SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१०/५३ कुर्मः, तत्राष्टौ यवा अङ्गुले इति ते सप्त अष्टभिर्गुण्यन्ते, जाताः षट्पञ्चाशत् , तस्या एकत्रिंशता भागे हृतेलब्धएकोयवः,शेषास्तिष्ठन्ति यवस्यपञ्चविंशतिरेकत्रिंशद्भागाः,आगतंपञ्चाशीतितमे पर्वणिपञ्चम्यांत्रीणि पदानि सप्त अङ्गुलानिएको यव एकस्यच यवस्यपञ्चविंशतिरेकत्रिंशद्भागा इत्येतावती पौरुषीति। तथाऽपरः कोऽपि पृच्छति-सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी?, तत्र षन्नवतिर्धियते, तस्याश्चाधस्तात् पञ्च, षन्नवतिश्च पञ्चदशभिर्गुण्यते, जातानि चतर्दश शतानि चत्वारिंशदधिकानि, तेषां मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते, जातानि चतुर्दश शतानि पञ्चचत्वारिंशदधिकानि , तेषां षडशीत्यधिकेन शतेन भागो ह्रियते, लब्धानि सप्त अयनानि, शेषं तिष्ठति त्रिचत्वारिंशदधिकंशतं, तत्चतुर्भिर्गुण्यते,जातानिपञ्च शतानिद्विसप्तत्यधिकानि, तेषामेकत्रिंशता भागो ह्रियते, लब्धान्यष्टादशाङ्गुलानि , तेषां मध्ये द्वादशभिरङ्गुलैः पदमिति लब्धमेकं पदं षट् अङ्गुलानि, उपरिचांशा उद्धरन्ति चतुर्दश, ते यवानयनार्थमष्टभिर्गुण्यन्ते, जातं द्वादशोत्तरं शतं, तस्यैकत्रिंशता भागे हृते लब्धास्त्रयो यवाः, शेषास्तिष्ठन्ति यवस्य एकोनविंशतिरेकत्रिंशद्भागाः, सप्त चायनान्यतिक्रन्तानि अष्टमं वर्तते, अष्टमंचायनमुत्तरायणं, उत्तरायणे च पदचतुष्टयरूपात् ध्रुवराशेर्हानिर्वक्तव्या तत एकं पदं सप्त अङ्गुलानि त्रयो यवा एकस्य च यवस्य एकोनविंशतिरेकत्रिंशद्भागा इति पदचतुष्टयात्पात्यते, शेषं तिष्ठति द्वे पदे पञ्चाङ्गुलानि चत्वारो यवा एकस्य च यवस्य द्वादश एकत्रिंशद्भागाः, एतावती युगे आदित आरभ्य सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ पौरुषीति, एवं सर्वत्र भावनीयं। सम्प्रति पौरुषीपरिमाणतोऽयनगतपरिमाणज्ञापनार्थमियं करणगाथा-'वुड्डी वे'त्यादि, पौरुष्यां यावती वृद्धिर्हानिर्वा दृष्टा ततः सकाशाद् दिवसगतेन प्रवर्त्तमानेन वा त्रैराशिककर्मानुसारणतो यत् लब्धं तत् अयनगतं-अयनस्य तावत्प्रमाणं गतं वेदितव्यं, एष करणगाथाक्षरार्थ भावना त्वयम्-तत्र दक्षिणायने पदद्वयस्योपरि चत्वारि अङ्गुलानि वृद्धौ द्दष्टानि, ततः कोऽपि पृच्छति-कियद् गतं दक्षिणायनस्य?, अत्र त्रैराशिककर्मावतारो-यदि चतुर्भिरङ्गुलस्य एकत्रिंशदभागैरेका तिथिर्लभ्यतेततश्चतुर्भिरङ्गुलैः कति तिथीलभामहे?,अत्रान्त्योराशिरङ्गुलरूप एकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते जातं चतुर्विंशत्यधिकं शतं, तेन मध्यो राशिगुण्यते, जातंतदेव चतुर्विशत्यधिकं शतं, एकगुणनेतदेव भवती तिवचनातू, तस्य चतुष्करूपेणादिराशिना भागो ह्रियते, लब्धा एकत्रिंशत्तिथयः, आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरङ्गुला पौरुष्यां वृद्धिरिति। ___तथाउत्तरायणेपदचतुष्टयादगुलाष्टकंहीनं पौरुष्यामुपलभ्यकोऽपिपृच्छति-किंगतमुत्तरायणस्य?,अत्रापि त्रैराशिकांयदि चतुर्भिरङ्गुलस्य एकत्रिंशद्भागैरेका तिथिर्लभ्यते ततोऽष्टभिरजुलैीनैः कति तिथयो लभ्यन्ते?, अत्रान्त्यो राशिरेक-त्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते, जाते द्वे शते अष्टाचत्वारिंशदधिके, ताभ्यां मध्यो राशिरेककरूपो गुण्यते, जाते ते एव द्वे शते अष्टाचत्वारिंशदधिके, तयोराधेन राशिनाचतुष्करूपेण भागहरणं, लब्धा द्वाषष्टि,आगतमुत्तरायणे द्वाषष्टितमायां तिथौ अष्टावगुलानि पौरुष्यां हीनानीति। 'तस्सिंचणं मासंसि वट्टाए'इत्यादि, तस्मिन्नाषाढे मासे प्रकाश्यस्य वस्तुनो वृत्तस्य वृत्तया Jain Education International For Private & Personal Use Only www.jainelibrary.org www
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy