SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१४/६१ वृ. ‘ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण केन क्रमेणेत्यर्थः, भगवन्! त्वया दिवसा आख्याता इति वदेत्, भगवानाह - 'ता एगमेगस्स ण 'मित्यादि, ता इति पूर्ववत्, एकैकस्य अत्रापान्तरालवर्त्ती मकारोऽलाक्षणिकः, णमिति वाक्यालङ्कारे, पक्षस्य पञ्चदश पञ्चदश दिवसाः प्रज्ञप्ताः वक्ष्यमाणक्रमयुक्ताः, तमेव क्रममाह - 'तंज' त्यादि, तद्यथा - प्रतिपत्प्रथमो दिवसो द्वितीया द्वितीयो दिवसः तृतीया तृतीयो दिवसः एवं यावत्पञ्चदशी पञ्चदशो दिवसः । 'ता एएसि ण' मित्यादि, तत् एतेषां पञ्चदशानां दिवसानां क्रमेण पञ्चदश नामधेयानि प्रज्ञप्तानि, तद्यथामू. (६२) १५६ पुव्वंगे सिद्धमनोरमे य तत्तो मनोरहो (हरो) चेव । जसभद्दे य जसोधर सव्वकामसमिद्धेति य ।। इदं मुद्धाभिसित्ते य सोमनस धनंजए य बोद्धव्वे । अत्थसिद्धे अभिजाते अच्चासणे य सतंजए । मू. (६३) वृ. प्रथमः प्रतिपल्लक्षणः पूर्वाङ्गनामा द्वितीयः सिद्धमनोरमः तृतीयो मनोहरः चतुर्थी यशोभद्रः पञ्चमो यशोधरः षष्ठः सर्वकामसमृद्धः सप्तम इन्द्रमूर्द्धाभिषिक्तः अष्टमः सौमनसः नवमो धनञ्जयः दशमोऽर्थसिद्धः एकादशोऽभिजातः द्वादशोऽत्यशनः त्रयोदशः शतञ्जयः चतुर्द्दशोऽग्निवेश्मा (श्यः) पञ्चदश उपशमः, एतानि दिवसानां क्रमेण नामधेयानि । मू. (६४) अग्गिवेसे उवसमे दिवसाणं नामधेज्जाइं । ता कहं ते रातीओ आहिताति वदेज्जा ता एगमेगस्स णं पक्खस्स पन्नरस राई पन्नत्ताओ, तंजहा- पडिवाराई बिदियाराई जाव पन्नरसा राई, ता एतासि णं पन्नरसण्हं राईणं पन्नरस नामधेज्जा पन्नत्ता, तं० वृ. 'ता कह' मित्यादि, ता इति पूर्ववत्, कथं - केन प्रकारेण केन क्रमेणेत्यर्थः रात्रय आख्याता इति वदेत् ?, भगवानाह - 'ता एगमेगस्स ण' मित्यादि, ता इति प्राग्वत्, एकैकस्य पक्षस्य पञ्चदश पञ्चदश रात्रयः प्रज्ञप्ताः, तद्यथा - प्रतिपत् प्रतिपत्सम्बन्धिनी प्रथमा रात्रि द्वितीयदिवसम्बन्धिनी द्वितीया रात्रि, एवं पञ्चदशदिवसम्बन्धिनी पञ्चदशी रात्रि, एतच्च कर्म्ममासापेक्षया द्रष्टव्यं तत्रैव पक्षे पक्षे परिपूर्णानां पञ्चदशानामहोरात्राणां सम्भवात्, 'ता एएसि ण' मित्यादि, तत्र एतासां पञ्चदशानां रात्रीणां यथाक्रमममूनि पञ्चदश नामधेयानि प्रज्ञप्तानि, तद्यथा मू. (६५) पू. (६६) उत्तमा य सुनक्खत्ता, एलावच्चा जसोधरा । सोमनसा चेव तथा सिरिसंभूता य बोद्धव्वा ।। विजया य विजयंता जयंति अपराजिया य गच्छा य । समाहारा चेव तधा तेया य तहा य अतितेया ।। देवाणंदा निरती रयणीणं नामधेजाई ।। पू. (६७) वृ. प्रथमा प्रतिपत्सम्बन्धिनी रात्रिरुत्तमा- उत्तमनामा द्वितीया सुनक्षत्रा तृतीया एलापत्या चतुर्थी यशोधरा पञ्चमी सौमनसी षष्ठी श्रीसम्भूतासप्तमी विजया अष्टमी वैजयन्ती नवमी जयन्ती दशमी अपराजिता एकादशी इच्छा द्वादशी समाहारा त्रयोदशी तेजा चतुर्दशी अतितेजा पञ्चदशी देवानन्दा, अमूनि क्रमेण रात्रीणां नामधेयानि भवन्ति । Jain Education International प्राभृतं - १० प्राभृतप्राभृतं - १४ समाप्तम् For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy