________________
१३४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ एतदपि व्यवहारतो, निश्चयतःपुनरमूनित्रीणि नक्षत्राणि चैत्रीममावास्यांपरि०, तद्यथा-पूर्वभद्रपदा उत्तरभद्रपदारेवतीच, तत्र प्रथमांचैत्रीममावास्या-मुत्तरभदरपदानक्षत्रंसप्तविंशतौ मुहूर्तेष्वेकस्य चमुहूर्तस्यषटत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य दशसु सप्तषष्टिभागेषुगतेषु, द्वितीयां चैत्रीममावास्यामुत्तर- भद्रपदानक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य नवसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टिभागेषु गतेषु, तृतीयां चैत्रीममावास्यां रेवतीनक्षत्रं पञ्चसुमुहूर्तेषुएखस्य च मुहूर्तस्यैकोनपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य सप्तत्रिंशति सप्तषष्टिभागेष्वतिक्रन्तेषु, चतुर्थीचैत्रीममावास्यामुत्तरभद्रपदानक्षत्रं त्रयोविंशतौ मुहूर्तेषुएकस्य च मुहूर्तस्य द्वाविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चाशति सप्तषष्टिभागेषु गतेषु , पञ्चमी चैत्रीममावास्यां पूर्वभद्रपदानक्षत्रं सप्तविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेष्वतिक्रन्तेषु परिसमापयति। _ 'वइसाही भरणी कत्तिया य'त्ति,-'ता वइसाहिन्नं अमावासंकइ नक्खत्ता जोएन्ति?, ता दोन्नि नक्खत्ता जोएंति, तंजहा-'भरणी कत्तिया य"त्ति, एतदपि व्यवहारतो, निश्चयतः पुनस्त्रीणि नक्षत्राणि वैशाखीममावास्यां परिसमापयन्ति, तानिचामूनि-तद्यथा-रेवती अश्विनी भरणी च, तत्र प्रथमां शाखीममावास्यामश्विनीनक्षत्रमष्टाविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य एकचत्वारिंशति द्वाषष्टिभागेषुएकस्य च द्वाषष्टिभागस्यैकादशसुसप्तषष्टिभागेषु गतेषु, द्वितीयां वैशाखीममावास्यांअश्विनीनक्षत्रं द्वयोर्मुहूर्तयोरेकस्य चमुहूर्तस्यैकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टिभागेषु व्यतिक्रान्तेषु, तृतीयां वैशाखीममावास्यां भरणीनक्षत्रमेकादशसु मुहूर्तेषु एखस्य च मुहूर्तस्य चतुःपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टात्रिंशतिसप्तषष्टिभागेषुगतेषु, चतुर्थी वैशाखीममावास्यामश्विनीनक्षत्रंपञ्चदशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकपञ्चाशति सप्तषष्टिभागेषु गतेषु , पञ्चमी वैशाखीममावास्यां रेवतीनक्षत्रमेकोनविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सम्बन्धिनो द्वाषष्टिभागस्य सत्केषु चतुःषष्टौ सप्तषष्टिभागेषु परि०।
“जिट्ठामूलिं रोहिणी मिगसिरंच'त्ति, ‘ताजेट्ठामूलिन्नं अमावासं कइ नक्खत्ताजोएंति? ता दोन्नि नक्खत्ता जोएंति, तंजहा-रोहिणी मिगसिरो यत्ति, एतदपि व्यवहारतः, निश्चयतः पुनर्के नक्षत्रे ज्येष्ठामूलीममावास्यां परिसमापयतः, तद्यथा-रोहिणी कृत्तिका च, तत्र प्रथमां ज्येष्ठामूलाममावास्यां रोहिणीनक्षत्रमेकोनविंशतौ मुहूर्तेष्वेकस्य मुहूर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वापटिभागस्य द्वादशसु सप्तषष्टिभागेषुगतेषु, द्वितीयांज्येष्ठामूलीममावास्यां कृत्तिकानक्षत्रं त्रयोविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चविंशतौ सप्तषष्टिभागेष्वतिक्रान्तेषु, तृतीयांज्येष्ठामूलीममावास्यां रोहिणीनक्षत्रं द्वात्रिंशतिमुहूर्तेष्वेकस्य मुहूर्तस्यैकोनषष्टौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकोनचत्वारिंशति सप्तषष्टिभागेषु समतिक्रान्तेषु, चतुर्थी ज्येष्ठामूलीममावास्यां रोहिणीनक्षत्रं षट्सु मुहूर्तेष्वेकस्य च मुहूर्तस्य द्वात्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु पञ्चमी ज्येष्ठामूलीममावास्यां कृत्तिकानक्षत्रं दशसु मुहूर्तेषु एकस्य मुहूर्तस्य पञ्चसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चषष्टौ सप्तषष्टिभागेषु गतेषु परि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org