________________
१३५
प्राभृतं १०, प्राभृतप्राभृतं -६
'ता आसाढीन'मित्यादि, ता इति पूर्ववत्, आसाढीणमिति वाक्यालङ्कारे, कति नक्षत्राणि युञ्जन्ति?, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्च, एतदपिव्यवहारत उक्तं, परमार्थतः पुनरमूनि त्रीणिनक्षत्राणि आषाढीममावास्यां परिणमयन्ति, तद्यथा-मृगशिरआर्द्रापुनर्वसुश्च, तत्र प्रथमामाषाढीममावास्यामार्दानक्षत्रंद्वादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य एकपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तषष्टिभागेषुगतेषुद्वितीयामाषाढीममावास्यांमृगशिरोनक्षत्रंचतुर्दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुर्विंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षड्विशतौ सप्तषष्टिभागेष्वतिक्रान्तेषु तृतीयामाषाढीममावास्यांपुनर्वसुनक्षत्रनवसुमुहूर्तेष्वेकस्य चमुहूर्तस्य द्वयोषिष्टिभागयोरेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु गतेषु चतुर्थीमाषाढीममावास्यां मृगशिरोनक्षत्रं सप्तविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तत्रिंशतिद्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशति सप्तषष्टिभागेषु गतेषु पञ्चमीमाषाढीममावास्यांपुनर्वसुनक्षत्रं द्वाविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य षोडशसु द्वाषष्टिभागेषु समतिक्रान्तेषु परिस० । तदेवं द्वादशानामप्यमावास्यानां चन्द्रयोगोपेतनक्षत्रविधिरुक्तः। सम्प्रत्येतासामेव कुलादियोजनामाह___ता साविठ्ठिन्न'मित्यादि, ता इति पूर्ववत्, श्राविष्ठी-श्रावणमासभाविनीममावास्यां किं कुलंयुनक्ति उपकुलं वायुनक्ति कुलोपकुलं वायुनक्ति?, भगवानाह-'कुलं वे'त्यादि, कुलमपि युनक्ति, वासब्दोऽपिशब्दार्थः, उपकुलं वा युनक्ति, न लभते योगमधिकृत्य कुलोपकुलं, तत्र कुलं-कुलसंज्ञं नक्षत्रं श्राविष्ठीममावास्यां युञ्जत् मघानक्षत्रं युनक्ति, एतद् व्यवहारत उच्यते, व्यवहारतो हि गतायामप्यमावास्यायां वर्तमानायामपिच प्रतिपदि योऽहोरात्रो मूलेऽमावस्यया सम्बद्धः स सकलोऽप्यहोरात्रोऽमावास्येति व्यवहियते, तत एवं व्यवहारतः श्राविष्ठयामप्यमावास्यायां मघानक्षत्रसम्भवादुक्तं कुलंयुञ्जन्मघानक्षत्रंयुनक्तीति, परमार्थतः पुनः कुलं युञत्पुष्यनक्षत्रं युनक्तीति प्रतिपत्तव्यं, तस्यैव कुलप्रसिद्धया प्रसिद्धस्य श्राविष्ठयाममावास्यायां सम्भवात्, एतच्च प्रागेवोक्तम्, उत्तरसूत्रमपि व्यवहारनयमधिकृत्य यथायोगं परिभावनीयमिति, उपकुलं युञ्जत् अश्लेषानक्षत्रं युनक्ति, सम्प्रत्युपसंहारमाह- ‘ता साविट्ठिन्न मित्यादि, यत उक्तप्रकारेण द्वाभ्यां कुलोपकुलाभ्यां श्राविष्ठयाममावास्यायांचन्द्रयोगः समस्ति नतु कुलोपकुलेन ततः श्राविष्ठीममावास्यां कुलमपि वाशब्दोऽपिशब्दार्थः युनक्ति उपकुलं वा युनक्ति इति वक्तव्यं स्यात्, यदि कुलेन वा युक्ता उपकुलेन वा युक्ता सती श्राविष्ठयमावास्या युक्तेति वक्तव्यं स्यात्।
‘एवं नेयव्व'मिति एवमुक्तप्रकारेणशेषमप्यमावास्याजातं नेतव्यं, नवरं मार्गशीर्षी माघी फाल्गुनीमाषाढीममावास्यां कुलोपकुलमपियुनक्तीति वक्तव्यं, शेषासुत्वमावास्यासुकुलोपकुलं नास्ति, सम्प्रति पाठकानुग्रहाय सूत्रालापका दर्श्यन्ते ‘ता पुट्ठवइन् अमावासं किं कुलं जोएइ उवकुलंजोएइ कुलोवकुलंजोएइ?, ताकुलं वाजोएइ उवकुलं वाजोएइ, नो लब्मइ कुलोवकुलं, कुलं जोएमाणे उत्तराफग्गुणी जोएइ, उवकुलं जोएमाणे पुव्वाफग्गुणी जोएइ, ता पुट्ठवइन् अमावासं कुलं वा जोएइ उवकुलं वाजोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता पोट्टवया अमावासा जुत्तत्ति वत्तव्वं सिया।ता आसाइन्नं अमावासं किं कुलंजोएइ उवकुलंजोएइ कुलोवकुलं जोएइ?, ताकुलं वाजोएइ, उवकुलं वा जोएइ, नोलब्भइ कुलोवकुलं, कुलंजोएमाणेचित्तानक्खत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org