________________
प्राभृतं १०, प्राभृतप्राभृतं -६
१२५
दशसु सप्तषष्टिभागेषु शेषेषु परिसमापयति। _ 'कत्तियन्न मित्यादि, कार्तिकी पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह-द्वे नक्षत्रे युङ्कतेः, तद्यथा-भरणी कृत्तिकावा, इहाप्यश्विनीनक्षत्रमपि काञ्चित् कार्तिकी पौर्णमासी परिसमापयति परं तदाश्वयुज्यां पौर्णमास्यां प्रधानमितीह तन्न विवक्षितं, तत्र प्रथमां कार्तिकी पौर्णमासींकृत्तिकानक्षत्रमेकस्य च मुहूर्तस्य चतुषु द्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्य द्वाषष्टौ सप्तषष्टिभागेषु शेषेषु, द्वितीयां कार्तिकी पौर्णमासी कृत्तिकानक्षत्रंषड्विंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्यैकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्त्रिंशति सप्तषष्टिभागेषुशेषेषु, चतुर्थी कार्तिकी पौर्णमासी कृत्तिकानक्षत्रं षोडशसु मुहूर्तेष्वेकस्य चमुहूर्तस्याष्टापञ्चाशतिद्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्यद्वाविशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमी कार्तिकी पौर्णमासी भरणीनक्षत्रं नव मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य नवसु सप्तषष्टिभागेषु शेषेषु परिसमापयति । _ 'तामग्गसिरंणंपुन्निमंकइनक्खत्ता जोइंति'त्तिताइतिपूर्ववत्, कतिनक्षत्राणि मार्गशीर्षी पौर्णमासी युञ्जन्ति ?, भगवानाह-'ता दोन्नी'त्यादि, ता इति प्राग्वत्, द्वे नक्षत्रे युङ्कतः, तद्यथा-रोहिणिका मृगशिरश्च, सत्र प्रथमां मार्गशीर्षी पौर्णमासी मृगशिरोऽष्टसु मुहूर्तेष्वेकस्य च मुहूर्तस्य सम्बन्धिनो द्वाषष्टिभागस्य सत्केष्वेकषष्टौ सप्तषष्टिभागेषु शेषेषु, तृतीयां मार्गशीर्षी पौर्णमासी रोहिणीनक्षत्रंमेकविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिपञ्चाशंतिद्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्य पञ्चत्वारिंशति सप्तषष्टिभागेषुशेषेषु, चतुर्थी मार्गशीर्षी पौर्णमासी मृगशिरेनक्षत्रं द्वाविंशतौ मुहूर्तेषुएकस्य च मुहर्तस्य त्रयोदशसुद्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकविंशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमी मार्गशीर्षी पौर्णमासी रोहिणीनक्षत्रं अष्टादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्यचद्वाषष्टिभागस्याष्टसुसप्तषष्टिभागेषुशेषेषुपरिणमयति
'तापोसींणं'मित्यादि, ताइतिपूर्ववत्, पौषींणमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणियुञ्जन्ति?, भगवानाह-'ता' इत्यादि, ता इतिपूर्ववत्, त्रीणि नक्षत्राणियुञ्जन्ति, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्च, तत्रप्रथमां पौषीं पौर्णमासी पुनर्वसुनक्षत्रं द्वयोर्मुहूर्त्तयोरेकस्य च मुहूर्तस्यषट्पञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु, द्वितीयां पौषीं पौर्णमासी एकोनविंशति मुहूर्तेषु एकस्य च मुहूर्तस्यैकविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषुशेषेषु, तृतीयां पौषीं पौर्णमासीमधिकमासादस्तिनीमार्दानक्षत्रं दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्याप्टाचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य चतुस्त्रिंशति सप्तपष्टिभागेषु शेषेषु, अधिकमासभाविनीं पुनस्तामेव तृतीयां पौर्णमासीं पुष्यनक्षत्रमेकोनविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशति सप्तपष्टिभागेषु शेषेषु, चतुर्थी पौषीं पौर्णमासी पुनर्वसुनक्षत्रं षोडशसु मुहूर्तेषु एकस्य च मुहूर्तस्य अष्टसु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तपष्टिभागेषुशेषेषु, पञ्चमी पौषी पौर्णमासी पुनर्वसुनक्षत्रं दविचत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तसु सप्तषष्टिभागेषु शेषेषु परिसमाप्तिं नयति। ___ता माहीण्ण'मित्यादि, माघी पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह-, द्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org