________________
प्राभृतं १०, प्राभृतप्राभृतं -१०
१४१ तंसि चणं मासंसि वट्टाए समचउरंससंठिताए नग्गोधपरिमंडलाए सकायमणुरंगिणीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाइं दो पदाइंपोरिसीए भवति।
वृ.'ता कहं ते नेताआहियत्तिवएजा' 'ता' इतिपूर्ववत्, कथं?-केनप्रकारेण भगवंस्तेत्वया स्वयमस्तंगमनेनाहोरात्रपरिसमापको नक्षत्ररूपो नेता आख्यात इति वदेत् ?, एतदेव प्रतिमासं पिपृच्छिषुराह-‘ता वासाण'मित्यादि, ता इतिपूर्ववत् वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथमं मासं श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयन्ति-गमयन्ति?, भगवानाह___ता चत्तारी'त्यादि, ता इतिपूर्ववत्, चत्वारि नक्षत्राणिस्वयमस्तंगमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति, तद्यथा-उत्तरासाढा अभिजित् श्रवणो धनिष्ठा च, तत्रोत्तराषाढाप्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तंगमनेनाहोरिपरिसमापकतया नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रान्नयति, ततः परं श्रवणनक्षत्रमष्टौ अहोरात्रान्नयति, एवं च सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गताः, ततः परंश्रावणमासस्यसम्बन्धिनं चरममेकमहोरात्रंधनिष्ठानक्षत्रं स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति, एवं चत्वारि नक्षत्राणि श्रावण मासं नयन्ति ।
'तस्सिंच न'मित्यादि, तस्मिंश्च श्रावणे मासे चतुरङ्गुलपौरुष्या-चतुरङ्गुलाधिकपौरुष्या छायया सूर्योऽनु-प्रतिदिवसं परावर्तते, किमुक्तं भवति?-श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसङ्क्रान्त्या तथा कथञ्चनापि परावर्तते यथा तस्य श्रावणमासस्यपर्यन्ते चतुरङ्गुलाधिका द्विपदा पौरुषी भवति, तदेवाह-'तस्स ण'मित्यादि, तस्य श्रावणमासस्य चरमे दिवसे द्वे पदे चत्वारि चाङ्गुलानि पौरुषी भवति । 'ता वासाण'मित्यादि, ता इति पूर्ववत् वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य द्वितीयं भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति?, अस्य वाक्यस्य भावार्थ प्रागवद्भावनीयः, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत्, चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदाच, तत्र धनिष्ठा तस्मिन् भाद्रपदे मासे प्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति, तदनन्तरंशतभिषकनक्षत्रंसप्ताहोरात्रान्ततः परमष्टावहोरात्रान पूर्वप्रोष्ठापदातदनन्तरमेकमहोरात्रमुत्तरप्रोष्ठपदा, एवमेनं भाद्रपदं मासं चत्वारि नक्षत्राणि नयन्ति ।।
'तस्सिं च णमित्यादि, तस्मिंश्चणमिति वाक्यालङ्कारे, मासे भाद्रपदे अष्टाङ्गुलपौरुष्याअष्टाङ्गुलाधिकपौरुष्याछायया सूर्योऽनु-प्रतिदिवसंपरावर्त्तते, अत्राप्ययं भावार्थ-भाद्रपदे मासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसङ्कान्त्या तथा कथमपि परावर्त्तते यथा तस्य भाद्रपदस्य मासस्यान्ते अष्टाङ्गुलिका पौरुषी भवति, एतदेवाह- 'तस्स णं सुगमं, एवं शेषमासगतान्यपि सूत्राणि भावनीयानि, नवरं 'लेहत्थाई तिन्नि पयाइ'न्ति रेखा-पादपर्यन्तवार्त्तिनी सीमा तत्स्थानि त्रीणि पदानि पौरुषी भवति, किमुक्तंभवति?-परिपूर्णानि त्रीणि पदानि पौरुषी भवति, एषा चतुरङ्गुला प्रतिमासं वृद्धिस्तावदवसेयायावत्पौषोमासः, तदनन्तरं प्रतिमासंचतुरङ्गुला हानिर्वक्तव्या, सा च तावत् यावदाषाढो मासः, तेनाषाढपर्यन्ते द्विपदा पौरुषी भवति, इदं च पौरुषीपरिमाणं व्यवहारत उक्तं, निश्चयतः सा.स्त्रिंशता अहोरात्रैश्चतुरङ्गुला वृद्धिर्हानिर्वा वेदितव्या, तथा च निश्चयतः पौरुषीपरिमाणप्रतिपादनार्थमिमाः करणगाथाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org