________________
प्राभृतं १०, प्राभृतप्राभृतं -६
१२१
द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टितमो भागः, एतावत्प्रमाणोऽवधार्यराशि, कथमेतावप्रमाणस्या-स्योत्पत्तिरिति चेत्?, उच्यते, इह यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ?, अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशि पञ्चलक्षणो गुण्यते, जाता दश, तेषां चतुर्विंशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना क्रियते, जात उपरितनश्छेद्यो राशि पञ्चकरूपोऽऽधस्तन द्वाषष्टिरूपः, लब्धाः पञ्चद्वाषष्टिभागाः, एतेन नक्षत्राणि कर्त्तव्यानीति नक्षत्रकरणार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्त,प्टिभागरूपैर्गुण्यन्ते, जातान्येकवतिशतानि पञ्चाशदधिकानि, छेदराशिरपि द्वाषष्टिप्रमाणः सप्तषष्टया गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, उपरितनराशिमुहूर्तानयानय भूयस्त्रशता गुण्यते, जाते द्वेलक्षेचतुःसप्तति सहस्राणिपञ्चशतानि, तेषां चतुष्पञ्चाशदधिकैकचत्वारिंशच्छतैर्भागहरणं, लब्धाः षट्षष्टिर्मुहूत्ताः,शेषाअंशास्तिष्ठन्ति त्रीणि शतानि षट्त्रिंशदधिकानि, ततो द्वाषष्टिभागानयनार्थं तानि द्वाषष्ट्या गुण्यन्ते, जातानि विंशति सहस्राणि अष्टौ शतानि द्वात्रिंशदधिकानि, तेषामन्तरोक्तेन छेदराशिना ४१५४ भागो ह्रियते, लब्धाः पञ्चद्वाषष्टिभागाः, शेषास्तिष्ठन्ति द्वाषष्टि, ततस्तस्याद्वाषष्ट्या अपवर्तना क्रियते, जात एककः, छेदराशेरपि द्वाषष्ट्याऽपवर्तनायां लब्धाः सप्तषष्टिः, तत आगतं षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इति, तदेवमुक्तमवधायुराशिप्रमाणं, सम्प्रति शेषविधिमाह
“एयमवहारे' त्यादि, एतं-अनन्तरोदितस्वरूपमवधार्यराशिमिच्छाऽमावास्यासंगुणंयाममावास्यां ज्ञातुमिच्छसि तत्सङ्ख्यया गुणितं कुर्यात्, अत ऊर्ध्व च नक्षत्राणि शोधनीयानि, ततोऽत ऊर्ध्वं नक्षत्राणां शोधनकविधिं-शोधनकप्रकारं वक्ष्यमाणं निशमयत-आकर्णयत । तत्रप्रथमतः पुनर्वसुशोधनकमाह- 'बावीसं'चेत्यादिगाथा, द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य षटचत्वारिंशद् द्वाषष्टिभागाः एतद्-एतावप्रमाणं पुनर्वसुनक्षत्रस्य परिपूर्णं भवति शोद्धव्यं, कथमेवं प्रमाणस्य शोदनकस्योत्प-त्तिरिति चेत् ?, उच्यते, इह यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्चसूर्यनक्षत्रपर्याया लभ्यन्ते तदैकंपर्वातिक्रम्य कतिपयास्तेनैकेन पर्वणा लभ्यन्ते?, अत्रान्त्येन राशिना एकलक्षणेन मध्यराशि पञ्चकरूपो गुण्यते, जाताः पञ्चैव, “एकेन गुणितंतदेव भवतीति वचनात्, तेषां चतुर्विंशत्यधिकेन शतेन भागो ह्रियते, लब्धाः पञ्च चतुर्विंशत्यधिकशतभागाः, ततो नक्षत्रानयनार्थमेतेऽष्टादशभि शतैस्त्रिंशदधिकैः सप्तषष्टिभागरूपैः गुणयितव्या इति, गुणकारच्छेदराश्योर्द्विकेनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि, छेदराशिषष्टिः, ततः पञ्च नवभि पञ्चदशोत्तरैः शतैर्गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि, छेदराशिौषष्टिलक्षणः सप्तषष्टया गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुःपञ्चाशदधिकानि, तथा पुष्यस्य ये त्रयोविंशति सप्तपष्टिभागाः प्राक्तनयुगचरमपर्वणि सूर्येण सह योगमायान्ति ते द्वाषष्टया गुण्यन्ते, जातानि चतुर्दश शतानि षड्विंशत्यधिकानि, एतानि प्राक्तनात् पञ्चसप्तत्यधिकपञ्चचत्वारिंशच्छतप्रमाणात् शोध्यन्ते, शेषं तिष्ठन्ति एकत्रिंशच्छतानि एकोनपञ्चाशदधिकानि, तत एतानि मुहूर्तानयनार्थंत्रिंशता गुण्यन्ते, जातानि चतुर्णवति सहस्राणि चत्वारिशतानि सप्तत्यधिकानि, तेषांछेदराशिना चतुष्पञ्चाशदधिकैकचत्वारिंशच्छतरूपेण भागो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org