________________
१२६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८
नक्षत्रे युङ्कः, तद्यथा-अश्लेषा मघा च, चशब्दात्काञ्चिन्माघीं पौर्णमासीं पूर्वफाल्गुनीनक्षत्रं काञ्चित्पुष्यनक्षत्रं च, तद्यथा - प्रथमां माघी पौर्णमांसी मघानक्षत्रमेकादशसु मुहूर्त्तेषु एकस्य च मुहूत्तस्य एकपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनषष्टौ सप्तषष्टिभागेषु शेषेषु, द्वितीयां माघीं पौर्णमासीमश्लेषानक्षत्रमष्टसु मुहूर्तेषु एकस्य च मुहूर्तस्य षोडशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां माघीं पौर्णमासीं पूर्वफाल्गुनीनक्षत्रमष्टाविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य अष्टात्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वात्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी माघी पौर्णमासीं मघानक्षत्रं पञ्चविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्तस्य त्रिषु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनविंशती सप्तषष्टिभागेषु शेषेषु, पञ्चमीं माघीं पौर्णमासीं पुष्यनक्षत्रं षट्सु मुहूर्तेषु एक्सय च मुहूर्तस्य त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु शेषेषु परिसमापयति ।
'ता फग्गुणीन्न' मित्यादि, ता इति पूर्ववत् फाल्गुनीं णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्रामि युञ्जन्ति ?, भगवानाह - 'ता दोन्नी' त्यादि, ता इति प्राग्वत्, नक्षत्रे, तद्यथा - पूर्वाफाल्गुनी उत्तरफाल्गुनी च, तत्र प्रथमां फाल्गुनीं पौर्णमासीमुत्तराफाल्गुनीनक्षत्रं विंशतौ मुहूर्त्तेषु एकस्य च मुहूर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टापञ्चाशति सप्तषष्टि-भागेषु शेषेषु, द्वितीयां फाल्गुनी पौर्णमासीं पूर्वफाल्गुनीनक्षत्रं द्वयोर्मुहूर्त्तयोरेकस्य च मुहूर्त्तस्य एकादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां फाल्गुनीं पौर्णमासीमुत्तराफाल्गुनी नक्षत्रं सप्तसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य त्रयस्त्रशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी फाल्गुनीं पौर्णमासीमुत्तर- फाल्गुनीनक्षत्रं त्रयस्त्रिंशति मुहूर्त्तेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी फाल्गुनीं पौर्णमासीमुत्तरफाल्गुनीनक्षत्रं त्रयस्त्रिंशति मुहूर्तेषु एकस्य च मुहूर्त्तस्य षष्टो द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्याष्टादशसु सप्तषष्टिभागेषु शेषेषु, पञ्चमी फाल्गुनीं पौर्णमासीं पूर्वफाल्गुनीनक्षत्रं पञ्चदशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चविंशतौ द्वाषष्टिसङ्घयेषु भागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु शेषेषु परिसमापयति ।
‘ताचित्तिण्णं०’चैत्रीं पौर्णमासीं कति नक्षत्राणि युञ्जन्ति ?, भगवानाह, द्वे नक्षत्रे युङ्क्तः, तद्यथा-हस्तः चित्रा च, तत्र प्रथमां चैत्रीं पौर्णमासीं चित्रानक्षत्रं चतुर्द्दशसु मुहूर्तेष्वेकस्य च मुहूर्ततस्य एकचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां चैत्रीं पौर्णमासीं हस्तनक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य षट्सु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशति सप्तष-टिभागेषु शेषेषु, तृतीयां चैत्रीं पौर्णमासीं चित्रानक्षत्रमेकस्मिन् मुहूर्ते एकस्य च मुहूर्त्तस्य अष्टाविंशती द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी चैत्रीं पौर्णमासीं चित्रानक्षत्रं सप्तविंशतौ मुहूर्तेषु एकस्य च मुहूर्त्तस्य पञ्चपञ्चाशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तदशसु सतपष्टिभागेषु शेषेषु, पञ्चमी चैत्रीं पौर्णमासीं हस्तनक्षत्रं चतुर्विंशति मुहूर्तेष्वेकस्य च मुहूर्तस्य विंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्षु सप्तषष्टिभागेषु शेषेषु परिणमयति ।
'ता वइसाहिन्न' - मित्यादि, ता इति पूर्ववत्, वैशाखीं णमिति वाक्यालङ्कारे पौर्णमासी
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International