________________
प्राभृतं १०, प्राभृतप्राभृतं - ६
१२७
कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - 'ता दोन्नी' त्यादि, ता इति प्राग्वत्, द्वे नक्षत्रे युङ्क्तः, तद्यथा - स्वाति विशाखा च, चशब्दादनुराधाच, इदं हि अनुराधानक्षत्रं विशाखातः परं, विशाखा चास्यां पौर्णमास्यां प्रधाना, ततः परस्यामेव पौर्णमास्यां तत्साक्षादुपात्तं नेहेति, तत्र प्रथमां वैशाखीं पौर्णमासीं विशाखानक्षत्रमष्टसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षट्त्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्पञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां वैशाखीं पौर्णमासीं विशाखानक्षत्रं पञ्चविंशतौ मुहूर्त्तेषु एकस्यच मुहूर्त्तस्यैकस्मिन् द्वाषष्टिभागे एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां वैशाखीं पौर्णमासीं अनुराधानक्षत्रं पञ्चविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रयोविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी वैशाखी पौर्णमासी विशाखानक्षत्रमेकविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य पञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षोडशसु सप्तषष्टिभागेषु शषेषु, पञ्चमीं वैशाखीं पौर्णमासीं स्वातिनक्षत्रं त्रिषु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य पञ्चदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु शेषेषु परिणमयति ।
‘ता जेट्ठामूलिं न’मित्यादि, ता इति पूर्ववत्, ज्येष्ठामौलीं णमिति वाक्यभूषणे पौर्णमासीं कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-अनुराधा ज्येष्ठा मूलं च, तत्र प्रथमां ज्येष्ठामौलीं पौर्णमासीं मूलनक्षत्रं सप्तदशसु मुहूर्तेषु एकस्य च मुहूर्त्तस्यैकत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चपञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां ज्येष्ठामौली पौर्णमासीं ज्येष्ठा नक्षत्रं त्रोयदशसु मुहूर्तेषु एकस्म च मुहूर्तस्य अष्टपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याटाविंशती सप्तषष्टिभागेषु शेषेषु, चतुर्थी ज्येष्ठामौलीं पौर्णमासीं ज्येष्ठानत्रमेकस्य च मुहूर्त्तस्य पञ्चचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेषु शेषेषु, पञ्चमीं ज्येष्टामूली पौर्णमासी अनुराधानक्षत्रं द्वादशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य दशसु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वयोः सप्तषष्टिभागयोः परिसमाप्तिमुपनयति ।
'आसाढिन्न' मित्यादि, ता इति पूर्ववत्, आषाढी णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - 'ता दो' इत्यादि, ता इत पूर्ववत्, द्वे नक्षत्रे युङ्कः, तद्यथा - पूर्वाषाढा उत्तराषाढाच, तत्र प्रथमामाषाढी पौर्णमासीमुत्तराषाढानक्षत्रं षडविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य पविशतौ द्वाषष्टिभागेषु एखस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयामापाठी पौर्णमासीं पूर्वापादानक्षत्रं सप्तसु मुहूर्तेप्येकस्य च मुहूर्त्तस्य त्रिपञ्चाशति द्वापष्टिभागेप्येकस्य च द्वापष्टिभागस्येकचत्वारिंशति सप्तषष्टिभागेषु शेपेषु तृतीयामापाढी पौर्णमासी उत्तरापाढानक्षत्रं त्रयोदशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रयोदशसु द्वापष्टिभागेषु एकस्य च द्वापटिभागस्य सप्तविंशती सप्तषष्टिभागेषु शेषेषु चतुर्थीमाषाढी पौर्णमासीमुत्तराषाढानक्षत्रमेकोनचत्वारिंशति मुहूर्तेषु एकस्य च मुहूर्तस्य चत्वारिंशति द्वापटिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्द्दशसु सप्तषष्टिभागेषु शेपेषु परिसमापयति, पञ्चमीमापाढी पौर्णमासीमुत्तराषाढानक्षत्रं स्वयं परिसमाप्नुवम् परिसमापयति, किमुक्तं भवति ? – एकत्र पञ्चमी आषाढी पौर्णमासी समाप्तिमेति अन्यत्र चन्द्रयोगमधिकृत्योत्तराषाढानक्षत्रमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org