________________
१२२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ ह्रियते, लब्धा द्वाविंशतिर्मुहूत्ताः, शेषं तिष्ठन्ति त्रीणि सहस्राणि द्व्यशीत्यधिकानि, एतानि द्वाषष्टिभागानयनार्थं द्वाषष्टया गुण्यन्ते, जातमेकं लक्षमेकनवति सहस्राणि चतुरशीत्यधिकानि, तेषां छेदराशिना भागो ह्रियते, लब्धाः षट्चत्वारिंशन्मुहूर्तस्य द्वाषष्टिभागाः, एषा पुनर्वसुनक्षत्रस्य शोधनकनिष्पत्ति। शेषनक्षत्राणां शोधनकान्याह___'बावत्तरंसय मित्यादि, द्वासप्ततं-द्विसप्तत्यधिकंशतंफाल्गुनीनां-उत्तरफाल्गुनीनांशोध्यं, किमुक्तं भवति?-द्विसप्तत्यधिकेनशतेनपुनवुप्रभृतीन्युत्तरफाल्गुनीपर्यन्तानिनक्षत्राणिशुद्धयन्ति, एवमुत्तरत्रापि भावार्थो भावनीयः, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषुशोधनकं द्वेशते द्विनवत्यधिके, अथानन्तमुत्तराषाढापर्यन्तानि नक्षत्राण्यधिकृत्य शोध्यानि चत्वारि शतानि द्विचत्वारिंशदधिकानि । “एयं पुणे'त्यादिगाथा, एतदनन्तरोक्तं शोधनकं सकलमपि पुनर्वसुसत्कद्वाषष्टिभाग-सहितमवसेयं, एतदुक्तं भवति-ये पुनर्वसुसत्का द्वाविंशतिर्मुहूर्तास्ते सर्वेऽप्युत्तरस्मिन्शोधन-केऽन्तःप्रविष्टाःप्रवर्तन्ते, नतुद्वाषष्टिभागाः, ततो यद्यच्छोधनकंशोध्यते तत्र तत्र पुनर्वसुसत्काः षटचत्वारिंशद् द्वाषष्टिभागा उपरितना शोधनीया इति, एतच्च पुनर्वसुप्रभृत्युत्तराषाढापर्यन्तं प्रथमंशोधनकं, अत ऊर्ध्वमभिजितमादिं कृत्वा द्वितीयंशोधनकं वक्ष्यामि, तत्र प्रतिज्ञातमेव निर्वाहयति
'अभिइस्से'त्यादिगाथाचतुष्टयं, अभिजितोनक्षत्रस्य शोधनकंनव मुहूर्ताएकस्यच मुहूर्तस्य सत्काश्चतुर्विंशतिषष्टिभागाः,एकस्य चद्वाषष्टिभागस्यसप्तषष्टिश्छेदकृताः परिपूर्णाषटषष्टिभागाः, तथा एकोनषष्ट-एकोनषष्टयधिकंशतं।प्रोष्ठपदानां-उत्तरभद्रपदानांशोधनकं, किमुक्तंभवति? -एकोनषष्टयधिकेनशतेनाभिजिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणिशुद्धयन्ति, एवमुत्तरत्रापि भावना कर्तव्या, तथा त्रिषु नवोत्तरेषु शतेषु रोहिणिका-रोहिणिपर्यन्तानि शुद्धयन्ति, तथा त्रिषु नवनवतेषु- नवनवत्यधिकेषु शतेषु शोधितेषु पुनर्वसुपर्यन्तं नक्षत्रजातं शुद्धयति, तता एकोनपञ्चाशदधिकानिपञ्चशतानिप्राप्य फाल्गुन्यश्च-उत्तरफाल्गुनीपर्यन्तानिनक्षत्राणिशुद्धयन्ति । विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु एकोनसप्तत्यधिकानिषट्शतानि शोध्यानि, मूलपर्यन्ते नक्षत्रजते सप्त शतानि चतुश्चत्वारिंशदधिकानि शोध्यानि ।
उत्तराषाढानां-उत्तराषाढापर्यन्तानांनक्षत्राणांशोधनकमष्टौ शतानिएकोनविंशत्यधिकानि, सर्वेष्वपि च शोधनेषूपरि अभिजितो नक्षत्रस्य सम्बन्धिनो मुहूर्तस्य द्वाषष्टिभागाश्चतुर्विंशति षटषष्टिश्च चूर्णिकाभागा एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागाः शोधनीयाः।
___ “एयाई'इत्यादि, एतान्यनन्तरोदितानिशोधनकानि यथायोगंशोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्रं, एतस्मिंश्च नक्षत्रे करोति सूर्येण सममुडुपतिरमावास्यामिति। तदेवममावास्याविषयचन्द्रयोगपरिज्ञानार्थ करणमुक्तं, सम्प्रति पौर्णमासीविषयचन्द्रयोगपरिज्ञानार्थंकरणमाह
_ 'इच्छापुनिमे'त्यादि, यः पूर्वममावास्याचन्द्रनक्षत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि पौर्णमासीचन्द्रनक्षत्रपरिज्ञानविधौ ईप्सितपौर्णमासीगुणितो-यांपौर्णमासी ज्ञातुमिच्छति तत्सङ्ख्यया गुणितः कर्त्तव्यः, गुणितेच सति तदेव पूर्वोक्तंशोधनं कर्त्तव्यं, केवलमभिजिदादिकं नतु पुनर्वसुप्रभृतिकं। शुद्धे च शोधनके यत् शेषमवतिष्ठतेतद्भवेन्नक्षत्रं पौर्णमासीयुक्तं, तस्मिंश्च नक्षत्रे करोति उडुपति-चन्द्रमाः परिपूर्ण पूर्णमासी विमलामिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org