनस्य त्रिपञ्चाशदेकषष्टिभागाः एतावती चन्द्रमसो विकम्पक्षेत्रकाष्ठा, सूर्यमण्डलस्य २ च परस्परमन्तरं द्वे द्वे योजने चन्द्रमण्डलस्य चन्द्रण्डलस्य च परस्परं अन्तरं पञ्चत्रिंशद् योजनानि एकस्य च योजनस्य त्रिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः, उक्तं च जम्बूद्वीपप्रज्ञप्तौ - “सूरमंडलस्स णं भंते! सूरमंडलस्स एस णं केवइयं अबाहाए अंतरे पन्नत्ते ?, गोअमा दो जोयणाई सूरमंडलस्स सूरमंडलस्स अबाहाए अंतरे पन्नत्ते" तथा "चंदमंडलस्स णं भंते ! चंदमंडलस्स एस णं केवइए अबाहाए अंतरे पन्नत्ते ?, गोयमा ! पन्नत्तीसे जोयणाई तीसं च एगट्टिभागा जो अणस्स एगं च एगट्ठिभागं सत्तहा छित्ता चत्तारि अचुन्निआ भागा सेसा चंदमंडलस्स अबाहाए अंतरे पन्नत्ते” इति एतदेव च सूर्यमण्डलस्य चन्द्रमण्डलस्य च स्वस्वमण्डल - विष्कम्भपरिमाणयुक्तं सूर्यस्य चन्द्रमसश्च विकम्पपरिमाणमवसेयं, तथा चोक्तम्"सूरविकंपो एक्की समंडला होइ मंडलंतरिया । चंदविकंपो य तहा समंडला मंडलंतरिया ॥”
॥१॥
१४९
अस्या गाथाया अक्षरगमनिका - एकः सूर्यविकम्पो भवति 'मंडलंतरिय 'त्ति अन्तरमेव आन्तर्यं, भेषजादित्वात् स्वार्थे यण, ततः स्त्रत्वविक्षायां डीप्रत्यये आन्तरी आन्तर्येव आन्तरिका मण्डलस्य मण्डलस्वान्तरिका मण्डलान्तरिका 'समंडल' त्ति इह मण्डलशब्देन मण्डलविष्कम्भ उच्यते, परिमाणे परिमाणवत उपचारात्, ततः सह मण्डलेन-मण्डलविष्कम्भपरिमाणेन परिमाणेन वर्तते इति समण्डला, किमुक्तं भवति ? - एकस्य सूर्यमण्डलान्तरस्य यत्परिमाणं योजनद्वयलक्षणं तदेकसूर्यमण्डलविष्कम्भपरिमाणेन अष्टाचत्वारिंशदेकपटिभागलक्षणेन सहितमेकस्य सूर्यमण्डलस्यविकम्पपरिमाणमिति, तथा मण्डलान्तरिकाचन्द्रमण्डलान्तरपरिमाणं पञ्चत्रिंशत् योजनानि एकस्य च योजनस्य त्रिंशदेकषष्टिभागा एकस्य चैकषष्टिभागस्य चत्वारः सप्तभागा इत्येवंरूपं ‘समंडल’त्ति मण्डलविष्कम्भपरिमाणेन सहिता एकश्चन्द्रविकम्पो भवति, यस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org