SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्राभृतं ९, प्राभृतप्राभृतं १०३ नींचैस्तरामिति, तथा यथा लेश्याः सञ्चरन्ति, तद्यथा अतिनीचैस्तरां वर्तमाने सूर्ये सर्वस्यापि प्रकाश्यस्य वस्तुन उपरि प्लवमाना वस्तुनो दूरतः परिपतन्ति, ततः प्रकाश्यस्य वस्तुनो महती महत्तरा छाया भवति, उच्चैरुच्चैस्तरां वर्द्धमाने सूर्ये प्रत्यासन्नाः प्रत्यासन्नतराः परिपतन्ति, ततः प्रकाश्यस्य वस्तुनो हीना हीनतरा छाया भवति, तत एवं तथा तथा वर्तमानं सूर्यस्योच्चत्वं लेश्यां चप्रतीत्य छायायाअन्यथाभवन्त्या उद्देशो ज्ञातव्यः, इह प्रतिक्षणंतत्तत्पुदगलोपचयेन तत्तत्पुद्गलहान्या वायत्छायायाअन्यत्वंतत्केवल्येव जानाति छद्मसत्थस्तूद्देशतस्तत उक्तं छायोद्देश इति। ___'उच्चत्तं च छायं च पडुच्च लेसोद्देस'इति, तथा तथा विवर्त्तमानं सूर्यस्योच्चत्वं छायां च हीनां हीनतरामधिकामधिकतरांच तथा तथा भवन्तींप्रतीत्य-आश्रित्य लेश्यायाः-प्रकाश्यस्य वस्तुनः प्रत्यासन्नं प्रत्यासन्नतरं दूर दूरतरं वा परिपतन्त्या उद्देशो ज्ञातव्यः, तथा 'लेसंच छायंच पडुच्च उच्चत्तोद्देसे' इति, लेश्यां-प्रकाश्यस्य वस्तुवो दूरंदूरतरमासन्नमासन्नतरंपरिपतन्तीं छायां च हीनां हीनतरामधिकामधिकतरांच तथा तथा भवन्तीं प्रतीत्य सूर्यगतस्योच्चत्वस्य तथा तथा विवर्तमानस्योद्देशोज्ञातव्यः, किमुक्तंभवति? -त्रीण्यप्येतानि प्रतिक्षममन्यथान्यथा विवर्तन्ते, ततएकस्य द्वयस्य वा तथा तथा विवर्त्तमानस्योद्देशत उपलम्भादितरस्याप्युद्देशतोऽवगमः कर्त्तव्य इति। तदेवं लेश्यास्वरूपमुक्तं, सम्प्रति पौरुष्याश्छायायाः परिमाणविषये परतीर्थिकप्रतिपत्तिसम्भवं कथयति-तत्थे' त्यादि, तत्र-तस्यां पौरुष्याश्छायायाः परिमाणचिन्तायां विषये खल्विमेद्वेप्रतिपत्ती प्रज्ञप्ते, तद्यथा-तत्र-तेषांद्वयानां परतीथिकानांमध्ये एके एवमाहुः-अस्ति स दिवसो यस्मिन् दिवसे सूर्य उदगमनमुहूर्ते अस्तमयमुहूर्ते च चतुष्पौरुषी-चतुष्पुरुषप्रमाणां पुरुषग्रहणमुपलक्षणं तेन सर्वस्यापि प्रकाश्यस्य वस्तुनश्चतुर्गुणांछांयां निवर्तयति, अस्तिसदिवसोयस्मिन्दिवसेउद्गमनमुहूर्तेअस्तमयमुहूर्तेच द्विपौरुषीं-द्विपुरुषप्रमाणां छायां सूर्यो निवर्तयति, अत्रापि पुरुषग्रहणमुपलक्षणंततः सर्वस्यापि वस्तुनः प्रकाश्यस्य द्विगुणां छायां निवर्तयतीति द्रष्टव्यं, अत्रोपसंहारः ‘एगे एवमाहंसु' १, एके पुनरेवमाहुः-ता इति पूर्ववत्, अस्ति स दिवसो यस्मिन् दिवसे उद्गमनमुहूर्ते अस्तमयमुहूर्ते च सूर्यो द्विपौरुषी-पुरुषद्वयप्रमाणां छायां निवर्तयति, पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्यापि प्रकाश्यवस्तुनो द्विगुणां छायां निवर्तयतीत्यर्थ, तथा अस्ति स दिवसो यस्मिन् दिवसे सूर्योऽस्तमयमुहूर्ते उद्गमनमुहूर्ते च न काञ्चिदपि पौरुषी छायांनिर्वर्त्तयति सम्प्रत्येतेएव मते भावयति-'तत्थे' त्यादि, तत्र-तेषांद्वयानांमध्ये येतेवादिन एवमाहु:अस्ति स दिवसो यस्मिन् दिवसे चतुष्पौरुषी छायां सूर्यो निर्वर्तयति, अस्ति स दिवसो यस्मिन् दिवसे सूर्यो द्विपौरुषी छायां निवर्तयति, एवं स्वमतविभावनार्थमाहुः-‘ता जया ण'मित्यादि, तत्र यदा-यस्मिन् काले णमिति वाकयालङ्कारे सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि तस्मिंश्च दिवसे सूर्यश्चतुष्पौरुषी-चतुष्पुरुषप्रमाणांछायां निवर्तयति, तद्यथा-उद्गमनमुहूर्तेऽस्तमयमुहूर्ते च, स चोद्गमनमुहूर्तऽस्तमयमुहूर्तेचचतुष्पौरुषीं छायां निवर्तयति लेश्यामभिवर्द्धयन् प्रकाश्यवस्तुन उपरिप्लवमानांदूर दूरतरंपरिक्षिपन्चैव-नैव निर्वेप्टयन्-प्रकाश्यवस्तुन उपरिप्लवमानां प्रत्यासनं प्रत्यासन्नतरं परिक्षिपन् तथा सति छायाया हीनहीनतरत्वसम्भवात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy