SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/११/५४ उत्तरतः प्रमईतोयदिवा सूर्यनक्षत्रैर्विरहिततयाअविरहिततया चन्द्रस्य मार्गा-चन्द्रस्यमण्डलगत्या परिभ्रमणरूप मण्डलरूपा वा मार्गा आख्याता इति वदेत्, भगवानाह 'ताएएसिण'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणांमध्येऽस्तीति निपातत्वादार्षत्वाद् सन्ति तानि नक्षत्राणियानिणमितिवाक्यालङ्कारे सदाचन्द्रस्यदक्षिणेन-दक्षिणस्यां दिशि व्यवस्थितानि योगं युञ्जन्ति-कुर्वन्ति, तता सन्ति तानि नक्षत्राणि यानि सदा चन्द्रस्य उत्तरेण-उत्तरस्यां दिशि व्यवस्थितानि योगं युञ्जन्ति, तथा सन्ति तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशिस्थितानि उत्तरस्यामपिदिशिस्थितानियोगंयुञ्जन्ति, प्रमईमपि-प्रमरूपमपि योगं कुर्वन्ति, तथा सन्ति तानि नक्षत्राणियानिचन्द्रस्य दक्षिणस्यामपिदिशि व्यवस्थितानि योगं युञ्जन्ति प्रमरूपमपि योगं युञ्जन्ति, अस्ति तन्नक्षत्रं यत्सदा चन्द्रस्य प्रमरूपं योगं युनक्ति, एवं सामान्येन भगवतोक्तेभगवान् गौतमोविशेषावगमनिमित्तंभूयःप्रश्नयति–'ताएएसिण'मित्यादि, सुगम, भगवानाह–'ता एएसिण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यानि नक्षत्राणि सदा चन्द्रस्य दक्षिणस्यां दिशि व्यवस्थितानि योगं कुर्वन्ति तानि षट्, तद्यथा-मृगशिर आर्द्रा पुष्योऽश्लेषा हस्तो मूलश्च, एतानि हि सर्वाण्यपि पञ्चदशसय चन्द्रमण्डलस्य बहिश्चारं चरन्ति, तथा चोक्तं करणविभावनायां- ‘पन्नरसमस्स चंदमंडलस्स बाहिरओ मिगसिर अद्दा पुस्सो असिलेहा हत्थ मुलो य' जम्बूद्वीप-प्रज्ञप्तावप्युक्तम्॥१॥ “संठाण अद्द पुस्सोऽसिलेस हत्थो तहेव मूलोय। बाहिरओ बाहिरमंडलस्स छप्पे य नक्खत्ता । । ततः सदैव दक्षिणदिग्व्यवस्थितान्येव तानि चन्द्रेण सह योगं युअन्त्युपपद्यन्ते नान्यथेति, तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणांमध्ये यानि तानि नक्षत्राणियानिसदा-सर्वकालंचन्द्रस्योत्तरेणउत्तरस्यां दिशि व्यवस्थितानि योग युजन्ति-कुर्वन्ति तानि द्वादश, तद्यथा-'अभिई'इत्यादि, एतानि हिद्वादशापिनक्षत्राणिसर्वाभ्यन्तरे चन्द्रमण्डलेचारंचरन्ति, तथा चोक्तंकरणविभावनायां _ “से पढमे सव्वब्भंतरे चंदमंडले नक्खत्ता इमे, तंजहा-अभिईसवणो धणिट्ठा सयभिसया पुव्वभद्दवया उत्तरभद्दवया रेवई अस्सिणी भरणी पुव्वफग्गुणी उत्तरफग्गुणी साई" इति, यदा चैतैः सह चन्द्रस्य योगस्तदा स्वभावाच्चन्द्रः शेषेष्वेव मण्डलेषु वर्तते, ततः सदैवैतान्युत्तरदिग्व्यवस्थितान्येव चन्द्रमसा सह योगमुपयन्तीति, तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि व्यवस्थितानि योगं युञ्जन्ति उत्तरस्यामपि दिशि व्यवस्थितानि योगंयुञ्जन्ति प्रम रूपमपियोगंयुञ्जन्ति तानि सप्त, तद्यथा-कृत्तिका रोहिणी पुनर्वसुमघा चित्राविशाखा अनुराधा, केचित् पुनज्येष्ठानक्षत्रमपि दक्षिणोत्तरप्रमईयोगि मन्यन्ते, तथा चोक्तं लोकश्रियाम्-'पुणव्वसु रोहिणिचित्तामहजे?णुराह कत्तिय विसाहा'। चंदस्स उभय- जोगी'त्ति, अत्र 'उभयजोगि'त्ति व्याख्यानयता टीकाकृतोक्तं-एतानि नक्षत्राणि उभययोगीनि-चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते, कदाचिद् भेदमप्युपयान्तीति, तच्च वक्ष्यमाणज्येष्ठासूत्रेण सह विरोधीति न प्रमाणं, तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणां मध्ये येते नक्षत्रे ये सदाचन्द्रस्यदक्षिणेनापि-दक्षिणस्यामपि दिशि व्यवस्थितेयोगंयुक्तः,प्रमईच-प्रमईरूपं च योगंयुक्तः, तेणमिति वाक्यालङ्कारे, द्वेआषाढे पूर्वाषाढोत्तराषाढारूपे, ते हि प्रत्येकंचतुस्तारे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy