________________
१४२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१०/५३ ॥१॥ "पव्वे पन्नरसगुणे तिहि सहिए पोरिसीए आणयणे ।
छलसीयसयविभत्तेजं लद्धं तं वियाणाहि ।। ॥२॥ जइ होइ विसमलद्धं दक्षिणमयणं ठविज नायव्वं ।
अह हवइ समं लद्धं नायव्वं उत्तरं अयणं । अयणगए तिहिरासी चतुग्गुणे पव्वपाय भइयव्वं ।
जंलद्धमंगुलाणिखयवुड्डी पोरुसीए उ॥ ॥४॥ दखिणवुड्डी दुपया अंगुलयाणं तु होइ नायव्वा ।
उत्तर अयणे हामी कायव्वा चउहिं पाएहिं॥ सावणबहुलपडिवया दुपया पुण पोरिसी धुवा होइ।
__चत्तारि अंगुलाई मासेणं वड्डए तत्तो।। ॥६॥ इक्कत्तीसइ भागा तिहिए पुण अंगुलस्स चत्तारि।
दक्खिणअयने वुड्डी जाव उचत्तारि उपयाई। ॥७॥ उत्तर अयने हाणी चउहिं पायाहि जाव दो पाया।
एवं तु पोरिसीए बुड्डिखया हुंति नायव्वा॥ . ॥८॥ वुड्डी वा हाणी वा जावइया पोरिसीए दिट्ठा उ।
तत्तो दिवसगएणं जंलद्धं तं खु अयनगयं॥ एतासांक्रमेण व्याख्या-युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ पौरुषीपरिमाणं ज्ञातुमिष्यते ततः पूर्वं युगादित आरभ्य यानि पण्यितिक्रान्तानि तानि ध्रियन्ते, धृत्वा च पञ्चदशभिर्गुण्यन्ते, गुणयित्वा च विवक्षितायास्तिथैर्या प्रागतिक्रन्तास्तिथयस्ताभि सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो ह्रियते, इह एकस्मिन्नयने त्र्यशीत्यधिकमण्डलशतपरिमाणे चन्द्रनिष्पादितानां तिथीनां षडशीत्यधिकं शतं भवति, ततस्तेन भागहरणं भागे च हृते यल्लब्धं तद्विजानीहि सम्यगवधारयेत्यर्थः । तत्र यदि लब्धं विषमं भवति यथा एकस्त्रिकः पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवतिं दक्षिणमयनं ज्ञातव्यं, अथ भवति लब्धं समंतद्यथा-द्विकश्चतुष्कः षट्कोऽटको दशको वा तदा तत्पर्यन्तवर्ति उत्तरयणमवसेयं, तदेवमुक्तो दक्षिणायनोत्तरायणपरिज्ञानोपायः । सम्प्रति षड-शीत्यधिकेन शतेन भागे हृते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन यच्छेषं तिष्ठति तद्गतविधिमाह
_ 'अयनगए' इत्यादि, यः पूर्वं भागे हृते भागासम्भवे वा शेषीभूतोऽयनगतस्तिथिराशिर्वर्त्तते स चतुर्भिर्गुण्यते, गुणयित्वा च पर्वपादेनयुगमध्ये यानि सर्वसङ्ख्या पर्वाणि चतुर्विंशत्यधिकशतसङ्ख्यानि तेषां पादेन-चतुर्थेनांशेन एकत्रिंशता इत्यर्थः, तया भागे हृते यल्लब्धं तान्यङ्गुलानि चकारादमुलांशाश्च पौरुष्याःक्षयवृद्धया ज्ञातव्यानि, दक्षिणायने पदध्रुवराशेरुपरिवृद्धौज्ञातव्यानि, उत्तरायणेपदध्रुवराशेः क्षयेज्ञातव्यानीत्यर्थ, अथैवंभूतस्य गुणकारस्य भागहारस्य वा कथमुत्पत्ति?, उच्यते, यदि षडशीत्यधिकेन तिथिशतेन चतुर्विंशतिरङ्गुलानिक्षये वृद्धौ वाप्राप्यन्ते, तत एकस्यां तिथौ का वृद्धि क्षयो वा?, अत्रान्त्येन राशिनाएकलक्षणेन मध्यमो राशिश्चतुर्विंशतिरूपो गुण्यते, जातः स तावानेव, ‘एकेन गुणितं तदेव भवतीति वचनात्, तत आद्येन राशिना षडशीत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org