________________
प्राभृतं १०, प्राभृतप्राभृतं-१०
१४३ धिकशतरूपेणभागो ह्रियते, तत्रोपरित-नराशेः स्तोकत्वाद्भागोनलभ्यते, ततःछेद्यच्छेदकराश्योः षट्केनापवर्तना, जात उपरितनो राशिश्चतुष्करूपोऽधस्तन एकत्रिंशत्, लब्धमेकस्यांतिथौचत्वार एकत्रिंशद्भागाः क्षये वृद्धौ वेति चतुष्को गुणकार उक्त एकत्रिंशद् भागहार इति, इह यल्लब्ध तान्यङ्गुलानि क्षये वृद्धौ वा ज्ञातव्यानि इत्युक्तं, तत्र कस्मिन्नयने कियप्रमाणं ध्रुवराशेरुपरि वृद्धौ कस्मिन् वा अयने किंप्रमाणं ध्रुवराशेः क्षये इत्येतन्निरूपणार्थमाह
___ 'दकिखिणवुड्डी' इत्यादि, दक्षिणायने द्विपदात्-पदद्वयस्योपरि अङ्गुलानां वृद्धिातव्या, उत्तरायणे चतुभ्यः पादेभ्यः सकाशादङ्गुलानां हानि, तत्र युग मध्ये प्रथमे संवत्सरे दक्षिणायने यतो दिवसादारभ्य वृद्धिस्तन्निरूपयति- 'सावणे' त्यादि गाथाद्वयं, युगस्य प्रथमे संवत्सरे श्रावणे मासि बहुलपक्षेप्रतिपदि पौरुषी द्विपदा-पदद्वयप्रमाणाध्रुवा भवति, ततस्तस्याः प्रतिपदआरभ्य प्रतितिथिक्रमेण तावद्वर्द्धतेयावत्मासेन-सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन चन्द्रमासापेक्षया एकत्रिंशत्तिथिभिरित्यर्थ, चत्वारि अङ्गुलानि वर्द्धन्ते, कथमेतदवसीयते यथा मासेन-सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन एकत्रिंशत्तिथयात्मकेनेत्यत आह___ “एकतीसे'त्यादि, यत एकस्यां तिथौ चत्वार एकत्रिंशद्भागा वर्द्धन्ते, एतच्च प्रागेवभावितं, परिपूर्णेतु दक्षिणायने वृद्धिपरिपूर्णानिचत्वारि पदानि, ततो मासेन सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन एकत्रिंशत्तिथ्यात्मकेनेत्युक्तं, तदेवमुक्ता वृद्धि । सम्प्रति हानिमाह- 'उत्तरे'त्यादि, युगस्य प्रथमे संवत्सरे मघमासे बहुलपक्षे सप्तम्या आरभ्य चतुभ्यः पादेभ्य-सकाशात् प्रतितिथि एकत्रिंशद्भागचतुष्टयहानिस्तावदवसेया यावदुत्तरायणपर्यन्ते द्वौ पादौ पौरुषीति, एष प्रथमसंवत्सरगतो विधि, द्वितीये संवत्सरे श्रावणे मासि बहुलपक्षे त्रयोदशीमादौ कृत्वा वृद्धि, माघमासे शुक्लपक्षे चतुर्थीमादिं कृत्वा क्षयः, तृतीयसंवत्सरे श्रावणे मासे शुक्ले पक्षे दशमी वृद्ध रादि, माघमासे बहुलपक्षे प्रतिपत् क्षयस्यादि, चतुर्थे संवत्सरे श्रावणमासे बहुलपक्षे सप्तमी।
वृद्धेरादि, माघमासे बहुलपक्षेत्रयोदशी क्षयस्यादि, पञ्चमे संवत्सरे श्रावणे मासे शुक्लपक्षे चतुर्थी वृद्धेरादि, माघमासे शुक्लपक्षे दशमी क्षयस्यादि, एतच्च करणगाथानुपात्तमपि पूर्वाचार्यप्रदर्शितव्याख्यानदवसितं, सम्प्रत्युपसंहारमाह- ‘एवंतु', एवम्-उक्तेनप्रकारेणपौरुष्यां-पौरुषीविषये वृद्धिक्षयौ यथाक्रमंदक्षिणायनेषूत्तरायणेषु वेदितव्यौ, तदेवमक्षरार्थमधिकृत्य व्याख्याताः करणगाथाः, सम्प्रत्यस्य करणस्य भावना क्रियते-कोऽपि पृच्छति-युगे आदित आरभ्य पञ्चाशीतितमेपर्वणि पञ्चम्यां तिथौ कतिपदापौरुषीभवति?, तत्र चतुरशीतिर्धियते, तस्याश्चाधस्तात् पञ्चम्यांतिथौ पृष्टमिति पञ्च, चतुरशीतिश्च पञ्चदशभिर्गुण्यतेजातानि द्वादशशतानिषष्ठयधिकानि, एतेषु मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते, जातानि द्वादश शतानि पञ्चषष्ट्यधिकानि, तेषां षडशीत्यधिकेन शतेन भागो ह्रियते, लब्धाः षट्, आगतं षट् अयनान्यतिक्रान्तानि सप्तममयनं वर्तते, तद्गतंच शेषमेकोनपञ्चाशदधिकंशतं तिष्ठति, ततश्चतुर्भिर्गुण्यते, जातानिपञ्चशतानिषन्नवत्यधिकानि, तेषामेकत्रिंशता भागहरणेलब्धा एकोनविंशति, शेषास्तिष्ठन्ति सप्त, तत्र द्वादशाङ्गुलानि पाद इत्येकोनविंशतेादशभि पदं लब्धं, शेषाणि तिष्ठन्ति सप्त अङ्कलानि, षष्ठं चायनमत्तरायणं तद् गतंसप्तमंतुदक्षिणायनं वर्तते, ततः पदमेकं सप्त अङ्गुलानि पदद्वयप्रमाणे ध्रुवराशौ प्रक्षिप्यन्ते, जातानि त्रीणि पदानि सप्त अङ्गुलानि, ये च सप्त एकत्रिंशद्भागाः शेषीभूता वर्तन्ते तान् यवान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org