________________
१३३
प्राभृतं १०, प्राभृतप्राभृतं -६ पौपीममावास्यां पूर्वाषाढानक्षत्रं द्वयोर्मुहूर्तयोरेकस्य च मुहूर्तस्यैकोनविंशत द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकोनविंशतौसप्तषष्टिभागेष्वतिक्रन्तेषुतृतीयामधिकमासभाविनी पौषीममावास्यामुत्तराषाढानक्षत्रमेकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्यैकोनषष्टौ द्वाषष्टिभागेषु एकस्य च द्वाषप्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषुगतेषु, चतुर्थी पौषीममावास्यांपूर्वाषाढानक्षत्रंपञ्चदशसु मुहूर्तेषु एकस्य च मुहूत्तस्य षटपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषुगतेषु, पञ्चमी पौषीममावास्यांमूलनक्षत्रमेकोनविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चसु द्वाषप्टिभागेष्वेकस्यच द्वाषप्टिभागस्यैकोनषष्टौ सप्तषष्टिभागेष्वतिक्रन्तेषु परिसमापयति।
‘माहिं तिन्नि अभीईसवणोधणिट्ठा' इति, अत्राप्येवंसूत्रालापकः-'ता माहिन्नंअमावासं कइनक्खत्ता जोएंति?, ता तिन्नि नक्खत्ता जोएंति, तंजहा-अभिई सवणो धणिट्ठा य एतदपि व्यवहारतो, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि माघीममावास्यां परिसमापयन्ति, तद्यथाउत्तराषाढा अभिजित् श्रवणश्च, तथाहि-प्रथमांमाघीममावास्यां श्रवणनक्षत्रंदशसुमुहूर्तेष्वेकस्य चमुहूर्त्तस्य षड्विशतौ द्वाषष्टिभागेष्वेकस्य द्वाषप्टिभागस्याष्टसु सप्तषष्टिभागेषु गतेषु, द्वितीयां माघीममावास्यामभिजिन्नक्षत्रं त्रिषुमुहूर्तेष्वेकस्य च मुहूर्तस्य षड्विशतौ द्वाषष्टिभागेष्वेकस्यच द्वापष्टिभागस्य विंशतौ सप्तषष्टिभागेषु गतेषु, तृतीयां माधीममावास्यां श्रवणनक्षत्रंत्रयोविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्यैकोन चत्वारिंशति द्वाषष्टि-भागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चविंशति सप्तषष्टिभागेषु गतेषु , चतर्थी माघीममावास्यां अभिजिन्नक्षत्रं षट्सु मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु व्यतिक्रन्तेषु, पञ्चमी माघीम- मावास्यामुत्तराषाढानक्षत्रं पञ्चविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य दशसु द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु गतेषु परिसमापयति ।
‘फग्गुणी दोन्नितंजहा-सयभिसया पुव्वभद्दवय'त्ति, अत्राप्येवं सूत्रालापकः- “ता फग्गुणी णंअमावासंकइनक्खत्ता जोएंति?, तादोन्निनक्खत्ताजोएंति, तंजहा-सयभिसयापुव्वभद्दवया य, एतदपि व्यवहारतो, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि फाल्गुनीममावास्यांपरिसमापयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा च, तत्र प्रथमां फाल्गुनीममावास्यां पूर्वभद्रपदानक्षत्रं षट्सु मुहूर्तेष्वेकस्य च मुहूर्तस्यैकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागसय नवसु सप्तषष्टिभागेषुगतेषु, द्वितीयांफाल्गुनीममावास्यां धनिष्ठानक्षत्रं विंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुषु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु व्यतिक्रान्तेषु, तृतीया फाल्गुनीममावास्यां पूर्वापाढानक्षत्रं चतुर्दशसु मुहूर्तेप्वेकस्य च मुहूर्तस्य चतुश्चत्वारिंशति द्वापष्टिभागेष्वेकसय च द्वाषष्टिभागस्य पटत्रिंशति सप्तषष्टिभागेषु गतेषु, चतुर्थी फाल्गुनीममावास्यां शतभिषक् नक्षत्रं त्रिषु मुहूर्तेष्वेकस्य च मुहुर्तस्य सप्दशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभास्य एकोनपञ्चाशति सप्तषष्टिभागेषु गतेषु, पञ्चमी फाल्गुनीममावास्यां धनिष्ठानक्षत्रं षट्सु मुहूर्तेषु एकस्य च मुहूर्तस्य द्विपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यसत्केषुद्वाषष्टौ सप्तषष्टिभागेषु गतेषु परिणमयति । ___'चित्तिं तिन्नि, तंजहा-उत्तरभद्दवया रेवती अस्सिणी य'त्ति० -'ता चित्तिनं अमावासं कइ नक्खत्ता जोएंति?, ता तिन्नि नक्खत्ता जोएंति, तंहा-उत्तरभद्दवया रेवई अस्सिणी य'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org