________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८
द्वाषष्टिभागाः एकस्य च द्वाषष्टिभाग-स्याष्टाविंशति सप्तषष्टिभागाः, आगतं श्रवणनक्षत्रं षड्विंशतौ मुहूर्तेष्वेकस्य च मुहूर्त्तस्य एकादशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनचत्वारिंशति सप्तषष्टिभागेषु शेषेषु तृतीयां श्राविष्ठीं पौर्णमासीं परिसमापयति, एवं चतुर्थी श्राविष्ठी पौर्णमासीं धनिष्ठानक्षत्रं षोडशसु मुहूर्तेषु एकस्य च समुहुरूत्तस्य त्रयस्त्रशति द्वाषष्टिभागेष्वेकस्य द्वाषष्टिभागस्य पञ्चविंशती सप्तषष्टिभागेषु शेषेषु परिसमापयति, पञ्चमीं श्राविष्ठीं पौर्णमासी श्रवणनक्षत्रं द्वादशसु मुहूर्तेषु एकस्य च सुमुहूर्तस्य षष्टिसङ्घयेषु द्वाषष्टिभागेष्वेकस्य द्वाषष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु शेषेषु परिसमाप्तिं नयतीति ।
१२४
तदेवं यानि नक्षत्राणि श्राविष्ठीं पौर्णमासीपरिसमापयन्ति तान्युक्तानि, सम्प्रति यानि प्रोष्ठपदीं समापयन्ति तान्याह - 'ता पोट्ठवइन्नं' इत्यादि, ता इति पूर्ववत्, प्रोष्ठपदीं - भाद्रपदीं णमिति वाक्यालङ्कारे पौर्ममासीं कति नक्षत्राणि युञ्जन्ति-कति नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य परिसमापयन्तीत्यर्थः, एवं सर्वत्रापि युञ्जन्तीत्यस्य पदस्य भावना कर्त्तव्या, भगवानाह -
'ता' इत्यादि, 'ता' इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा- शतभिषक् पूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदाच, तत्र प्रथमां प्रोष्ठपदीं पौर्णमासीमुत्तरभद्रपदानक्षत्रं सप्तविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्द्दशसु द्वाषष्टिभागेषु चतुःषष्टौ सप्तषष्टिभागेषु शेषेषु परिसमाप्तिं नयति, द्वितीयां प्रौष्ठपदीं पौर्णमासीं पूर्वभद्रपदानक्षत्रमष्टसु मुहूर्तेषु शेषेष्वेकस्य च मुहूर्तस्यैकचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकपञ्चाशति सप्तषष्टिभागेषु शेषेषु परिणमयति, तृतीयां प्रौष्ठपदीं पौर्णमासीं शतभिषक् पञ्चसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षटसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशतौ सप्तषष्टिभागेषु शेषेषु ।
चतुर्थी प्रोष्ठपदीं पौर्णमासी उत्तरभद्रपदानक्षत्रं चत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्त्तस्यैकचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्विंशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमीं प्रौष्ठपदीं पौर्णमासीं पूर्वभद्रपदानक्षत्रमेकविंशतौ मुहूर्त्तष्वेकस्य च मुहूर्त्तस्य पञ्चपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकादशसु सप्तषष्टिभागेषु शेषेषु परिणमयति, आश्वयुजीं पौर्णमासीं कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - ता इति पूर्ववत् द्वे नक्षत्रे युङ्क्तः, तद्यथा - रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाश्वयुजीं पौर्णमासीं परिसमापयति, परं तट्प्रौष्ठपदीमपि पौर्णमासीं परिसमापयति, तत्रैव च लोके तस्य प्राधान्यं तन्नाम्ना तस्याः पौर्णमास्याः अभिधानादतस्तदिह न विवक्षितमित्यदोषः ।
तथाहि - प्रथमामाश्वयुजीं पौर्णमासीमश्विनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य च द्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु शेषेषु परिसमापयति, द्वितीयामाश्वयुजी पौर्णमासी रेवतीनक्षत्रं सप्तदशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य पटत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पञ्चाशति सप्तषष्टिभागेषु शेपेषु, तृतीयामाश्वयुजीं पौर्णमासीमुत्तरभद्रपदानक्षत्रं चर्तुदशसु मुहूर्त्तेषु एकस्य च मुहूर्तस्य एकस्मिन् द्वापष्टिभागे एकस्य च द्वापटिभागस्य सप्तत्रिंशति सप्तपष्टिभागेषु शेषेषु, चतुर्थीमाश्वयुजी पौर्णमासी रेवतीनक्षत्रं चतुर्षु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य त्रयस्त्रशति द्वाषष्टिभागेष्वेकस्य द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टिभागेषु शेषेषु पञ्चमीमाश्वयुजीं पौर्णमासीमुत्तरभद्रपदानक्षत्रमेकस्य च मुहूर्त्तस्य पञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org