________________
प्राभृतं १०, प्राभृतप्राभृतं - ६
१२३
एष पौर्णमासीचन्द्रनक्षत्र परिज्ञानविषयकरणगाथाद्वयाक्षरार्थः, सम्प्रत्यस्यैव भावना क्रियते कोऽपि पृच्छति - युगस्यादौ प्रथमा पौर्णमासी श्राविष्ठी कस्मिंश्चन्द्रनक्षत्रे परिसमाप्तिमुपैति ? तत्र षटषष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशिर्ध्रयते, प्रथमायां किल पौर्णमास्यां पृष्टमित्येकेन गुण्यते, एकेन गुणितं तदेव भवति, ततस्तस्मादभिजितो न मुहूर्त्ता एकस्य च मुहूर्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्य षटषष्टि सप्तषष्टिभागा इत्येवंपरिमाणं शोधनकं शोधनीयं, तत्र षटषष्टेर्नव मुहूताः शुद्धाः स्थिताः पश्चात्सप्तपञ्चाशत्, तेभ्य एको मुहूर्ती गृहीत्वा द्वाषष्टिभागीकृतस्ते च द्वाषष्टिरपि द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते, जाताः सप्तषष्टि द्वाषष्टिभागास्तेभ्यश्चतुर्विंशति शुद्धाः स्थिताः पश्चात्रिचत्वारिंशत्, तेभ्य एकं रूपमादाय सप्तषष्टि भागीक्रयते, ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागैकमध्ये प्रक्षिप्यन्ते, जाता अष्टषष्टि सप्तषष्टिभागास्तेभ्यः षट्षष्टि शुद्धा स्थितौ पश्चाद् द्वौ सप्तषष्टिभागौ, ततस्त्रशता मुहूतैः श्रवणः शुद्धः स्थिताः पश्चान्मुहूताः षड्विंशति, तत इदमागतं–धनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेष्वेकस्य मुहूत्तस्य मुहूर्त्तस्य एकोनविंशतिसङ्घयेषु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चषष्टिसङ्घयेषु सप्तषष्टिभागेषु शेषेषु प्रथमा श्राविष्ठी पौर्णमासी परिसमाप्तिमेति ।
यदा तु द्वितीया श्राविष्ठीपौर्णमासी चिन्त्यते तदा सा युगस्यादित आरभ्य त्रयोदशी, ध्रुवराशि त्रयोदशभिर्गुण्यते, जाता मुहूर्तानामष्टी शतानि अष्टापञ्चाशदधिकानि, एकस्य च मुहूर्त्तस्य पञ्चषष्टिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः ।
तत्राष्टभि शतैरेकोनविंशत्यधिकैर्मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य चद्वाषष्टिभागस्य सत्कैः षटषष्टया सप्तषष्टिभागैरेको नक्षत्रपर्यायः शुद्धः, ततः स्थिताः पश्चादेकनचत्वारिंशन्मुहूर्त्ता एकस्य च मुहूर्त्तस्य चत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्द्दश सप्तषष्टिभागाः ।
ततो नवभिर्मुहूर्तेरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्टया सप्तषष्टिभागैरभिजिन्नक्षत्रं शुद्धयति, स्थिताः पश्चात्रिंशन्मुहूर्त्ताः पञ्चदश मुहूर्त्तस्य द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य पञ्चदश सप्तषष्टिभागाः । तेभ्यस्त्रंशता श्रवणः शुद्धः, आगतं एकोनत्रिंशतिमुहूर्तेषु एकस्य च मुहूर्त्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु शेपेषु धनिष्ठायां द्वितीया श्राविष्ठीपौर्णमासी परिसमाप्तिमेति यदा तु तृतीया श्राविष्टी पौर्णमासी चिन्त्यते तदा सा युगस्यादितः पञ्चविंशतितमेति पूर्वोक्तो ध्रुवराशि । पञ्चविंशत्या गुण्यते, जातानि षोडश शतानि पञ्चाशदधिकानि, एकस्य च मुहूर्तस्य पञ्चविंशंशतं द्वाषष्टिभागानां एकस्य च द्वाषष्टिभागस्य पञ्चविंशति सप्तषष्टिभागाः, तत्र पोडशभिः शतैरष्टात्रिंशदधिकैः मुहूर्तानामेकस्य च मुहूर्तस्याष्टाचत्वारिंशता द्वापष्टिभागैः एकस्य च द्वापष्टिभागस्य द्वात्रिंशदधिकेन शतेन द्वौ नक्षत्रपर्यायौ शुद्धयतः स्थिताः पश्चाद् द्वादश मुहूर्त्ताः एकस्य च मुहूर्त्तस्य पञ्चसप्ततिर्द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तविंशति सप्तषष्टिभागाः, ततो नवभिर्मुहूर्तेरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षटषष्टया सप्तषष्टिभागैरभिजिन्नक्षत्रं शुद्धयति, स्थिताः पश्चात्रयोदश मुहूर्त्ताः एकस्य च मुहूर्तस्य पञ्चाशद्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International